________________ पमाण 462 - अभिधानराजेन्द्रः - भाग 5 पमाण गुणज्ञानस्य भावात्तन्निश्चयस्य प्रामाण्यनिश्चयेऽनुपयोगाचनाप्येकदा संवादाद् गुणानिश्चित्य अन्यदा संवादमन्तरेणाऽपि गुणनिश्चयादेव तत्प्रभवस्य ज्ञानस्य प्रामाण्यनिश्चय इति वक्तुशक्यम्। अत्यन्तपरोक्षेषु चक्षुरादिषु कालान्तरेऽपि निश्चितप्रामाण्यस्वकार्यदर्शनमन्तरेण गुणानुवृत्तेर्निश्चेतुमश क्यत्वात् / न च क्षणक्षयिषु भावेषु गुणानुवृत्तिरेकरूमैव संभति। अपरापर-सहकारिभेदेन भिन्नरूपत्वात्। संवादप्रत्ययाच्चार्थक्रियाज्ञानलक्षणात् प्रामाण्यनिश्चयोऽभ्युपगम्यत एव। "प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणाभिधानात् / न च संवादित्वलक्षणं प्रामाण्यं स्वत एव ज्ञायते इति शक्यमभिधातुम्।यतः संवादित्वं संवादप्रत्ययजननशक्तिःप्रमाणस्य न च कार्यदर्शनमन्तरेण कारणशक्तिनिश्चेतु शक्या / यदाह- "न प्रत्यक्षे कार्ये कारणभावगतिः" इति। तस्मादुत्तरसंवादप्रत्ययात्पूर्वस्य प्रामाण्यं व्यवस्थाप्यतेनच संवादप्रत्ययात्पूर्वस्य प्रामाण्यावगमे संवादप्रत्ययस्याप्यपरसंवादात् प्रामाण्यावगम इत्यनवस्थाप्रसङ्गात् प्रामाण्यावगमाभाव इति वक्तुं युक्तम् / संवादप्रत्ययस्य संवादरूपत्वेनापरसंवादापेक्षाभावतोऽनवस्थाऽनवतारात्। न च प्रथमस्याऽपि संवादापेक्षा मा भूदिति वक्तव्यम्। यतस्तस्य संवादजनकत्वमेव प्रामाण्यं, तदभावे तस्य तदेव न स्यात्। अर्थक्रियाज्ञानं तु साक्षादविसंवादि। अर्थक्रियाऽऽलम्घनत्वात् तस्य स्वविषये संवेदनमेव प्रामाण्यम् / तत्र स्वतः सिद्धमिति नान्यापेक्षा / तेन 'कस्यचित्तु यदीष्येत" इत्यादिपरस्य प्रलापमात्रमान चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशकायामन्यप्रमाणापेक्षयाऽनवस्थाऽवतार इति वक्तव्यम् / अर्थक्रियाज्ञानस्यार्थक्रियाऽनुभव स्वभावत्वेनार्थक्रियामात्रार्थिना भिन्नार्थक्रियात एतज्ज्ञानमुत्पन्नम्, उत तद्व्य तिरेकेणेत्येवंभूतायाश्चिन्ताया निष्प्रयोजनत्वात्। तथाहि-यथाऽर्थक्रिया किमवयवव्यतिरिक्तेनावयविनाऽर्थेन निष्पादिता, उताव्यतिरिक्तेन, आहोस्विदुभयरूपेण, अथाऽनुभयरूपेण, किं वा त्रिगुणाऽऽत्मकेन, परमाणुसमूहात्मकेन वा, अथ ज्ञानरूपेण आहोस्वित्संवित्तिरूपेणेत्यादिचिन्ताऽर्थक्रियामात्रार्थिनां निष्प्रयोजना, निष्पन्नत्वाद्वाञ्छितफलस्य, तथ्यमपि किं वस्तुसत्यामर्थक्रियायां तत्संवेदनज्ञानमुपजायते, आहोस्विदवस्तुसत्यामिति। तृड्दाहविच्छे दाऽऽदिकं हि फलमभिवाञ्छितम् / तच्चाभिनिष्पन्न तद्वियोगज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम्, अवस्तुनि ज्ञानद्वयासंभवाच्च / यत्र हि साधनज्ञानपूर्वकमर्थक्रियाज्ञानमुत्पद्यते तत्राऽवस्तुशङ्का नैवास्ति। न ह्यनग्नावग्निज्ञाने संजाते प्रवृत्तस्य दाहपाकाऽऽद्यर्थक्रियाज्ञानस्य संभव इत्यागोपालाङ्ग नाप्रसिद्धमेतत् / न च स्वप्रार्थक्रियाज्ञानमर्थक्रियाऽभावेऽपि दृष्टमिति जाग्रदर्थक्रियाज्ञानमपि तथाऽऽशङ्काविषयः। तस्य तद्विपरीतत्वत्। तथाहि-स्वप्रार्थक्रियाज्ञानम्, अप्रवृत्तिपूर्व व्याकुलमस्थिरं च, तद्विपरीत तज्जाग्रदशाभावि, कुतस्तेन व्यभिचारः ? यदि चार्थक्रियाज्ञानमप्यर्थमन्तरेण जागद्दशायां भवेत्, कतरदन्यज्ञानमर्थाव्यभिचारि स्यात्, यद्वलेनार्थव्यवस्थाक्रियते। परतः प्रामाण्यवादिनो बौद्धस्य प्रतिकूलमाचरामीत्यभिप्रायवता तस्याऽनुकूलमेवाऽऽचरितम् / स हि निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्रप्रत्ययवदित्यभ्युपगच्छत्येव। भवता तु जाग्रदृशास्वप्नदश-- योरभेदं प्रतिपादयता तत्साहाय्यमेवाऽऽचरितम्। न हि तद्व्यतिरिक्तः प्रत्ययोऽस्ति यस्यार्थसंसर्गः / न चावस्थाद्वयतुल्यताप्रतिपादनं त्वया क्रियमाणं प्रकृतोपयोगि / तथाहि-सांव्यवहारिकस्य प्रमाणस्य लक्षणमिदमभिधीयते- "प्रमाणमविसंवादिज्ञानम्" इति। तच्च सांव्यवहारिक जाग्रद्दशाज्ञानमेव / तत्रैव सर्वव्यवहाराणां लोके परमार्थतः सिद्धत्वात् / स्वप्नप्रत्ययानां तु निर्विषयतया, लोके प्रसिद्धानां प्रमाणतया, व्यवहाराभावात् किं स्वतः प्रामाण्यमुत परत इति चिन्ताया अनवसरत्वात् / तच्च जाग्रत्ज्ञाने द्वितीय-दर्शनात्कि प्रमाणं, किं वाऽप्रमाणम्; तथा किं स्वतः प्रमाणं, किं वा परत इति चिन्तायाः / पूर्वोक्तलक्षणे जाग्रत्प्रत्ययत्वे सतीति विशेषणाभिधाने स्वप्रप्रत्ययेन व्यभिचारचोदन प्रस्तावानभिज्ञता परस्य सूचयति। अपि च-अर्थक्रियाऽधिगतिलक्षणफलविशेष-हेतुनि प्रमाणमिति लक्षणे, तत्फलं नैवं प्रमाणलक्षणानुगतमिति कथं तस्यापि प्रामाण्यमवसीयत इति चौद्यानुपपत्तिः / यथाऽड्कुरहेतु/जमिति बीजलक्षणे नाड्कुरस्यापि बीजरूपताप्रसक्तिः ततो न विदुषामेवं प्रश्नः, कथमडकुरे बीजरूपता निश्चीयत इति / यथा चाडकुरदर्शनाद्वीजस्य बीजरूपता निश्चीयते, तत्राप्यर्थक्रियाफलदर्शनात्साधनज्ञानस्य प्रामाण्यनिश्चयः। न चाऽर्थक्रियाज्ञानस्याप्यन्यतः प्रामाण्यनिश्चयादनवस्था। अर्थक्रियाज्ञानस्य तद्रपतया स्वत एव सिद्धत्वात् / तदुक्तम्- "स्वरूपस्य स्वतो गतिः 'इति। न च स्वरूपज्ञानस्य भ्रान्तयः संभवन्ति। स्वरूपाभावे स्वसंवित्तेरप्यभेदेनाभावप्रसङ्गात् / व्यतिरिक्तविषयमेव हि प्रमाणमधिकृत्योक्तम् - "प्रमाणमविसंवादि-ज्ञानमर्थक्रियास्थितिः / अविसंवादनम्" इति। तथा- ''प्रामाण्यं व्यवहारणार्थक्रियालक्षणेन च'' इति च / तस्माद्यत्प्रमाणस्याऽऽत्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं फलं, यदर्थोऽयं प्रेक्षावतां प्रयासः; तेन स्वतः सिद्धेदन फलान्तरं प्रत्यनङ्गीकृतसाधनान्तराऽऽत्मतया "प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणविराहणा साधननिर्भासिज्ञानस्यानुत्क्रान्तरूपफलप्रापणशक्तिस्वरूपस्य प्रामाण्याधिगमेऽनवस्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते। यदुक्तम् - अनिश्चितग्रामाण्यादपि साधनज्ञानात्प्रवृत्तावर्थक्रियाज्ञानोत्पत्ताववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्यविचारणायां मनः प्रणिदधति, अन्यथा तत्समानरूपापरसाधनज्ञानप्रामाण्यनिश्चयपूर्विकाऽन्यदा प्रवृत्तिर्न स्यात्, तथाऽर्थक्रियाज्ञानस्यापि प्रामाण्यविचारणायां प्रेक्षावत्तयैव ते आद्रियन्ते, अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात्पूर्वस्य प्रामाण्यनिश्चय एव न स्यादित्यवाप्तफलत्वमनर्थकमिति / तदप्ययुक्तम् / अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्य, साधनस्य तुतजनकत्वेन प्रामाण्यमिति प्रतिपादितत्वात्। यदभ्यधायियदि संवादात्पूर्वस्य प्रामाण्यं निश्चीयते तदा ''श्रोत्रधीरप्रमाणं स्यादितराभिरसंगतेः" इति। तदप्ययुक्तम्। गीताऽऽदिविषयायाः श्रोत्रबुद्धेरर्थक्रियाऽनुभवरूपत्वेन स्वत एव प्रामाण्यसिद्धेः / तथा चित्रगत बुद्धेरपि स्वत एव प्रामाण्यसिद्धि / अर्थक्रियाऽनुभवरूपत्वात् / गन्धस्पर्शरसबुद्धीना त्वर्थक्रियाऽनुभवरूपत्वं सुप्रसिद्धमेव। यदप्युक्तम् किमेकविषय, भिन्नविषयं वा संवादज्ञानं पूर्वस्य प्रामाण्य निश्चायकमित्यादि। तत्रैकसंघातवर्त्तिनो विषयद्वयस्य रूपस्पर्शाऽऽदिलक्षणस्यैकसामग्य