________________ पमाण 456 - अभिधानराजेन्द्रः - भाग 5 पमाण सङ्गतम् / यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाण्याप्रामाण्ये व्यवस्थाप्येते, तदाऽप्रामाण्यवत्प्रामाण्यमपि परतो व्यवस्थापनीयम्। तथाहि-लोको यथा मिथ्याज्ञानं दोषवचक्षुरादिप्रभवमभिदधाति, तथा सम्यगज्ञानमपि गुणवचक्षुरादिसमुत्थमिति तदभिप्रायादप्रामाण्यवत्प्रामाण्यमप्युत्पत्तौ परतः कथं न स्यात् / तथाहि-तिमिराऽऽदिदोषावष्टब्धचक्षुष्को विशिष्टौषधोपयोगावाप्ताक्षिनर्मल्यगुणः केनचित्सुहृदा कीदृक्षे भवतो लोचने वर्तेते इति पृष्टः सन् प्राऽऽह- प्राक् सदोषे अभूतामिदानीं समासादित-गुणे संजाते इति। न च नैर्मल्यं दोषाभावमेव / लोको व्यपदिशतीति शक्यमभिधातुम्, तिमिराऽऽदेरपि गुणाभावरूपत्वव्यपदेशप्राप्तेः। तथा चाऽप्रामाण्यमपि प्रामाण्यवत्स्वतः स्यात्। यदप्यभ्यधायि, "नच तृतीयं कार्यमस्ति'' इति। तदप्यसम्यक्। तृतीयकार्याभावेऽपि पूर्वोक्तन्यायेन प्रामाण्यस्योत्पत्तौ परतः सिद्धत्वात् / यच्च "अपि चाऽर्थतथाभावप्रकाशनलक्षणं प्रामाण्यम्" इत्यादि, "विश्वमेक स्यादिति वचः परिपलवेत" इति पर्यवसानमभिहितम्। तदपि अविदितपराभिप्रायेण / यतो नपरस्योभयमभ्युपगमो विज्ञानस्य चक्षुरादिसामग्रीत उत्पत्तावप्यर्थतथाभावप्रकाशनलक्षणस्य प्रामाण्यस्य नैर्मल्याऽऽदिसामग्यन्तरात्पश्चादुत्त्पत्तिः, किन्तु गुणवचक्षुरादिसामग्रीत उपजायमान विज्ञानमागृहीतप्रामाण्यस्वरूपमेवोपजायते इति ज्ञानवत्तदव्यतिरिक्तस्वभाव प्रामाण्यमपि परत इति गुणवच्चक्षुरादिसामग्यपेक्षत्वादुत्पत्ती प्रामाण्यस्यान-पेक्षत्वलक्षणस्वभावहेतुरसिद्धोऽनपेक्षत्वस्वरूप इति "तस्माद्यत एवं गुणविकलसामग्रीलक्षणाद्" इत्याद्ययुक्तभिहितम्। 'अर्थत-थात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यं, शक्तयश्च सर्वभावानां स्वत एव भवन्ति' इत्यादि यदभिधानम् / तदप्यसमीचीनम् / एवमभिधाने अयथावस्थितार्थपरिच्छेद-शक्तेरप्यप्रामाण्यरूपाया असत्याः केनचित्कर्तुमशक्तेस्तदपि स्वतः स्यात्। यदपि 'एतच्च नैव सत्कार्यप्रदर्शनसमाश्रयणादभिधीयते" इत्यादि "तदपेक्षा न विद्यते' इति पर्यन्तमभिहितम्। तदपि प्रलापमात्रम्। यतोऽनेन न्यायेनाप्रामाण्यमपि प्रामाण्यवत् स्वत एव स्यात्। तदपि हि विपरीतार्थपरिच्छेदशक्तिलक्षणं न तिमिराऽऽदिदोषसङ्गतिमत्सु लोचनाऽऽदिषु अस्तीति / अपि चज्ञानरूपतामात्मन्यसतीमाविर्भावयन्तीन्द्रियाऽऽदयो न पुनर्यथावस्थितार्थपरिच्छेदशक्तिमिति न किञ्चिन्निमित्तमुत्पश्यामः / कुतश्चैतदैश्वर्य शक्तिभिः प्राप्तम्, यत इमाः स्वत एवोदयं प्रत्यासादितमाहात्म्या न पुनस्तदाधाराभिमता भावविशेषा इति। न च तास्तेभ्यः प्राप्तव्यतिरेकाः / यतः स्वाऽऽधाराभिमतभावकारणेभ्यो भावस्योत्पत्तावपि, न तेभ्य एवोत्यत्तिमनुभवेयुः, व्यतिरेके, स्वाश्रयैस्ततोऽभवन्त्योन संबन्धमाप्नुयुः / भिन्नानां कार्यकारणभावव्यतिरेकेणापरस्य संबन्धस्याभावादाश्रयाऽऽश्रयिसंबन्धस्या पि जन्यजनक भावभावेऽतिप्रसङ्ग तो निषेत्स्यमानत्वात् / धर्मत्वाच्छक्तेराश्रय इत्यप्ययुक्तम् / असति पारतन्त्र्ये, परमार्थतस्तदयोगात्। पारतन्त्र्यमपि न सतः सर्वनिराशम्। सत्त्वात्। असतोऽपि व्योमकुसुमस्येव न, तत्त्वादेव / अनिमित्ताश्वेमा न देशकालद्रव्यनियम प्रतिपद्येरन् / तद्धि किञ्चित् क्वचिदु पलीयेत, न वा? यद्यत्र कश्चिदायत्तमनायत्तं वा। सर्वत्र प्रतिबन्धविवेकिन्यश्चेच्छ क्तयो नेमाः कस्यचित्कदाचिद्विरमेयुरिति प्रतिनियतशक्तियोगिता भावाना प्रभाणप्रमिता न स्यात् व्यतिरेकाव्यतिरेकपक्षस्तु शक्तीनां विरोधानवस्थोभयपक्षोक्तदोषाऽऽदिपरिहाराद् विनाऽनुद्धोष्यः / अनुभयपक्षस्तु न युक्तः / परस्परपरिहारस्थितरूपाणामेकनिषेधस्यापरविधान-नान्तरीयकत्वात्। न च विहितस्य पुनस्तस्यैव निषेधः / विधिप्रतिषेधयोरेकत्र विरोधात् / ये त्वाः- उत्तरकालभाविनः संवादप्रत्ययान्न जन्म प्रतिपद्यते शक्तिलक्षणं प्रामाण्यमिति स्वत उच्यते, न पुनर्विज्ञानकारणान्नोपजायत इति। तेऽपि न सम्यक् प्रचक्षते। सिद्धसाध्यतादोषात्। अप्रामाण्यमपि चैव स्वतः स्यात्, न हि तदप्युत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यत इति कस्यचिदभ्युपगमः। यदा च गुणवत्कारणजन्यता प्रामाण्यस्य शक्तिरूपस्य प्राक्तनन्यायादवस्थिता, तदा कथमौत्सर्गिकत्वम् / तस्य दुष्टकारणप्रभवेषु मिथ्याप्रत्ययेष्वभावात् / परस्परव्यवच्छेदरूपाणामेकत्रासम्भवात् / तस्माद गुणेभ्यो दोषाणामभावस्तदभावादप्रामाण्यद्वयासत्त्वेनोत्सर्गोऽनपोहित एवाऽऽस्त इति वचः परिफल्गुप्रायम् / इतश्चैतद्वचोऽयुक्तम्। विपर्ययणाप्यस्योद्घोषयितुं शक्यत्वात्। तथाहि-दोषेभ्यो गुणानामभावरतदभावात्प्रामाण्यद्वयासत्त्वेनाप्रामाण्यमौत्सर्गिकमास्त इति ब्रुवतो न वक्त्र वक्रीभवति / किं च-गुणेभ्यो दोषाणामभाव इति न तुच्छरूपो दोषाभावो गुणव्यापारनिष्पाद्यः / तत्र व्यतिरिवताव्यतिरिक्तविकल्पद्वारेण कारकच्यापारस्यासंभवात्, भवद्भिरनभ्युपगमाच / तुच्छाभावस्थाभ्युपगमे वा - भावान्तर-विनिर्मुक्तो 'भावोऽत्रानुलम्भवत्। अभावः सम्मतस्तस्य, हेतोः किं न समुद्भवः ||1||" इति वचो न शोभेत / तस्मात्पर्युदासवृत्त्या प्रतियोगिगुणाऽऽत्मक एव दोषाभावोऽभिप्रेतस्ततश्च गुणेभ्यो दोषाभाव इति ब्रुवता गुणेभ्यो गुणा इत्युक्तं भवति। न च गुणेभ्यो गुणाः कारणानामात्मभूता उपजायन्त इति / स्वात्मनि क्रियाविरोधात स्वकारणेभ्यो गुणोत्पत्तिसद्भावाच्च / तदभावाद प्रामाण्यद्वयासत्त्वमपि प्रामाण्यमभिधीयते। ततश्च गुणेभ्य प्रामाण्यमुत्पद्यत इति अभ्युपगमात् परतः प्रामाण्यमुत्पद्यत इति प्राप्तम्। ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्याऽऽत्मलाभे चेत् कारणापेक्षा, काऽन्या स्वकार्ये प्रवृत्ति स्वयमेव स्यात्। तेनायुक्तमुक्तम्- "लब्धाऽऽत्मनां स्वकार्येषु, प्रवृत्तिः स्वयमेव तु / " इति / घटस्य जलोद्वहनव्यापारात्पूर्व रूपान्तरेण स्वहे तोरुत्पत्ते युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरित्यतो विसदृशमुदाहरणम्। उत्पत्त्यनन्तरमेव च विज्ञानस्य नाशोप गमात्कुतो लब्धाऽऽत्मनः प्रवृत्तिः स्वयमेव / तदुक्तम् - "न हि तत्क्षणमप्यास्ते, जायते वाऽप्रमाऽऽत्मकम्। येनार्थग्रहणे पश्चाद्, व्याप्रियेतेन्द्रियाऽऽदिवत्।।१।। तेन जन्मैव विषये, बुद्धयापार उच्यते। तदेव च प्रमारूपं, तद्वती करण च धीः / / 2 / / " इति। तस्माजन्मव्यतिरेकेण बुद्धेापाराभावात्तत्र च ज्ञानानां सगुणेषु कारणेष्वपेक्षावचनात्कुतः स्वातन्त्र्येण प्रवृत्तिरिति किं तज्ज्ञानस्य कार्य? यत्र लब्धाऽऽत्मनः प्रवृत्तिः स्वयमेवेत्युच्यते / स्वार्थपरिच्छेदश्चेन्न / ज्ञानपर्यायत्वात् तस्याऽऽत्मानमेव करोतीत्युक्तं स्यात्। तच्चायुक्तम् / प्रमाणमेतदित्यनन्तरं निश्चयश्चेन्न। भ्रान्तिकारणसद्भावेन