________________ पमाण 458 - अभिधानराजेन्द्रः - भाग 5 पमाण ण्यव्यवस्थापकत्वप्रसङ्गात् / तथा किं तत्समानकालमर्थक्रिया-ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकमाहोस्विद्भिन्नकालम् ? यदि समानकालं, कि साधननिर्भासिज्ञानग्राहि, उत तदग्राही ति पुनरपि विकल्पद्वयम् ? यदि तद्ग्राहि / तदसत्। ज्ञानान्तरस्य चक्षुरादिज्ञानेष्वप्रतिभासनात् प्रतिनियतरूपाऽऽदिविषयत्वेन चक्षुरादिज्ञानानामभ्युपगमात्। अथ तद्ग्राहि, न तर्हि तज्ज्ञानप्रामाण्यनिश्वायकम् / तदग्रहे तद्गतधर्माणामप्यग्रहात्। अथ भिन्नकालम्। तदप्ययुक्तम्। पूर्वज्ञानस्य क्षणिकत्वेन नाशादुत्तरकालभाविविज्ञानेऽप्रतिभासनात् / भासने चोत्तरविज्ञानस्यासद्विषयत्वेनाप्रामाण्यप्रसक्तिस्तद्ग्राहकत्वेन न तत्प्रामाण्यनिश्चायकत्वम्।। तदग्राहकं तु भिन्नकालं सुतरां न तन्निश्चायकमिति न भिन्नकालमप्येकसन्तानजं भिन्नजातीय प्रामाण्यनिश्चायकमितिनसंवादापेक्षः पूर्वप्रमाणप्रामाण्यनिश्चयः / तेन ज्ञप्तावपि 'ये यद्भावं प्रत्यनपेक्षाः,' इति प्रयोग हेतो सिद्धिः / व्याप्तिस्तु साध्यविपक्षाऽतन्नियतत्वव्यापकात्सापेक्षत्वान्निवर्तमानमनपेक्षत्वं तन्नियतत्वेन व्याप्यते इति प्रमाणसिद्धवा यतश्च नपूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः संभवति, ततो "ये संदेहविपर्ययविषयीकृताऽऽत्मतत्त्वाः" इति प्रयोगे व्याप्त्यसिद्धिः, हेतोश्वासिद्धता। सर्वप्राणभृतां प्रामाण्यसंदेहविपर्ययाभावात्। तथा हि-ज्ञाने समुत्पन्ने सर्वेषामयमर्थ इति निश्चयो भवति / न च प्रामाण्यस्य संदेहे विपर्यये वा सत्येष युक्तः। तदुक्तम्- ''प्रामाण्यग्रहणात्पूर्व स्वरूपेणैव संस्थितम्। निरपेक्ष स्वकार्ये च." इति स्वार्थनिश्चयो हि प्रमाणकार्य, न च तत्र प्रमाणान्तरग्रहणं चापेक्षत इति गम्यते। न चैतत्संशयविपर्ययविषयत्वे सम्भवतीति अथ प्रमाणाप्रमाणयोरुत्पत्तौ तुल्यं रूपमिति न संवादविसंवादा वन्तरेण तयोः प्रामाण्याप्रामाण्ययोनिश्चयः / तदसत्। अप्रमाणे तदत्तरकालमवश्यंभाविनौ बाधककारणदोषप्रत्ययौ.तेन तत्राप्रामाण्यनिश्चयः / प्रमाणे तु तयोरभावः कुतोऽप्रामाण्याऽऽशङ्का / अथ तत्तुल्यरूपे तयोर्दर्शनात्तत्राऽपि तदाशङ्का / साऽपि न युक्ता / त्रिचतुरज्ञानापेक्षामात्रतस्तत्र तस्या निवृत्तेः। न च तदपेक्षातः स्वतः प्रामाण्यव्याहतिरनवस्था वेत्याशङ्कनीयम्। संवादकज्ञानस्याप्रामाण्याऽऽशङ्काव्यवच्छेदे एव व्यापारादपरज्ञानानपेक्षणाच / तथा हि-अनुत्पन्नबाधके ज्ञाने परत्र बाध्यभानप्रत्ययसाधादप्रामाण्याऽऽशङ्का, तस्यां सत्यां तृतीयज्ञानापेक्षा, तात्पन्नं यदि प्रथमज्ञानसंवादि, तदा तेन न प्रथमज्ञानप्रामाण्यनिश्चयः क्रियते, किं तु द्वितीयज्ञानेन यत्तस्याप्रामाण्य - माशङ्कितं तदेव तेनापाक्रियते; प्रथमस्य तु स्वत एव प्रामाण्यभिति एवं तृतीयेऽपि कथञ्चित् संशयोत्पत्तौ चतुर्थज्ञानापेक्षायामयमेव न्यायः / तदुक्तम्- "एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः। प्रार्थ्यते तावतैवैक, स्वतः प्रामाण्यमश्नुते / / 1 / / " इति। यत्र च दुष्ट कारण, यत्र च बाधकप्रत्ययः स एव मिथ्याप्रत्यय इत्यस्याप्ययमेव विषयः / चतुर्थज्ञानापेक्षा त्वर्थज्ञानापेक्षाऽभ्युपगमवादत उक्ता, न तु तदपेक्षाऽपि भावतो विद्यते। अथ तृतीयज्ञानं द्वितीयज्ञानसंवादि, तदा प्रथमस्याप्रामाण्यनिश्चयः, स तु तत्कृतोऽभ्युपगम्यत एव किं तु द्वितीयस्य यदप्रामाण्यमाशङ्कितं | तत्तेनापाक्रियते, न पुनस्तस्य द्वितीयप्रामाण्यनिश्चायकत्वे व्यापारः / यत्र त्वभ्यस्ते विषयेऽर्थत्तथात्वशङ्का नोपजायते तत्र बलादुत्पाद्यमाना शङ्का तत्कर्तुरनर्थकारिणीत्या-वेदितं वार्तिककृता-आशङ्केत हि यो मोहादजातमपि बाधकम् / स सर्वव्यवहारेषु, संशयाऽऽत्मा क्षयं व्रजेत् ||1 // " इति। न चैतदभिशापमात्रम्। यतोऽशङ्कनीयेऽपि विषयेऽभिशकिनां सर्वत्रार्थानर्थ प्राप्तिपरिहारार्थिनामिष्टानिष्टप्राप्तिपरिहारसमर्थप्रवृत्त्यादिव्यवहारासंभवान्न्यायप्राप्त एवं क्षयः। स्वोत्प्रेक्षितनिमित्तनिबन्धनाया आशङ्कायाः सर्वत्र भावात् / प्रेरणाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहितात्प्रेरणालक्षणाच्छब्दादुपजायमाना लिङ्गाऽऽसोक्ताक्षबुद्धिवत् प्रमाण सर्वत्र स्वतः / तदुक्तम् - 'चोदनाजनिता बुद्धिः, प्रमाणं दोषवर्जितैः / कारणैर्जन्यमानत्वाल्लिङ्गाऽऽप्तोक्ताक्षबुद्धिवत् ॥१॥इति / तस्मात्स्वतः प्रामाण्यम्, अप्रामाण्य परत इति व्यवस्थितम्। अतः सर्वप्रमाणानां स्वतः सिद्धत्वाद्युक्तमुक्तं स्वतः सिद्धं शासनं नातः प्रकरणात्प्रामाण्येन प्रतिष्ठाप्यम्। इदं त्वयुक्तम्- जिनानामिति (सिद्धं सिद्धत्थाणं, ठाणमणोवमसुहं उवगयाणं / कुसमयविसासणं सासणं जिणाणं भवजिणाणं / / 1 / / इतिगाथाया व्याख्येयम्) / जिनानामसत्त्वेन शासनस्य तत्कृतत्वानुपपत्तेः / उपपतावपि परतः प्रामाण्यस्य निषिद्धत्वादिति। अत्र प्रतिविधीयते यत्तावदुक्तम्, अर्थतथाभावप्रकाशको ज्ञातृव्यापारः प्रमाणम्। तदयुक्तम। पराभ्युपगतज्ञातृव्यापारस्य प्रमाणत्वेन निषेत्स्यमानत्वात्। यदप्यन्यदभ्यधायि, तस्य यथार्थप्रकाशकत्वं प्रामाण्यं, तमोत्पत्ती स्वतः / विज्ञानकारणचक्षुरादिव्यतिरिक्तगुणानपेक्षत्वात्। तत्र प्रामाण्यस्योत्पत्तिरविद्यमानस्याऽऽत्मलाभः। साचेन्निर्हेतुका, देशकालस्वभावनियमो न स्यादित्यन्यत्र प्रतिपादितम्। किं च -गुणवचक्षुरादिसद्भावे सति यथावस्थितार्थप्रतिपत्तिर्दृष्टा, तदभावे न दृष्टति तद्धेतुका व्यवस्थाप्यते अन्वयव्यतिरेकनिबन्धनत्वादन्यत्राऽपि हेतुफलभावस्य। अन्यथा दोषवचक्षुराद्यन्वयव्यतिरेकानुविधायिनी मिथ्याप्रतिपत्तिरपि स्वतः स्यात् / तथाऽभ्युपगमे "वस्तुत्वाद् द्विविधस्यात्र, सम्भवो दुष्टकरणाद्।" इति वचो व्याहतमनुषज्येत / यदपि, "अत्यक्षाऽऽश्रितगुणसद्भावे प्रत्यक्षाप्रवृत्तेः तत्पूर्वकानुमानस्यापि तद्ग्राहकत्वेनाव्यापारात् चक्षुरादिगतगुणानामसत्त्वात्तदन्वयव्यतिरेकानुविधायित्वं प्रामाण्यस्योत्पत्तावयुक्तम्," इत्युक्तम्। तदप्यसंगतम्। अप्रामाण्योत्पत्तावप्यस्य दोषस्य समानत्वात् / तथा हि-अतीन्द्रियलोचनाऽऽद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उतानुमानेन ? न तावत्प्रत्यक्षेण / इन्द्रियाऽऽदीनामतीन्द्रियत्वेन तद्गतदोषाणामप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः / नाप्यनुमानेन / अनुमानस्य गृहीतप्रतिबद्धलिङ्ग प्रभवत्वाभ्युपगमात्। लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चाऽत्र विषयेऽसम्भवात्, प्रमाणान्तरस्य चाऽत्रान्तर्भूतस्यासत्त्वेन प्रतिपादयिष्यमाणत्वाद्, इत्यादि सर्वमप्रामाण्योत्पत्तिकारणभूतेषु लोचनाऽऽद्याश्रितेषु दोषेष्वपि समान मिति तेषामप्यसत्त्वात्तदन्वयव्यतिरेकानुविधानस्यासिद्धत्वादप्रामाण्यमप्युत्पत्तौ स्वतः स्यात् / यदपि- "अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः" इत्यादि / 'यतो न लोकः प्रायशो विपर्ययज्ञानादुत्पादक कारणमात्रमनुमिनोति, किंतु सम्यगज्ञानाद, इत्यन्तमभ्यधायि। तदप्य