SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ पमाण 455 - अभिधानराजेन्द्रः - भाग 5 पमाण कार्ये यथावस्थितार्थपरिच्छेदलक्षणे, स्वज्ञाने च / विज्ञानोत्पादकसामग्रीव्यतिरिक्तगुणाऽऽदिसामा यन्तरप्रमाणान्तरस्वसंवेदनग्रहणाऽनपेक्षत्वात्। अपेक्षात्रयरहितं च प्रामाण्यं स्वत उच्यते। अत्र च प्रयोगः ये यद्भाव प्रत्यनपेक्षास्ते तत्स्वरूपनियताः, यथा-ऽविकला कारणसामग्यङ् कुरोत्पादने, अनपेक्ष्यं च प्रामाण्यमुत्पत्ती, स्वकार्ये, ज्ञप्तौ चेति। अत्र परतः प्रामाण्यवादिनः प्रेरयन्ति-अनपेक्षत्वमसिद्धम् / तथा हिउत्पत्ती तावत्प्रमाण्यं विज्ञानोत्पादक कारणव्यतिरिक्तगुणाऽऽदिकारणान्तरसापेक्षम्, तदन्वयव्यतिरेकानुविधायित्वात् / तथा च प्रयोगः-यचक्षुराद्यतिरिक्तभावाभावानुविधायि, तत्तत्सापेक्षम्, यथाऽप्रामाण्य, चक्षुराद्यतिरिक्तभावाभावानुविधायि च प्रामाण्यामिति स्वाभावहेतुः, तस्मादुत्पत्तौ परतः / तथा स्वकार्ये च सापेक्षत्यात्परतः / तथाहि-ये प्रतीक्षितप्रत्ययान्तरोदया न ते स्वतो व्यवस्थितधर्मकाः, यथाऽप्रामाण्याऽऽदयः / प्रतीक्षितप्रत्ययान्तरोदयं च प्रामाण्यं तत्रेतिविरुद्धव्यप्तोपलब्धिः। तथा ज्ञप्तौ च सापेक्षत्वात्परतः / तथाहि-ये संदेहविपर्ययाध्यासिततनवस्ते परतो निश्चितयथावस्थितस्वरूपाः, यथा स्थाण्वादयः, तथा च संदेहविपर्ययाध्यासितस्वभाव केषाश्चित्प्रत्ययानां प्रामाण्यमिति स्वभावहेतुः / अत्र यत्तावदुक्तम्-प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणाऽऽदिकारणसव्यपेक्षमुत्पत्ती, तदसत्, तेषामसत्त्वात् / तदसत्त्वं च प्रमाणतोऽनुपलब्धेः / तथाहि न तावत् प्रत्यक्षं चक्षुरादीन्द्रियगतान् गुणान् ग्रहीतुसमर्थम्। अतीन्द्रियत्वेनेन्द्रियाणाम, तद्गुणानामपि प्रतिपत्तुमशक्तेः / अथाऽनुमानमिन्द्रियगुणान् प्रतिपद्यते। तदप्यसम्यक् / अनुमानस्य प्रतिबद्धलिङ्ग निश्वयबलेनोत्पत्त्यभ्युपगमात्। प्रतिबन्धश्च किं प्रत्यक्षणेन्द्रियगतगुणैः सह गृह्यते लिङ्गस्य, आहोस्विदनुमानेनेति वक्तव्यम्। तत्र यदि प्रत्यक्षमिन्द्रियाऽऽश्रितगुणैः सह लिङ्ग संबन्धग्राहकमभ्युपगम्ये / तदयुक्तम्। इन्द्रियगुणानामप्रत्यक्षत्वे तद्गतसंबन्धस्याऽप्यप्रत्यक्षत्वात्। "द्विष्ठसंबन्धसंवित्ति नैकरूपप्रवेदनात्।" इति वचनात्। अथानुमानेन प्रकृतसंबन्धः प्रतीयते / तदप्ययुक्तम्। यतस्तदप्यनुमानं किं गृहीतसंबन्धलिङ्गप्रभवम्, उताऽगृहीतसंबन्धलिङ्ग समुत्थम् ? तत्र यद्यगृहीतसंबन्धलिङ्गप्रभवं, तदा किं प्रमाणम्, उताऽप्रमाणम् ? यद्यप्रमाण, नातः संबन्धप्रतीतिः / अथ प्रमाणम्, तदपि न प्रत्यक्षम्, अनुमानस्य बाह्यार्थविषयत्वेन प्रत्यक्षत्वानभ्युपगमात्, प्रत्यक्षपक्षोक्तदोषाच ।किंतु अनुमानम्, तचानवगतसंबन्धन प्रवर्त्तत इत्यादि वक्तव्यम्। अथाऽवगतसंबन्धम, तस्याऽपि संबन्धः किं तेनैवानुमानेन गृह्येत, उताऽन्येन? यदि तेनैव गृह्यत इत्यभ्युपगमः / सन युक्तः / इतरेतराऽऽश्रयदोषप्रसङ्गात्। तथाहि-गृहीतप्रतिबन्धं तत्स्वसाध्वप्रतिबन्धग्रहणाय प्रवर्तते, तत्प्रवृत्तौ च स्वोत्पादकप्रतिबन्धग्रह इत्यन्योऽन्यासंश्रयो व्यक्तः / अथाऽन्ये नानुमानेन प्रतिबन्धग्रहाभ्युपगमः। सोऽपि नयुक्तः। अनवस्थाप्रसङ्गात्। तथाहि- तदप्यनुमानमनुमानप्रतिबन्धग्राहकमनुमानान्तराद गृहीतप्रतिबन्धमुदयमासादयति, तदप्यन्यतोऽनुमानाद् गृहीतप्रतिबन्धमित्यनवस्था। किं च-तदनुमानं स्वभावहेतुप्रभावितं, कार्यहेतुसमुत्थम्, अनुपलब्धिलिङ्ग प्रभवं वा प्रतिबन्धग्राहकं स्यात् / अन्यस्य साध्यनिश्चायकत्वेन सौगतैरनभ्युपगमात् / तदुक्तम्- 'त्रिरूपाणि च त्रीण्येव | लिङ्गानि, अनुपलब्धिः, स्वभावः, कार्य च।" इति। "त्रिरूपालिङ्गाल्लिङ्गि विज्ञानमनुमानम्।'' इति च / तत्र स्वभावहेतुः प्रत्यक्षगृहीतेऽर्थे व्यवहारमात्रप्रवर्तनफलः, यथा शिंशपात्वाऽऽदिवृक्षाऽऽदिव्यवहारप्रवर्त्तनफलः / न चाऽक्षाऽऽश्रितगुणलिङ्ग संबन्धः प्रत्यक्षतः प्रतिपन्नो, येन स्वभावहेतुप्रभवमनुमानं तत्संबन्धव्यवहारमारचयति / नापि कार्यहतुसमुत्थम्,अक्षाऽऽश्रितगुणलिङ्ग संबन्धग्राहकत्वेन तत्प्रभवति। कार्यहेतोः, सिद्धे कार्य कारणभावे, कारणप्रतिपत्तिहेतुत्वेनाभ्युपगमात् / कार्यकारणभावस्य च सिद्धिः प्रत्यक्षानुपलम्भप्रमाणसंपाद्या / न च लोचनाऽऽदिगतगुणाऽऽश्रितलिङ्ग संबन्धग्राहकत्वेन प्रत्यक्षप्रवृत्तिः, येन तत्कार्यत्वेन कस्यचिल्लिङ्ग स्य प्रत्यक्षतः प्रतिपत्तिः स्यात् / तन्न कार्यहतोरपि प्रतिबन्धप्रतिपत्तिः / / अनुपलब्धेस्त्वेवंविधे विषयेप्रवृत्तिरेव न सम्भवति, तस्या अभावसाधकत्वेन व्यापाराभ्युपगमात् / न चान्यल्लिङ्गमभ्युपगम्यत इत्युक्तम् / न च प्रत्यक्षानुमानव्यतिरिक्त प्रमाणान्तरमिति नेन्द्रियगतगुणप्रतिपत्तिः / यन्न क्वचिदपि प्रमाणेन प्रतिभाति, न तत्सद्व्यवहारावतारि, यथा शशश्रृङ्गम्, न प्रतिभान्ति च क्वचिदपि प्रमाणेनाऽतीन्द्रियेन्द्रियगुणा भवदभ्युगता इति कुतस्तेषां विज्ञानोत्पादककारणव्यतिरिक्तानां प्रामाण्योत्पादकत्वम् ? अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः। तदप्ययुक्तम्।यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्य उपलब्ध्याख्यस्वरूपं निश्चितं भवेत, तदा यथार्थत्वलक्षणः कार्यस्य विशेषः पूर्वस्मात्कारणकलापादनिष्पद्यमानो गुणाऽऽख्यंस्वोत्पत्तौ कारणान्तरं परिकल्पयति / यदा तु यथार्थ - वोपलब्धिः स्वोत्पादककारणकलापानुमापिका, तदा कथमु-त्पादकव्यतिरेकिगुणसद्भावः / अयथार्थत्वं तूपलब्धेः कार्यस्य विशेषः पूर्वस्मात्कारणसमुदायादनुपपद्यमानः स्वोत्पत्ती सामर यन्तरं कल्पयति, अत एव परतोऽप्रामाण्यमुच्यते, तस्योत्पत्तौ दोषापेक्षत्वात् / न चेन्द्रियनैर्मल्याऽऽदिगुणत्वेन वक्तुं शक्यम् / नैर्मल्यं हि तत्स्वरूपमेव, नपुनरौपाधिको गुणः। तथाव्यपदेशस्तु दोषाभावनिबन्धनः। तथाहिकामलाऽऽदिदोषासत्त्वान्निर्मलमिन्द्रियमुच्यते, तत्सत्त्वे सदोषम् / मनसोऽपि मिद्धाऽऽद्यभावः स्वरूपम्, तत्सद्भावस्तु दोषः / विषयस्यापि निश्चलत्वाऽऽदिस्वभावः, चलत्वाऽऽदिकस्तु दोषः / प्रमातुरपि क्षुदाद्यभावः स्वरूपम्, तत्सद्भावस्तु दोषः / तदुक्तम्-"इयती च सामग्री प्रमाणोत्पादिका / " तदुत्पद्यमानमपि प्रमाणं स्वोत्पादककारणव्यतिरिक्तगुणानपेक्षत्वात् स्वत उच्यते / नाप्येतद्वक्तव्यम्, तज्जनकानां स्वरूपमयथार्थोपलब्ध्या समधिगतं, यथार्थत्वं तु पूर्वस्मात्कार्यावगतात्कारकस्वरूपादनिष्पद्यमानं किमिति गुणाऽऽख्य सामग्यन्तरं कल्पयति? प्रक्रियाया विपर्ययणाऽपि कल्पयितुं शक्यत्वात् / यतो न लोकप्रायशो विपर्ययज्ञानात्स्वरूपस्थं कारणमप्यनुमिनोति,किं तुसम्यग्ज्ञानात् / तथाविधे न कारकानुमानेऽशक्यप्रतिषेधा पूर्वोक्त प्रक्रिया / नाऽपि तृतीयं यथार्थत्वाऽयथार्थत्वे विहाय कार्यमस्तीत्युक्तम्। अपि च-अर्थतथाभावप्रकाशनरूप प्रामाण्यम्, तस्य चक्षुरादिकारणसामग्रीतो विज्ञानोत्पत्तावप्यनुत्पत्त्यभ्युपगमे विज्ञानस्य किं स्वरूप भवद्भिरपरमभ्युपगम्यत इति वक्तव्यम् ? नतद्रूपव्यतिरेकेण विज्ञानस्वरूपं भवन्मतेन संभवति, येन प्रामाण्यं तत्र विज्ञानोत्पत्तावप्यनुत्पन्नमुत्तरकालं तत्रैवोत्पत्तिमदभ्युपगम्येत, भित्ताविव चित्रम् / किं च-यदि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy