SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ पमाण 460- अभिधानराजेन्द्रः - भाग 5 पमाण क्वचिदनिश्चयाद्विपर्ययदर्शनाच / तस्माजन्मापेक्षया गुणवचक्षुरादिकारणप्रभवं प्रामाण्यं परतः सिद्धमिति "अथ चक्षुरादिज्ञानकारण" इत्याद्ययुक्ततया स्थितम्। अपौरुषेयविधिवाक्यप्रभवायास्तुबुद्धेः स्वतः प्रामाण्योत्पत्त्यभ्युपगमोनयुक्तः। अपौरुषेयत्वस्य प्रतिपादयिष्यमाणतद्ग्राहक प्रमाणाविषयत्त्वेनासत्त्वात् / सत्त्वेऽपि भवन्नीत्या तस्यैव गुणत्वात्। तथाभूतप्रेरणाप्रभवाया बुद्धेः कथं न परतः प्रामाण्यम् ? किं च-अपौरुषेयत्वे प्रेरणावच-सो, गुणवत्पुरुषप्रणीतलौकिकवाक्येषु तत्त्वेन निश्चितप्रामाण्यं, गुणाऽऽश्रयपुरुषप्रणीतत्वव्यावृत्त्या तत्तत्र न स्यात् / तथा च"प्रेरणाजनिता बुद्धिः,प्रमाणं दोषवजितः। कारणैर्जन्यमानत्वा-लिङ्गाऽऽप्तोक्ताक्षबुद्धिवत् / / 1 / / '' इति / अयं श्लोक एवं पठितव्यः"प्रेरणाजनिता बुद्धि-रप्रमा गुणवर्जितैः / कारणैर्जन्यमानत्वा-दलिङ्गाऽऽप्सोक्तबुद्धिवत् / / 1 / / " अथ प्रेरणावाक्यस्यापौरुषेयत्वे पुरुषप्रणीतत्वाऽऽश्रया यथा गुणा व्यावृत्तास्तथा तदाश्रिता दोषा अपि। ततश्च तव्यावृत्ताव-प्रामाण्यस्याऽपि प्रेरणाया व्यावृत्तत्वात्स्वतः सिद्धमुत्पत्तौ प्रामाण्यम्। नन्वेव सति गुणदोषाऽऽयपुरुषप्रणीतट्यावृत्तौ प्रेरणायां प्रामाण्याप्रामाण्ययोर्ध्यावृत्तत्वात्प्रेरणाजनिता बुद्धिः प्रामाण्याप्रामाण्यरहिता प्राप्नोति / ततश्च"प्रेरणाजनिता बुद्धि-न प्रमाण न चाऽप्रमा। गुणदोषविनिमुक्त कारणेभ्यः समुद्भवात्।।१।।" इत्येवमपि प्राक्तनः श्लोकः पठितव्यः, अत एव यथा''दोषाः सन्ति न सन्तीति, पौरुषेयेषु चिन्त्यते। वेदे कर्तुरभावात्तु, दोषाऽऽशबैच नास्ति नः / / 1 // " इत्ययं श्लोक एवं पठितः तथैवमपि पठनीयः''गुणाःसन्ति न सन्तीति, पौरुषेयेषु चिन्त्यते। वेदे कर्तुरभावात्तु, गुणाऽऽशझैव नास्ति नः / / 1 / / न च यत्रापि गुणाः प्रामाण्यहेतुत्वेनाऽऽशक्यन्ते तत्राऽपि गुणेभ्यो दोषाभाव इत्यादि वक्तव्यम् / विहितोत्तरत्वात् / अपि च-अपौरुषेयत्वेऽपि प्रेरणाया न स्वतः स्वविषयप्रतीतिजनकव्यापारः। सदा सन्निहितत्वेनततोऽनवरतप्रतीतिप्रसङ्गात्। किंतुपुरुषाभिव्यक्तार्थप्रतिपादक समयाऽऽविर्भूतविशिष्टसंस्कारसव्यपेक्षायाः। ते च पुरुषाः सर्वेरागाऽऽदिदोषाभिभूता एव भवताऽभ्युपगताः / तत्कृतश्च संस्कारो न यथार्थः / अन्यथा पौरुषेयमपि वचो यथार्थ स्यात्। अतोऽपौरुषेयत्वाभ्युपगमेऽपि समयकर्तृपुरुषदोषकृताऽप्रामाण्यसद्भावात्प्रेरणायाम-पौरुषेयत्वाभ्युपगमो गजरनानमनुकरोति / तदुक्तम्-"असंस्कार्यतया पुंभिः, सर्वेषां स्यान्निरर्थता। संस्कारो पगमे व्यक्तं, गजस्नानमिदं भवेत् // 1 // " यदप्यभाषि-"तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षा'' इत्यादि। तदप्यचारु। अविनाभाविनिश्चयस्यैव गुणत्वात्, तदनिश्चयस्य, विपरीतनिश्चयस्य च दोषत्वात्। तदेवमुत्पत्तौ प्रामाण्यं गुणापेक्षत्वात्परत इति स्थितम्। यदप्युक्तम्- "नापि स्वकार्य प्रवर्त्तमानं प्रमाण निमित्तान्तरापेक्षम्।" इति / तदप्यसङ्गतम्। यतो यदि कार्योत्पादनसामग्रीध्यतिरिक्तनिमित्तानपेक्षं प्रमाणमित्युच्यते. तदा सिद्धसाधनम् / अथ सामर येकदेशलक्षणं प्रमाणं निमित्तान्तरानपेक्षम् / तदप्यचारु। एकस्य जनकत्वासंभवात्। "न ह्येकं किञ्चिजनक, सामग्री वैजनिका'' इति न्यायस्यान्यत्र व्यवस्थापितत्वात्। किं च-नार्थपरिच्छेदमात्रं प्रमाणकार्यम्। अप्रमाणेऽपि तस्य भावात्। किं तर्हि ? अर्थतथात्वपरिच्छेदः / स च ज्ञानस्वरूपकार्यो, भ्रान्तज्ञानेऽपि स्वरूपस्य भावात्, तत्रापि सम्यगर्थपरिच्छेदः स्यात् / अथ स्वरूपविशेषकार्यो यथाऽवस्थितार्थपरिच्छेद इति नातिप्रसङ्गः। तर्हि स स्वरूपविशेषो वक्तव्यःकिमपूर्वार्थविज्ञानत्वम्, उत निश्चितत्वम्, आहोस्विद् बाधारहितत्यम्, उतस्विददुष्ट कारणाऽऽरब्धत्वम्, किं वा संवादित्वमिति ? तत्र यद्यपूर्वार्थविज्ञानत्वं विशेषः। स न युक्तः / तै-मिरिकज्ञानेऽपि तस्य भावात् / अथ निश्चितत्वम् / सोऽप्ययुक्तः। परोक्षज्ञानवादिनो भवतोऽभिप्रायेणासम्भवात् / अथ बाधारहितत्वं विशेषः / सोऽपि न युक्तः / यतो बाधावि विरहस्तत्कालभावी विशेषः, उत्तरकालभावी वा? न तावत्तत्कालभावी / मिथ्याज्ञानेऽपि तत्कालभाविनो बाधाविरहस्य भावात्। अथोत्तर-कालभावी। तत्राऽपि वक्तव्यम् - किं ज्ञातःस विशेषः, उताज्ञा-तः? तत्र नाज्ञातः। अज्ञातस्य तत्त्वेनाप्यसिद्धत्वात्। अथ ज्ञातोऽसौ विशेषः / तत्रापि वक्तव्यम् -उत्तरकालभावी बाधाविरहः किं पूर्वज्ञाने न ज्ञायते, आहोस्विदुत्तरकालभाविना ? तत्र न तावत्पूर्वज्ञानेनोत्तरकालभावी बाधाविरहो ज्ञातुं शक्यः। तद्धि स्वसमानकालं सन्निहितं नीलाऽऽदिकमवभासयतु, न पुनरुत्तरकालमप्यत्र बाधकप्रत्ययो न प्रवर्तिष्यत इत्यवगमयितुं शक्नोति पूर्वमनुत्पन्नबाधकानामप्युत्तरकालबाध्यत्वदर्शनात्। अथोत्तरज्ञानेन ज्ञायते। ज्ञायताम्, किं तूत्तरकालभावी बाधविरहः कथं पूर्वज्ञानस्य विनष्टस्य विशेषः / भिन्नकालस्य विनष्ट प्रति विशेषत्वायोगात् / किं च-ज्ञायमानत्वेऽपि केशोण्डुकाऽऽदेरसत्यत्वदर्शनाद्, बाधाभावस्य ज्ञायमानत्वेऽपि कथं सत्यत्वम् ? तज्ज्ञानस्य सत्यवादिति चेत्तस्य कुतः सत्यत्वम् ? तत्प्रमेयसत्यत्वाद, इतरेतराऽऽश्रयदोषप्रसङ्गात् / अपरबाधाभावज्ञानादिति चेत, तत्राप्यपरबाधाभावज्ञानादित्यनवस्था। अथ संवादादुत्तरकालभावी बाधाविरहः सत्यत्वेन ज्ञायते, तर्हि संवादस्याप्यपरसंवादज्ञानात्सत्यत्वसिद्धिः, तस्यापरसंवादज्ञानादित्यनवस्था / किं च-यदि रांवादप्रत्ययादुत्तरकालभावी बाधाभावो ज्ञायमानो विशेषः पूर्वज्ञानस्याभ्युपगम्यते, तर्हि ज्ञायमानस्वविशेषापेक्षं प्रमाण स्वकार्ये यथाऽवस्थितार्थपरिच्छे दलक्षणे प्रवर्तत इति कथमनपेक्षत्वात्तत्र स्वतः प्रामाण्यम् ? अपि च बाधाविरहस्य भवदभ्युपगमेन पर्युदासवृत्त्या संवादरूपत्वम् / बाधावर्जितं च ज्ञानं स्वकार्ये अन्यानपेक्षं प्रवर्तत इति युवता संवादापेक्षं तत्तत्र प्रवर्त्तत इत्युक्तं भवति / किं च-किं विज्ञानस्य स्वरूप बाध्यते, आहोम्वित्प्रमेयम्, उताऽर्थक्रियते विकल्पत्रयम् ? तत्र यदि विज्ञानस्य स्वरूपं बाध्यत इति पक्षः स न युक्तः, विकल्पद्वयानतिवृत्तेः / तथाहि-विज्ञानं बाध्यमानं किं स्वसत्ताकाले बाध्यते, उत उत्तरकालम् ? तत्र यदि स्वसत्ताकाले बाध्यत इति पक्षः / स न युक्तः। तदा विज्ञानस्य परिस्फुटरूपेण प्रतिभासनात्। न च विज्ञानस्य परिस्फुटप्रतिभासिनोऽभावस्तदैवेति वक्तुं शक्यम् / सत्याभिमतविज्ञानस्याप्यभावप्रसङ्गात्। अथोत्तर
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy