________________ पमाण 461 - अभिधानराजेन्द्रः - भाग 5 पमाण कालं बाध्यत इति पक्षः / सोऽपि न युक्तः। उत्तरकाल तस्य स्वत एव नाशाभ्युपगमात्र तत्र बाधकव्यापारः सफलः, दैवरक्ता हि किंशुकाः।अथ प्रमेयं बाध्यते इत्यभ्युपगमः / सोऽप्ययुक्तः। यतः प्रमेयं बाध्यमानं किं प्रतिभासमानेन रूपेण बाध्यते, उताऽप्रतिभासामानरूपसहचारिणा स्पर्शाऽऽदिलक्षणेनेति विकल्पनाद्वयम्? तत्र यदि प्रतिभासमानेन रूपेण बाध्यते इति मतम्। तदयुक्तम्। प्रतिभासमानस्य रूपस्यासत्त्वासंभवात्। अन्यथा सम्यग्ज्ञानावभासिनोऽप्यसत्त्वप्रसङ्गः / अथाप्रतिभासमानेन रूपेण बाध्यते इति मतम् / तदप्ययुक्तम् / अप्रतिभासमानस्य रूपस्य प्रतिभासमानरूपादन्यत्वात् / न चान्यस्याभावेऽन्यस्याभावः / अतिप्रसङ्गात्। अथार्थक्रिया बाध्यते / ननु साऽपि किमुत्पन्ना बाध्यते उतानुत्पन्ना? यद्युत्पन्ना, नतर्हि बाध्यते तस्याः सत्त्वात्। अथानुत्पन्ना / साऽपि न बाध्या अनुत्पन्नत्वादेव। किं च-अर्थक्रियाऽपि पदार्थादन्या। ततश्च तस्या अभावे कथम न्यस्यासत्त्वम् ? अतिप्रसङ्गादेव / व्यवच्छेद्यासम्भवे च बाधावर्जितमिति विशेषणस्याप्ययुक्तत्वात् न बाधाविरहोऽपि विज्ञानस्य विशेषः। अथादुष्टकारणाऽऽरब्धत्वं विशेषः। सोऽपिन युक्तः। यतस्तस्याप्यज्ञातस्य विशेषत्वमसिद्धम्। ज्ञातत्वेवा कुतोऽदुष्टकारणाऽऽरब्धत्वं ज्ञायते / अन्यस्माददुष्टकारणाऽऽरब्धाद्विज्ञानादिति चेत्, अनवस्था। संवादादिति चेत् / ननु संवादप्रत्ययस्याप्यदुष्टकारणाऽऽरब्धत्वं विशेषोऽन्यस्माददुष्टकारणाऽऽरब्धात् संवादप्रत्ययाद्विज्ञायत इति सैवानवस्था भवतः संपद्यत इति। किंच- ज्ञानसव्यपेक्षमदुष्टकरणाऽऽरब्धत्वविशेषमपेक्ष्य स्वकार्ये ज्ञान प्रवर्त्तमानं कथं न तत्र परतः प्रवृत्तं भवति। तथा कारणदोषाभावः पर्युदासवृत्त्या भवदभिप्रायेण गुणः / ततश्चाऽदुष्टकारणाऽऽरब्धमिति वदता गुणवत्कारणाऽऽरब्धमित्युक्तं भवति। कारणगुणाश्च प्रमाणेन स्वकार्ये प्रवर्त्तमानेनापेक्ष्यमाणनिश्वायकप्रमाणापेक्षा अपेक्ष्यन्ते, तदपि प्रमाणं सवकारणगुणनिश्चायक स्वकारणगुणनिश्चयापेक्षं स्वकार्ये प्रवर्तत इत्यनवस्थादूषणं "जातेऽपि यदि विज्ञाने, तावन्नार्थोऽवधार्यते / ' इत्यादिना ग्रन्थेन परपक्षे आसञ्ज्यमानं स्ववधाय कृत्योत्थापनं भवतः प्रसक्तम्। अथादुष्टकारणजनितत्वनिश्चयमन्तरेणाऽपि ज्ञानं स्वार्थनिश्चये स्वकार्ये प्रवर्तिष्यते / तदसत्। संशयाऽऽदिविषयीकृतस्य प्रमाणस्य स्वार्थनिश्चायकत्वासंभावात् / अन्यथाऽप्रमाणस्यापि स्वार्थनि श्वायकत्वं स्यात्। तन्नादुष्टकारणाऽऽधत्वमपि विशेषो भवन्नीत्या संभवति। अथ संवादित्वं विशेषः / सोऽभ्युपगम्यत एव। किंतु संवादप्रत्ययोत्पत्तिनिश्चयमन्तरेण सन ज्ञातुं शक्यत इति प्रतिपादयिष्यमाणत्वात्, तदपेक्षं प्रमाणं स्वकार्ये प्रवर्त्तत इति तत्तत्र परतः स्यात्। अत एव निरपेक्षत्वस्यासिद्धत्वात्पूर्वोक्तन्यायेन "ये प्रतीक्षित-प्रत्ययान्तरोदयाः" इति प्रयोगेनासिद्धो हेतुः / एतेनैव यदुक्तम्- "तत्रापूर्वार्थविज्ञानं, निश्चितं बाधवर्जितम्। अदुष्टकारणाऽऽरब्धं, प्रमाणं लोकसम्मतम्॥१॥" इति। तदपि निरस्तम् यच्चोक्तम्-यदि संवादापेक्षं प्रमाणं स्वकार्ये प्रवर्त्तते तदा चक्रकप्रसङ्गः। तदसङ्गतम् / यथावस्थितपरिच्छेदस्वभावमेतत्प्रमाणमित्येवंनिश्चयलक्षणे स्वकार्ये यथा संवादापेक्षेप्रमाणे प्रवर्तते, न च चक्रकदोषः, तथा प्रतिपादयिष्यमाणत्वात्। यदपि "अथ गृहीताः कारणगुणाः' इत्याद्य भिधानम्। तदपि परसमयानभिज्ञतां भवतः ख्यापयति। कारणगुणग्रहणापेक्ष प्रमाण स्वकार्ये प्रवर्तत इति परस्यानभ्युपगमात् / यथोक्तम्"उपजायमानं प्रमाणमर्थपरिच्छेदशक्तियुक्तम्," इति। तत्राविसंवादित्वमेव अर्थतथात्वपरिच्छेदशक्तिः , तच्च परतो ज्ञायते, तदपेक्ष प्रमाणं स्वकार्ये प्रवर्तत इति तत्तत्र परतः स्थितम् / 'नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षम्।'' इत्युक्त यत्। तदप्यसत्। यतो निश्चयस्तत्र भवन किं निर्निमित्तः, उत सनिमित्त इति कल्पनाद्वयम् ? तत्र न तावन्निर्निमित्तः / प्रतिनियतदेशकालस्वभावाभावप्रसङ्गात्। सनिमित्तत्वेऽपि किं स्वनिमित्तः,उत स्वव्यतिरिक्तनिमित्तः? न तावत्स्वनिमित्तः / स्वसंविदितप्रमाणानभ्युपगमात् मीमांसकस्य / अथ स्वव्यतिरिक्तनिमित्तः। तत्रापि वक्तव्यम्- तन्निमित्तं किं प्रत्यक्षम्, उतानुमानम् ? अन्यस्य तन्निश्वायकस्यासम्भवात् / तत्र यदि प्रत्यक्षम् / तदयुक्तम् / प्रत्यक्षस्य तत्र व्यापारायोगात्।तद्धीन्द्रियसंयुक्त विषये तद्व्यापारादुदयमासादयत्प्रत्यक्षव्यपदेश लभते। न चेन्द्रियाणामपिरोक्षतालक्षणेन फलेन तत् -संवेदनरूपेण वा संप्रयोगः येन तयोर्यथार्थत्वस्वभाव प्रामाण्यमिन्द्रियव्यापारजनितेन प्रत्यक्षेण निश्चीयते। नाऽपि मनोव्यापारजेन प्रत्यक्षेण / एवंविधस्यानुभवस्याभावात्। नापि तयोरुत्पादकस्य ज्ञातृव्यापाराऽऽख्यस्य यथार्थत्वनिश्चायकत्वं प्रामाण्य बाह्येन्द्रियजन्येन मनोजन्येन वा प्रत्यक्षेण निश्चीयते। तेन सहेन्द्रियाणां संबन्धाभावात्।न चेन्द्रियासंबद्धे विषये ज्ञानमुपजायमानं प्रत्यक्षव्यपदेशमासादयतीत्युक्तम् / नाऽप्यनुमानतः प्रामाण्यनिश्चयः / पूर्वोक्तस्य फलद्वयस्य यथावस्थितार्थत्वलक्षणप्रामाण्यनिश्चये लिङ्गाभावात्। ज्ञातृव्यापारास्य तुपूर्वोक्तफलद्वयस्वभावस्वकार्यलिङ्गसम्भवेऽपि न यथार्थनिश्चायकत्वलक्षणप्रामाण्यनिश्चायकत्वम् / यतस्तल्लिङ्गं संवेदनाऽऽख्य, यथार्थत्वविशिष्ट तन्निश्वये व्याप्रियेत, निर्विशेषणं वा ? प्रथमपक्षे तस्य यथार्थत्वविशेषणग्रहणे प्रमाणं वक्तव्यम्, तब न संभवतीति प्रतिपादितम् / निर्विशेषणस्य फलस्य प्रामाण्यप्रतिपादकत्वे, मिथ्याज्ञाने फलमपि प्रामाण्यनिश्वायकं स्यादित्यतिप्रसङ्गः। तत्रैतत्स्यात् पूर्वोक्तं फलद्वयम-र्थसंवेदनार्थप्रकटतालक्षणम्, अनुभवान्निश्वीयते यथा तस्य स्वतः पूर्वोक्तस्वरूपनिश्चयः, तथा यथार्थत्वस्याऽपि / यथा हि तत्सवेद्यमानं नीलं संवेदनतया संवेद्यते, तथा यथार्थत्वविशिष्टस्यैवतस्य संवित्तिः। न हि नीलसंवेदनादन्या यथार्थत्वसवित्तिः। यद्येवम् शुक्तिकायां रजतज्ञानेऽपि अर्थसंवेदनस्वभावत्वाद्यथार्थत्वप्रसक्तिः / स्मृतिप्रमोषाऽऽदयस्तु निषेत्स्यन्ते इति नानुगनादपि तत्प्रामाण्यनि-श्चयः। किशप्रत्यक्षानुमानयोः प्रामाण्यनिश्चयनिमित्तत्वेऽभ्युपगम्य-माने, स्वतः प्रामाण्यनिश्चयव्याहतिप्रसङ्गः, तत्रान्यनिमित्तोऽपि प्रामाण्यनिश्चयः। यदुक्तम् - "नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षतद्ध्यपेक्षमाण किं कारणगुणानपेक्षते' इत्यादि / तदनभ्युपगमो पालम्भमात्रम् / न ह्यस्मदभ्युपगमः,यदुत स्वकारणगुणज्ञानात् प्रामाण्यं विज्ञायते कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् संवादप्रत्ययात्तुकारणगुणपरिज्ञानाभ्युपगमे, ततएव प्रामाण्यनिश्चयस्याऽपि सिद्धत्वात् व्यर्थ गुणनिश्चयपरिकल्पनम् / प्रामाण्यनिश्चयोत्तरकालं