________________ पमाण 453 - अभिधानराजेन्द्रः - भाग 5 पमाण प्यनुरूपं विकल्पकदा चिन्नोत्पादयति। स्वविकल्पवासनाबलसमुज्जम्भमाणाक्षणिकत्वाऽऽदिसमारोपानुप्रवेशादिति चेत् / तदपेशलम्, नीलाऽऽदावपि तद्विपरीतसमारोपप्रसक्तेः, कथ-मन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदोन भवेत् ? नह्यनंश दर्शनं कृचित्समारोपाऽऽक्रान्तं, कृचिन्नेति वक्तुं युक्तम्। अथ तत्तद्व्यावृत्तिवशादनंशस्यापि दर्शनस्य तथा परिकल्पनाददोषः, समारोपाऽऽक्रान्तेभ्यो हि व्यावृत्तमसमारोपाऽऽक्रान्तम्, असमारोपाऽऽक्रान्तेभ्यस्तु व्यावृत्तं समारोपाऽऽक्रान्त तदुच्यते इति तदप्यसूपपादम्। यतो व्यावृत्तिरपि वस्त्वंशंकञ्चिदाश्रित्य कल्प्येत, अन्यथा वा ? अन्यथा चेत्, चित्रभानुरप्यचन्द्रव्या-वृत्तिकल्पनया चन्द्रतामाद्रियेत। वस्त्वंशाऽऽश्रयणपक्षे तु, सिद्धो विरुद्धधर्माध्यासः। तथाहि-तद्दर्शनं येन स्वाभावेन समारोपाऽऽक्रान्तेभ्योऽपि व्यावर्त्तिष्ट, न तेनेवासमारोपाऽऽक्रान्तेभ्योऽपि, येन चामीभ्यो व्यावर्तत न तेनैव तेभ्योऽपि; तयोर्द्वयोरपि व्यावृत्तयोरैक्याऽऽपत्तेः / यदि पुनः स्वभावभेदोऽपि वस्तुनोऽतत्स्वभावव्यावृत्त्या कल्पित एवेति मतम्, तदा कल्पितस्वभावान्तरकल्पनायामनवस्था स्थेमानमास्तिघ्नुवीत। ततो नव्यवसायजननादस्य प्रामाण्यमनुगुणं, कि तुव्यवसायस्वभावत्वादेव। एवं प्रामाण्यसहचरं समारोपपरिपन्थित्वमपि वाच्यम्॥६॥ समारोपपरिपन्थित्वादित्युक्तमिति समारोप प्ररूपयन्तिअतस्मिस्तदध्यवसायः समारोपः // 7 // अतत्प्रकारे पदार्थ तत्प्रकारतानिर्णयः समारोप इत्यर्थः / / 7 / / अथैनं प्रकारतः प्रकटयन्तिसविपर्ययसंशयानध्यवसायभेदात्रेधा।।८।। उत्तानार्थमदः // 8 // अथोद्देशानुसारेण विपर्ययस्वरूपं तावत् प्ररूपयन्तिविपरीतैककोटिनिष्टङ्कनं विपर्ययः || विपरीताया अन्यथा स्थिताया एकस्या एव कोटेर्वस्त्वंशस्य निष्टङ्कनं | निश्चयनं विपर्यय इति // 6 // अत्रोदाहरन्तियथा शुक्तिकायामिदं रजतमिति / / 10 / / यथेत्युदाहरणोपन्यासार्थः, अग्रेऽपि सर्वत्र / शुक्तिकायामरजताऽऽकारायामिदं रजतमिति रजताकाऽऽरतया ज्ञानं विपर्ययो विपरीतख्यातिरित्यर्थः / इतिशब्द उल्लेखार्थः, अग्रेऽपि / उदाहरणसूत्रं चेदम् - अन्येषामपि प्रत्यक्षयोग्यविषयविपर्ययाणां पीतशङ्ख ज्ञानाऽऽदीनां, तदितरप्रमाणयोग्यविषयविपर्ययाणा हेत्वाभासाऽऽदिसमुत्थज्ञानानां चोपलक्षणार्थम्। अत्र विवेकाख्यातिवादी वदति-विवादाऽऽस्पदमिदं रजतमिति प्रत्ययो न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्यतस्यानुपपद्यमानत्वात्, यद्यथा विचार्यमाणं नोपपद्यते, न तत् तथा स्वीकर्त्तव्यं, यथा स्तम्भः कुम्भरूपतयेति / न चेदं साधनमसिद्धिमधारयत् / रत्ना० 1 परि० / (साकारानाकारद्वयाऽऽत्मके उपयोगप्रमाणमिति 'उवओग' शब्दे द्वितीयभागे 860 पृष्ठे व्याख्यातम्) अथ प्रमाणलक्षणसूत्रोपात्तं परशब्द, व्याख्यान्तिज्ञानादन्योऽर्थः परः॥१५॥ ज्ञानाद्ग्राहकात्सकाशात्, अन्यो ग्राह्यतया पृथग्भूतोऽचेतनः, सचेतनो वा, अर्थोऽर्थक्रियार्थिभिरर्थ्यमानः, परः परशब्दवाच्यः। रत्ना० 1 परि०। (ज्ञाननस्य स्वप्रकाशत्वविचारः 'णाण' शब्दे चतुर्थभागे 1666 पृष्ठादारभ्य कृतः) (६)ज्ञानस्य प्रामाण्यं स्वतः, परतश्चाप्रामाण्यम् / अथोत्पत्तौ स्वनिश्चये च ज्ञानानां स्वत एव प्रामाण्यम्, अप्रामाण्यं तु परत एव यज्जैमिनीया जगुः, तन्निराकुर्वन्तितदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः, परतश्च // 20 // अत्र ल्यब्लोपे पञ्चमी, परं स्वं चाऽपेक्ष्येत्यर्थः, ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते। निश्चीयते त्वभ्यासदशायां स्वतः, अनभ्यासदशायां तु परत इति। तत्र ज्ञानस्याभ्यासदशायां प्रमेयाव्यभिचारि, तदि-तरचास्मीति प्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते, अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति। अत्रैव मीमांसका मीमांसामांसलतां दर्शयन्ति-स्वत एव सर्वथा प्रमाणानां प्रामाण्यं प्रतीतिकोटिमाटीकते। तथाहितदुत्पत्तिप्रगुणा गुणाः प्रत्यक्षेण, अनुमानेन वा प्रमीयेरन् ? यदि प्रत्यक्षेण, तत् किमन्द्रियेण, अतीन्द्रियेण वा? नैन्द्रियेण,अतीन्द्रि येन्द्रियाधिकरणत्वेन तेषां तद्ग्रहणायोग्यत्वात् / नाष्यतीन्द्रियेण, तस्य चारुविचारगोचरचरिष्णुत्वाभावात्। अनुमानेन तान् निरणेष्महीति चेत्। कुतस्तत्र नियमनिर्णयः स्यात् ? प्रत्यक्षाद् गुणेषु तत्प्रवृत्तेः परास्तत्वात् / तथा च"द्विष्ठसंबन्धसंवित्तिर्नेकरूपप्रवेदनात्। द्वयस्वरूपग्रहणे, सति संबन्धवेदनम् / / 1 / / " नाप्यनुमानात्, तत एव तन्निश्चितावितरेतराऽऽश्रयस्य, तदन्तरात पुनरनवस्थायाः प्रसक्तेः / ततो न गुणाः सन्ति केचिदिति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं तत्कथमुत्पत्तौ परतः स्यात् ? निश्चयस्तु तस्य परतः कारणगुणज्ञानाद्, बाधकाभावज्ञानात, संवादिवेदनाद्वा स्यात्? तत्र प्राच्य प्रकार प्रागेव प्रास्थाम, गुणग्रहणप्रवीणप्रमाणपराकरणात्। द्वितीये तु, तात्कालिकस्य, कालान्तरभाविनो वा बाधकस्याभावज्ञानं तन्निश्चायकं स्यात्? पौरस्त्यं तावत् कूटहाटकन्धिड्नेऽपि स्पष्टमस्त्वेव। द्वितीयं तुनचर्मचक्षुषा संभवति। संवादिवेदनं तु सहकारिरूपं सत्तन्निश्चयं विरचयेद्, ग्राहकं वा? नाद्यभिद्, भिन्नकालत्वेन तस्य सहकारित्वासंभवात् द्वितीयपक्षे तु, तस्यैव ग्राहकं सत्, तद्विषयस्य, विषयान्तरस्य वा? न प्रथमः पक्षः, प्रवर्तकज्ञानस्य सुदूरनष्टत्वेन ग्राह्यत्वायोगात्। द्वितीये तु, एकसन्तानं, भिन्नसन्तानं वा तत् स्यात् ? पक्षद्वयेऽपि, तैमिरिकाऽऽलोक्यमानमृगाडूकमण्डलद्वयदर्शिदर्शनेन व्यभिचारः। तद्धिचैत्रस्य पुनःपुनमैत्रस्य चोत्पद्यत एव। तृतीय पुनः, अर्थक्रियाज्ञानम्, अन्यद्वा तद्भवेत् ? न पौरस्त्यं प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाऽभावात् / निश्चितप्रामाण्यात्तु प्रवर्तकज्ञानात् प्रवृत्तौ चक्रकम् निश्चितप्रमाण्यात्प्रवर्तकात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियाज्ञान, तस्माच प्रवर्तकज्ञानस्य प्रामाण्यनिश्चय इति / कथं चार्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चयः ? अन्यस्मादर्थक्रियाज्ञानाचेदः अनवस्था / प्रवर्तकज्ञानाचेद; अन्योन्याऽऽश्रयो दोषः / स्वतश्चेत्, प्रवर्तकज्ञानस्यापि तथैवास्तु। अन्यदपि विज्ञानमेक