SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ पमाण 456 - अभिधानराजेन्द्रः - भाग 5 पमाण स्वसामग्रीतो विज्ञानोत्पत्तावपिन प्रामाण्यं समुत्पद्यते, किंतु तद्व्यतिरिक्तसामग्रीतः पश्चाद्भवति, तदा विरुद्धधर्माध्यासात्, कारणभेदाच भेदः स्यात्। अन्यथा-'अयमेव भेदो भेदहेतुर्वा, यदुत विरुद्धधर्माध्यासः, कारणभेदश्च, स चेन्न भेदको विश्वमेकं स्यात्।'' इति वचः परिप्लवेत। तस्माद्यत एव गुणविकलसामग्रीलक्षणात्कारणाद्विज्ञानमुत्पद्यते तत एव प्रामाण्यमपीति गुणवचक्षुरादिभावानुविधायित्वादित्यसिद्धो हेतुः / अत एवोत्पत्तौ समग्यन्तरानपेक्षत्वं नासिद्धम्। अनपेक्षत्वविरुद्धस्य सापेक्षत्वस्य विपक्षे सद्भावात् / ततो व्यावर्तमानो हेतुः स्वसाध्येन व्याप्यते इति विरुद्धानैकान्तिकत्वयोरप्यभाव इति भवत्यतो हेतोः स्वसाध्यसिद्धिः। अर्थतथात्वपरिच्छेदरूपा च शक्तिः प्रामाण्यम्। शक्तयश्च सर्वभावानां स्वत एव भवन्ति, नोत्पादककारणकलापाधीनाः / तदुक्तम्- "स्वतः सर्वप्रमाणानां, प्रामाण्यमिति गम्यताम् / न हि स्वतोऽसती शक्तिः, कर्तुमन्येन पार्यत।।१।।" एतच्च नैव सत्कार्यदर्शनसमाश्रयणादभिधीयते, किंतुयः कार्यधर्मः कारणकलापेऽस्ति स एव कारणकलापादुपजायमाने कार्ये लत एवोदयमासादयति; यथा मृत्पिण्डे विद्यमाना रूपाऽऽदयो, घटेऽपि मृत्पिण्डादुपजायमाने मृत्पिण्डरूपाऽऽदिद्वारेणोपजायन्ते / ये पुनः कार्यधर्माः कारणेऽविद्यमाना न ते कारणेभ्यः कार्ये उदयमासादयन्ति, नतत एव प्रादुर्भवन्ति, किंतुस्वतः। यथा घटस्यैवोदकाऽऽहरणशक्तिः, तथा विज्ञानेऽप्यर्थतथात्वपरिच्छेदे शक्तिः चक्षुरादिषु विज्ञानकारणेष्वविद्यमाना न तत एव भवति, किं तु स्वत एव प्रादुर्भवति किं चोक्तम्-'आत्मलाभे हिभावानां, कारणापेक्षिता भवेत्। लब्धाऽऽत्मनां स्वकार्येषु, प्रवृत्तिः स्वयमेव तु / / 1 / / " तथाहि-"मृत्पिण्डदण्डचक्राऽऽदि, घटो जन्मन्यपेक्षते। उदकाऽऽहरणे तस्य, तदपेक्षा न विद्यते॥१॥" इति / अथ चक्षुरादेर्विज्ञानकारणादुपजायमानत्वात्प्रामाण्यं परत उपजायत इति यद्यभिधीयते, तदभ्युप गम्यत एव / प्रेरणाबुद्धरपि अपौरुषेयविधिवाक्यप्रभवायाः प्रामाण्योत्पत्त्यभ्युपगमात् / तथाऽनुमानबुद्धिरपि गृहीताविनाभावानन्यापेक्षलिङ्गादुपजायमाना तत एव गृहीतप्रामाण्योपजायत इति सर्वत्र विज्ञानकारण-कलापव्यतिरिक्तकारणान्तरानपेक्षमुपजायमानं प्रामाण्यं स्वत उत्पद्यत इति नोत्पत्तौ परतः प्रामाण्यम्। नापि स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्त्तमानं प्रमाणं स्वोत्पादककारणब्यतिरिक्तनिमित्ता पेक्ष प्रवर्त्तत इत्यभिधातु शक्यम् / यतस्तन्निमित्तान्तरमपेक्ष्य स्वकार्ये प्रवर्त्तमानं किं संवादप्रत्ययमपेक्ष्य प्रवर्त्तते, आहोस्वित्स्वोत्पादककारणगुणानपेक्ष्य प्रवर्तते ? इति विकल्पद्वयम्। तत्र यद्याद्यो विकल्पोऽभ्युपगम्यते, तदा चक्रकलक्षणं दूषणमापतति। तथाहि-प्रमाणस्य स्वकार्ये प्रवृत्तौ सत्यामर्थक्रियार्थिनां प्रवृत्तिः, प्रवृत्तौ चार्थक्रियाज्ञानोत्पत्तिलक्षणः संवादः, तं च संवादमपेक्ष्य प्रमाण स्वकार्येऽर्थतथाभावपरिच्छेदलक्षणे प्रवर्तत इति यावत्प्रमाणस्य स्वकार्ये न प्रवृत्तिर्न तावदर्थक्रियार्थिनां प्रवृत्तिः, तामन्तरेण नार्थक्रियाज्ञानसंवादः, तत्सद्धावं विना प्रमाणस्य तदपेक्षस्य स्वकार्ये न प्रवृत्तिरिति स्पष्टं चक्रकलक्षणं दूषणमिति। न च भाविनं संवादप्रत्ययमपेक्ष्य प्रमाणं स्वकार्ये प्रवर्तत इति शक्यमभिधातुम् / भाविनोऽसत्त्वेन विज्ञानस्य स्वकार्ये प्रवर्त्तमानस्य सहाकारित्वासम्भवात् / अथ द्वितीयः: तत्रापि किं गृहीताः स्वोत्पादककारणगुणाः सन्तः प्रमाणस्य स्वकार्ये प्रवर्त्तमानस्य सहकारित्वं प्रपद्यन्ते, आहोस्विदगृहीता इत्यत्राऽपि विकल्पद्वयम् / तत्र यद्यगृहीता इति पक्षः / स न युक्तः। अगृहीतानां सत्त्वस्यैवासिद्धेः सहकारित्वं दूरोत्सारितमेव। अथ द्वितीयः / सोऽपि न युक्तः, अनवस्थाप्रसङ्गात् / तथाहि-गृहीतस्वकारणगुणापेक्षं प्रमाणं स्वकार्ये प्रवर्तते, स्वकारणगुणज्ञानमपि स्वकारणगुणज्ञानापेक्षं प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्ये प्रवर्तते, तदपि स्वकारणगुणज्ञानापेक्षमित्यनवस्थासमवतारो दुर्निवार इति / अथ प्रमाणकारणगुणज्ञानं स्वकारणगुणज्ञानानपेक्षमेव प्रमाणकारणगुणपरिच्छेदलक्षणे स्वकार्येप्रवर्त्तते, तर्हि प्रमाणमपि स्वकारणगुणज्ञानानपेक्षमेवार्थपरिच्छेदलक्षणे स्वकार्ये प्रवर्तिष्यत इति व्यर्थं प्रमाणस्थ स्वकारणगुणज्ञानापेक्षणमिति न स्वकार्ये प्रवर्त्तमानं प्रमाणमन्यापेक्षम्। तदुक्तम् "जातेऽपि यदि विज्ञाने, तावन्नार्थोऽवधार्यते। यावत्कारणशुद्धत्वं, न प्रमाणान्तराद्गतम् / / 1 / / तत्र ज्ञानान्तरोत्पादः, प्रतीक्ष्यः कारणान्तरात्। यावद्धि न परिच्छिन्ना, शुद्धिस्तावदसत्समा।।२।। तस्याऽपि कारणाशुद्धे-र्न ज्ञानस्य प्रमाणता। तस्याप्येवमितीच्छंस्तु, न क्वचिद्वयवतिष्ठते॥३॥'' इति। तेन "ये प्रतीक्षितप्रत्ययान्तरोदयाः' इति प्रयोगे हेतोरसिद्धिः, तस्मात्स्वसामग्रीत उपजायमानं प्रमाणमर्थयाथात्म्यपरिच्छेदशक्तियुक्तमेवोपजायत इति स्वकार्येऽपि प्रवृत्तिः स्वत इति स्थितम् / नापि प्रमाणं प्रामाण्यनिश्वयेऽन्यापेक्षम्। तद्ध्यपेक्षमाणं किं स्वकारणगुणानपेक्षते, आहोस्वित्संवादमिति विकल्पद्वयम्। तत्र यदि स्वकारणगुणानपेक्षते इति पक्षः कक्षीक्रियते / सोऽसङ्गतः। स्वकारणगुणानां प्रत्यक्ष तत्पूर्वकानुमानाग्राह्यत्वेनाऽसत्त्वस्य प्रागेव प्रतिपादनात् / अथाभिधीयतेयो यः कार्यविशेषः स सगुणवत्कारणविशेषपूर्वको, यथा प्रासादाऽऽदिविशेषः / कार्यविशेषश्च यथावस्थितार्थपरिच्छेद इति स्वभावहेतुरिति / एतदसंबद्धम्। परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वासिद्धेः। तथाहि परिच्छेदस्य यथावस्थितपरिच्छेदत्वं किं शुद्धकारकजन्यत्वेन, उत संवादित्वेनाहो स्विद्वाधारहितत्वेन उतस्विदर्थतथात्वेनेति विकल्पाः / तत्र यदिगुणवत्कारणजन्यत्वेनेतिपक्षः। सनयुक्तः। इतरेतराऽऽश्रयदोषप्रसङ्गात् / तथाहि-गुणवत्कारणजन्यत्वेन परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्व, तत्परिच्छेदत्वाच्च गुणवत्कारणजन्यत्व मिति परिस्फुटमितरेतराऽऽश्रयत्वम् / अथ संवादित्वेन ज्ञानस्य यथावस्थितार्थपरिच्छेदत्वं विज्ञायते। एतदप्यचारु / चक्रकप्रसङ्गस्यात्र पक्षे दुर्निवारत्वात्। तथाहि-नयावद्विज्ञानस्य यथावस्थितार्थपरिच्छेद-लक्षणो विशेषः सिध्यति, न तावत्तत्पूर्विका प्रवृत्तिः, संवादार्थिनां यावचन प्रवृत्तिर्न तावदर्थक्रियासंवादः, यावच न संवादोन तावद्विज्ञानस्य यथावस्थितार्थ परिच्छेदत्वसिद्धिरिति चक्रकप्रसङ्गःप्रागेव प्रतिपादितः।। अथ बाधारहितत्वेन विज्ञानस्य यथार्थपरिच्छेदत्वमध्यवसीयते। तदप्यसङ्गतम् / स्वाभ्युपगमविरोधात्।तदभ्युपगमविरोधश्च बाधाविरहस्य तुच्छस्वभावस्य सत्वेन, ज्ञापकत्वेन वाऽनङ्गीकरणात्। पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य तु विज्ञानपरिच्छेदविशेषाविषयत्वेन तद्व्यवस्थापकत्वानुपपत्तेः / / अर्थार्थतथात्वेन यथावस्थितार्थपरिच्छेदलक्षणो विशेषो विज्ञानस्य
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy