________________ पमाण 457 - अभिधानराजेन्द्रः - भाग 5 पमाण व्यवस्थाप्यते / सोऽपि न युक्तः। इतरेतराऽऽश्रयदोषप्रसङ्गात्। तथाहिसिद्धेऽर्थतथाभावेतद्विज्ञानस्यार्थतथाभावपरिच्छेदत्वसिद्धिः, तसिद्धेश्वार्थतथाभावसिद्धिरिति परिस्फुटमितरेतराऽऽश्रयत्वम्। तन्न कारणगुणापेक्षा प्रामाण्यज्ञप्तिः। अथ संवादापेक्षः प्रमाण्यविनिश्चयः / सोऽपि न युक्तः। यतः संवादकं ज्ञानं किं समानजातीयमभ्युपगम्यते, आहोस्विदिन्नजातीयमिति पुनरपि विकल्पद्वयम् ? तत्र यदि समानजातीय संवादकमभ्युपगम्यते, तदाऽत्रापि वक्तव्यम् / किमेकसन्तानप्रभवं, भिन्नसन्तानप्रभवं वा? यदि भिन्नसन्तानप्रभवं समानजातीय ज्ञानान्तर संवादकमित्यभ्युपगमः / अयमप्यनुपपन्नः, अतिप्रसङ्गात्। अतिप्रसङ्गश्च देवदत्तघटविज्ञान प्रति यज्ञदत्तघटान्तरविज्ञानस्याऽपि संवादकत्वप्रसक्तेः। अथ समानसन्तानप्रभवं समानजातीयं ज्ञानान्तरं संवादकमभ्युपगम्यते, तदाऽत्रापि वक्तव्यम्-किं तत्पूर्वप्रमाणाभिमतविज्ञानगृहीतार्थविषयम, उत भिन्नविषयमिति? तत्र यद्येकार्थविषयमिति पक्षः / सोऽनुपपन्नः / एकार्थविषयत्वे संवाद्यसंवादकयोरविशेषात्। तथा हिएकविषयत्वे सति यथा प्राक्तनमुत्तरकालभाविनो विज्ञानस्यैकसन्तानप्रभवस्य समानजातीयस्य न संवादकम्, तथोत्तरकालभाव्यपि न स्यात्। किं च तदुत्तरकालभावि समानजातीयमेकविषयं कुतः प्रमाणमेव सिद्ध, येन प्रथमस्य प्रामाण्यं निश्चाययति / तदुत्तरकालभाविनोऽन्यस्मात्तथाविधादेवेति चेत्, तर्हि तस्याप्यन्यस्मात्तथाविधादेवेत्यनवस्था। अथोत्तरकालभाविनस्तथाविधस्य प्रथमप्रमाणात्प्रामाण्यनिश्चयः, तर्हि प्रथमस्योत्तरकालभाविनः प्रमाणात्तन्निश्चयः, उत्तरकालभाविनोऽपि प्रथमप्रमाणादिति तदेवेतरेतराऽऽश्रयत्वम्। अथ प्रथमोत्तरयोरेकविषयत्वसमानजातीयत्वैकसन्तानत्वाविशेषेऽप्यस्त्यन्यो विशेषः,यतो विशेषादुत्तरं प्रथमस्य प्रामाण्यं निश्चाययति, न पुनः प्रथममुत्तरस्य / स च विशेष उत्तरस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वम् / ननु कारणशुद्धिपरिज्ञानमर्थक्रियापरिज्ञानमन्तरेण न सम्भवति, तत्र च चक्रकदोषः प्राक् प्रतिपादित इति नार्थक्रियाज्ञानसंभवः / संभवे वा तत एव प्रामाण्यनिश्चयस्य संजातत्वात् व्यर्थमुत्तरकालभाविनः कारणशुद्धिज्ञानविशेषसमन्वितस्य पूर्वप्रामाण्यावगमहेतुत्वकल्पनम्। तन्न समानजातीयमेकसन्तानप्रभवमेकार्थमुत्तरज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम्। अथ भिन्नार्थ तत् ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम्। तदप्ययुक्तम् / एवं सति शुक्तिकायां रजतज्ञानस्य तथाभूतं शुक्तिकाज्ञानं प्रामाण्यनिश्चायकं स्यात् / तन्न समानजातीयमुत्तरज्ञानं पूर्वज्ञानस्य प्रामाण्यनिश्चायकम्। अथ भिन्नजातीयं प्रामाण्यनिश्चायकमिति पक्षः / तत्राऽपि वक्तव्यम् / किमर्थक्रियाज्ञानमुतान्यत् ? तत्रान्यदिति न वक्तव्यम्। घटज्ञानस्यापि पटज्ञानप्रामाण्यनिश्चायकत्वप्रसङ्गात्। अथार्थक्रियाज्ञानं संवादकमित्यभ्युपगमः। अयमपि न युक्तः। अर्थक्रियाज्ञानस्यैव प्रामाण्यनिश्चयाभावे प्रवृत्त्याद्यभावतश्चक्रकदोषेणासंभवात् / अथ प्रामाण्यनिश्चयाभावेऽपि संशयादपि प्रवृत्तिसंभवान्नार्थक्रियाज्ञानस्यासम्भवः तर्हि प्रामाण्यनिश्चयो व्यर्थः / तथाहि-प्रामाण्यनिश्चयमन्तरेण प्रवृत्तो विसंवादभाक् मा भूवमित्यर्थक्रियार्थी प्रामाण्यनिश्चयमन्वेषते, सा च प्रवृत्तिस्तनिश्चयमन्तरेणापि संजातेति व्यर्थः प्रामाण्यनिश्चयप्रयासः / किं च अर्थक्रियाज्ञानस्यापि प्रामाण्यनिश्वायकत्वेनाऽभ्युपगम्यमानस्य कुतः प्रामाण्यनिश्चयः? तदन्यार्थक्रियाज्ञानादिति चेत्, अनवस्था / पूर्वप्रमाणादिति चेदन्योन्याऽऽश्रयदोषः प्राक् प्रदर्शितोऽत्रापि। अथार्थक्रियाज्ञानस्य स्वत एव प्रामाण्यनिश्चयः / प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ? तदुक्तम्"यथैव प्रथम ज्ञान, तत्संवादमपेक्षते। संवादेनापि संवादः, पुन ग्यस्तथैव हि // 1 // कस्यचित्तु यदीष्येत, स्वत एव प्रमाणता। प्रथमस्य तथाभावे, प्रद्वेषः केन हेतुना ?||2| संवादस्याऽथ पूर्वेण, संवादित्वात्प्रमाणता। अन्योऽन्याऽऽश्रयभावेन, न प्रामाण्यं प्रकल्पते / / 3 / / " इति। अथापि स्यादर्थक्रियाज्ञानमर्थाभावे न दृष्टमिति न तत्स्वप्रामाण्यनिश्चयेऽन्यापेक्ष साधनज्ञानं त्वर्थाभावेऽपि दृष्टमिति तत्प्रामाण्यनिश्चयेऽर्थक्रियाज्ञानापेक्षमिति / एतदप्यसङ्गतम् / अर्थक्रियाज्ञानस्याप्यर्थमन्तरेण स्वप्रदशाया दर्शनात्, न च स्वप्रजाग्रद्दशाऽवस्थायाः कश्चिद्विशेषः प्रतिपादयितुं शक्यः / अथार्थक्रियाज्ञानं फलावाप्तिरूपत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षं, साधनविनि सिपुननि नार्थक्रियाऽवाप्तिरूपं भवति तत्स्वप्रामाण्यनिश्चयेऽन्यापेक्षम् / तथाहि-जलावभासिनि ज्ञाने समुत्पन्ने पानावगाऽऽहनाद्यर्थिनः किमेतत् ज्ञानविभासि जलमभिमतफल साधयिष्यति, उत नेति जाताऽऽशङ्कास्तत्प्रामाण्यविचारं प्रत्याद्रियन्ते। पानावगाहनार्थावाप्तिज्ञाने तु समुत्पन्नेऽवाप्तफलस्वान्न तत्प्रामाण्यविचारणाय मनः प्रणिदधति / नैतत्सारम् / अवाप्तफलत्वादित्यस्यानुत्तरत्वात् / तथाहि-यथा ते विचारकत्वाजलज्ञानावभासिनो जलस्य किं सत्त्वमुतासत्त्वमिति विचारणाया प्रवृतास्तथा फलज्ञाननिर्भासिनोऽप्यर्थस्य सत्त्वासत्त्वविचारणायां प्रवर्त्तन्ते / अन्यथा तदप्रवृत्तौ तदवभासिनोऽर्थस्यासत्त्वाऽऽशङ्कया तज्ज्ञानस्याऽवस्तुविषयत्वेनाप्रमाणतया शक्यमानस्य न तज्जलावभासिप्रवर्तकज्ञानप्रामाण्यव्यवस्थापकत्वम्। ततश्चान्यस्य तत्समानरूपतया प्रामाण्यनिश्चयाभावात्कथमर्थक्रियार्था प्रवृत्तिनिश्चितप्रामाण्यात् ज्ञानादित्यभ्युपगमः शोभनः / किं च-भिन्नजातीयं संवादकज्ञान पूर्वस्य प्रामाण्यनिश्चायकमभ्युपगम्यमानमेकार्थ, भिन्नार्थवा? यद्येकार्थमित्यभ्युपगमः / स न युक्तः। भवन्मतेनाघटमानत्वात् / तथाहिरूपज्ञानाद्भिन्नजातीयं स्पर्शाऽऽदिज्ञाानं, तत्र च स्पर्शाऽऽदिकमाभाति न रूपम्, रूपज्ञाने तु रूपं, न स्पर्शाऽऽदिकमाभाति; रूपस्पर्शयोश्च परस्परं भेदः, न चावयवी रूपस्पर्शज्ञानयोरेको विषयतयाऽभ्युपगम्यते, येनैकविषयं भिन्नजातीयं पूर्वज्ञानप्रामाण्यव्यवस्थापकं भवेत् / अपि चएकविषयत्वेऽपि कि येन स्वरूपेण व्यवस्थाप्ये ज्ञाने सोऽर्थः प्रतिभाति, कि तेनैव व्यवस्थापके, उतान्येन ? तत्र यदि तेनैवेत्यभ्युपगमः / सन युक्तः / व्यवस्थापकस्य तावद्धार्थविषयत्वेनं स्मृतिवदप्रमाणत्वेन व्यवस्थापत्वासंभवात् / अथ रूपान्तरेण सोऽर्थस्तत्र विज्ञग्ने प्रतिभाति / नन्वेवं संवाद्यसंवादकयोरेकविषत्वंनस्यादिति द्वितीय एव पक्षोऽभ्युपगतः स्यात्। स चाऽयुक्तः। पूर्वस्याऽपि भिन्नविषयस्यैकसन्तानप्रभवस्य विजातीयस्य प्रामा