________________ पमाण 454 - अभिधानराजेन्द्रः - भाग 5 पमाण सन्तान, भिन्नसन्तानं वा? द्वयमपि चैतदेक जातीय, भिन्नजातीयं वा? चतुष्टयमपि चैतद्व्यभिचाराभिचारदुःसंचरम् / तथाहि-एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरलतरतुङ्गत्तङ्गत्तरङ्गतरङ्गिणीतोयज्ञानं, भिन्नजातीयं च कुम्भाम्भोरुहाऽऽदिज्ञानं मरुवसुन्धराचारिचतुरतातरणिकिरणश्रेणिसंगिसलिलसंबदनस्य न संवादकमिति न ज्ञप्तावपि तत्परतः / अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात्, ज्ञप्तौ तु बाधकापेक्षत्वात् परत एवेति / अत्राभिदध्महे-यत्तावद् गुणाः प्रत्यक्षेणानुमानेन वा मीयेरन्नित्यादि न्यगादि / तदखिलं न खलु न दोषप्रसरेऽपि प्रेरयितुं पार्यते / अथाध्यक्षेणैव चक्षुरादिस्थान दोषान्निश्चिक्यिरे लोकाः / किं न नैर्मल्याऽऽदीन गुणानपि?अथ तिमिराऽऽदिदोषाभावमात्रमेव नैर्मल्याऽऽदि, न तु गुणरूपमिति कथमध्यक्षेण गुणनिश्चयः स्यात् ? एवं तर्हि नैर्मल्याऽऽदिगुणाभावमात्रमेव तिमिराऽऽदि, नतुदोषरूपमिति विपर्ययकल्पना किं न स्यात् ? अस्तु वा दोषाभावमात्रमेव गुणः, तथापि नायं तुच्छः कश्चित् संगच्छते, "भावान्तरविनिर्मुक्ते, भावोऽत्रानुपलम्भवत्। अभावः सम्मतस्तस्य, हेतोःकिं न समुद्भवः // 1 // " इति स्वयं भट्टेन प्रकटनात् / तदपेक्षायामपि च कथं न परतः प्रामाण्योत्पत्तिः ? अथाऽऽसतां नैर्मल्य ऽऽदयो गुणास्तथाऽप्यधिष्ठानप्रतिष्ठानेव तान् प्रत्यक्ष साक्षात् करोति, न करणस्थान, तेषा परोक्षत्वात्। तर्हि तत एव दोषानपि तत्स्थानेव तत्साक्षात्कुर्यादिति कथं दोषा अपि प्रत्यक्षलक्ष्याः स्युः ? अथा-प्रामाण्यं विज्ञानमात्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यं, विज्ञानमात्रानुवृत्तावपि व्यावर्तमानत्वात, यदनुवृत्तावपि यद्व्यावर्त्तते तत् तन्मात्रोत्पादककारणकलापातिरिक्तकारकोल्पाद्यम्, यथा पाथः पृथ्वीपवनाऽऽतषानुवृत्तावपि व्यावर्तमानः कोद्रवाड् कुरस्तदतिरिक्तकोद्रवोत्पाद्यः, इत्यनुमामाद् दोषप्रसिद्धिरिति चेत् / चिरं नन्दतावान्, इदमेव ह्यनुमानमप्रामाण्यपदं निरस्य प्रामाण्यपदं च प्रक्षिप्य गुणसिद्धावपि विदध्याद, इति कथं न दोषवद् गुणा अपि सिद्ध्येयुः ? यतो नोत्पत्तौ परतः प्रामाण्यं स्यात् / प्रतिबन्धश्च यथा दोषानुमाने तथा गुणानुमानेऽपि निर्णेयः / कथं वाऽऽदित्यगत्यनुमाने तन्निर्णयः ? दृष्टान्ते तु यथाऽत्र साध्यसाधनसंबन्धोद्रोधोऽस्ति, तथा गुणानुमानेऽपि।यचा-वाचिनिश्चयस्तुतस्य परत इत्यादि। तत्र संवादिवेदनादिति ब्रूमः / कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादकज्ञानरूपत्वं प्रतिपद्यामहे-यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णस्तादृश एवाऽसौ येन विज्ञानेन व्यवस्थाप्यते तत्संवादकमित्येतावन्मात्रं हि तल्लक्षणमाचचक्षिरे धीराः। यस्तुगुणग्रहणप्रवणप्रमाण-पराकरणपरायणातिदेशप्रयासः, प्रयास एव केवलमयमजनिभवतः, दोषसंदोहवद्गुणगणेऽपि प्रमाणप्रवृत्तेरनिवारणात् / यत्तु बाधकाभावज्ञानपक्षे विकल्पित तात्कालिकस्य कालान्तरभाविनो वेत्यादि / तत्राऽऽद्यविकल्पपरिकल्पनाऽल्पीयसी, न खलु साधननिर्मासिसंवेदनादेयकाले क्वाऽपि कस्याऽपि बाधकस्योदयः संभवी, उपयोगयोगपद्यासम्भवात्, भविष्यत्कालस्य तु बाधकस्याभावज्ञानात् प्रामाण्यनिर्णयो निरवद्य एवानच चर्मचक्षुषां तदभावो भवितुमर्हति, यदुदग्रसमग्रसामग्रीसंपाद्यसंवेदनं न तत्र भाविबाधकावकाश इत्येवं तन्निर्णयात् / यदि च भाविवस्तुसंवेदनमरमादृशां न स्यादेव, तदा कथं कृतिकोदयात् शकटोदयानुमान नास्तमियात् ? यत्पुनरवादिसंवादिवेदनं त्वित्यादि। तत्र संवादिवेदना- | त्साधननिसिप्रतिभासविषयस्य, विषयान्तरस्य वा ग्राहकात् प्रामाण्य निणर्य इति ब्रूमः / भवति हि तिमिरनिकुरम्बकरम्बिताऽऽलोकसहकारिकुम्भाऽवभासस्य तत्रैवैकसन्तानं भिन्नसन्तानं च निरन्तराऽऽलोकसहकारिसामर्थ्यसमुद्भूतं संवेदेन संवादकम्। न च तैमिरिकाऽऽदिवेदनेऽपि तत्प्रसङ्गः, तत्र परातो बाधकात्। स्वतः सिद्धप्रामाण्यादुत्तरस्याप्रामाण्यनिर्णयात् विषयान्तरग्राहमपि संवादकमेव, यथार्थक्रियाज्ञानम् / न चात्र चक्रकावकाशः, प्रवर्तकप्रमाणप्रामाण्यनिर्णयाऽऽदिप्रयोजनायाः प्रथमप्रवृत्तेः संशयादपि भावात् / अथैक्रियाज्ञानस्य तु स्वेत एव प्रामाण्यनिश्चयः, अभ्यासदशाऽऽपन्नत्वेन दृढतरस्यैवास्योत्पादात्। न च साधननिर्भासिनोऽपि तथैवायमस्त्विति वाच्यं, तस्य तद्विलक्षणत्वात् / अन्यदप्येकसन्तानं भिन्नसन्तान चैकजातीयं च यथैकदरदर्शनं दस्रान्तरदर्शनस्य, भिन्नजातीयं च यथा निशीथे तथाविधरसाऽऽस्वादनं तथाभूतरूपस्य संवादकं भवत्येव / न च मिथ्यापाथःप्रथायाःपाथोन्तरे कुम्भाऽऽदौ वा संवदनं संवादनं प्रसज्यते, यतो न खलु निखिलं प्रागुक्तं संवेदनं संवादकं संगिरामहे, किं तर्हि ?, यत्र पूर्वोत्तरत्र ज्ञानगोचरयोरव्यभिचारस्तत्रैव। किं च -स्वत एव प्रामाण्यनिर्णयवर्णनसकणेनानेन स्वशब्द आत्मार्थः, आत्मीयार्थो वा कथ्येत्? नाऽऽद्यः पक्षः, स्वावबोधविधानेऽप्यन्धया बुद्ध्या स्वधर्मास्य प्रामाण्यस्य निर्णेतुमशक्तेः / द्वितीये तु, प्रकटकपटनाटकघटनपाटवं प्राचीकटत्, प्रकारान्तरेणास्मन्मताऽऽश्रयणात् अस्माभिरपि आत्मीयेनैव ग्राहकेण प्रामाण्यनिर्णयस्य स्वीकृतत्वात् / अथ येनैव ज्ञानमात्र निणीर्यते तेनैव तत्प्रामाण्यमपि, इति स्वतः प्रामाण्यनिर्णयो वर्ण्यते / नन्वर्थप्राकट्योत्थापितार्थापत्तेःसकाशात् त्वया झाननिर्णीतिस्तावदभीप्सामासे / अर्थप्राकट्यं च यथार्थत्वविशेषणविशिष्टं, निर्विशेषणं वा अर्थापत्तिमुत्थापयेत्? प्राचिपक्षे, तस्य तद्विशेषणग्रहणं प्रथमप्रमाणात्, अन्यस्मात्, स्वतोवाभवेत् ? प्रथमपक्षे, परस्पराऽऽश्रवप्रसङ्गः निश्चितप्रामाण्याद्धि प्रथमप्रमाणाद्यथार्थत्वविशिष्टार्थप्राकट्यग्रहणं, तस्माच प्रथमप्रमाणे प्रामाण्यनिर्णय इति / द्वितीयविकल्पे तु, अनवस्थाअनयस्मिन्नपि हि प्रमाणे प्रामाण्यनिर्णायकार्थापत्त्युत्थापकस्यार्थप्राकट्यस्व यथार्थत्वविशेषणग्रहणमन्यस्मात्प्रमाणादिति / अथ स्वतस्तद्विशेषणग्रहणम्। तथाहि-स्वसंविदितमर्थप्राकट्यंतचाऽऽत्मानं निर्णयमान स्वधर्मभूतं यथार्थत्वमपि निर्णयते, तथा च-ततोऽनुमीयमाने ज्ञाने स्वतः प्रामाण्यज्ञप्तिरिति / तदेतदनवदातम् / एवं सत्यप्रामाण्यस्यापि स्वतो ज्ञप्तिप्रसक्तेः। स्वतो निश्चितवैतथ्यविशेषणादर्थप्राकट्याद्विज्ञानमनुमीयमानमारकन्दिता प्रामाण्यमेवानुमीयते / ततः कथं प्रामाण्यवदप्रामाण्यस्याऽपि स्वतो निर्णीतिर्न स्यात् ? अथ तत्र बाधकादेवाप्रामाण्यनिर्णयोन पुनर्ज्ञाननिणार्यकाद.एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोऽस्तु, इति तदपि कथं स्वतो निर्णीतं स्यात् ? निर्विशेषणं चेत् तदर्थप्राकट्यमपित्त्युत्थापकं, तर्हाप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्यापनाऽऽपत्तिः, अर्थप्राकट्यमात्रस्य तत्रापि सद्भावात् / इति सूत्रोक्तैव व्यवस्था सिद्धि सौधमध्यमध्य-रुक्षत् / 20 / रत्ना०१ परि०। (7) विशेषतो मीमासकमतनिराकरणम् - अत्राऽऽहुर्मीमांसकाः अर्थतथात्वप्रकाशको ज्ञातृव्यापारः प्रमाणं, तस्यार्थ तथात्वप्रकाशकत्वं प्रामाण्यम् / तच स्वतः उत्पत्ती, स्व