________________ पमाण 452 - अभिधानराजेन्द्रः - भाग 5 पमाण मानसेन, योगिसत्केन, स्वसंवेदनेन वा? नाऽऽद्येन, तत्रेन्द्रियकुटुम्बकस्य व्यापारपराङ्मुखत्वात् / न च द्वितीयेन, तस्येन्द्रियज्ञानपरिच्छिन्नपदार्थानन्तरक्षणसाक्षात्कारदक्षत्वात् / न तृतीयेन अस्मादृशा योगिप्रत्यक्षस्पर्शशून्यत्वात् / योगी तु तथा जानातीति कोशपानप्रत्यायनीयम्। नापितुर्येण, यतः-तत्स्वरूपोपदर्शनादेव प्रमाणं स्याद्, अनुरूपविकल्पोत्पादकत्वाद्वा? आद्ये पक्षे, प्रत्यक्ष क्षणक्षयस्वर्गप्रापणशक्याऽऽदावपि प्रमाणतामास्कन्देत द्वितीयपक्षोऽप्यक्षमः, संहृतसकलविकल्पाऽवस्थाभाविनीलाऽऽदिदर्शनानन्तरं नीलाऽऽदिरय - मित्यर्थोल्लेखशेखरस्यैव विकल्पस्य प्रायेणानुभवात्। यत्राऽपि नीलाssदिज्ञानं ममोत्पन्नमिति ज्ञानोल्लेखी विकल्पः, तत्राऽपि ज्ञानमात्रोल्लेखित्वादस्य तत्रैव दर्शनस्य प्रामाण्यं स्यात्, न तु तन्निर्विकल्पकत्ये। अपि च, विकल्पस्यापि कथं सिद्धिः? स्वसंवेदनप्रत्यक्षादिति चेत्। तस्याऽपि स्वरूपोपदर्शनमात्रात प्रामाण्ये तदेव दूषणम्। विकल्पान्तरोपजननात् पुनरनवस्था। तथा च-कथं स्वसंवदेनस्य प्रामाण्यसिद्धिः? यतस्तेन बाधा पक्षाशे स्यात्। अथ यन्न निर्विकल्पकं तन्नैव विकल्पेन सहोत्पद्यते, यथा-विकल्पो विकल्पान्तरेण, विकल्पेनाऽपि सहोत्पद्यते च प्रत्यक्षम्। न चेदं न निषेधसाधनं, गन्धर्वविकल्पदशायामपि गोसाक्षात्कारणाद्, अन्यथा समयान्तरे तत्रस्मरणानुत्पत्तिप्रसङ्गाद, इत्यनुमानबाधितः पक्षकदेश इति चेत्। तदपि कवलितं कालेन। कालान्तरे स्मरणसद्धावात् व्यवसायाऽऽत्मकस्यैव प्रत्यक्षस्य प्रसिद्धेनिर्विकल्पकस्य संस्कारकारणत्वविरोधात्, क्षणिकत्वाऽऽदिवत्। अथाऽभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि प्रत्यक्षाद्, गवादौ संस्कारःस्मरणं च समगस्त / ननु क्षणक्षयाऽऽदौ, तदभावादिति चेत्। तदप्यल्पीयः। भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयाऽऽदावक्षोदीयसः सद्भावात्, पुनः पुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यक्षसिद्धत्वात्, तत्रैव विवादात् / क्षणभिदेलिमभावाभिधानवेलायां क्षणिकप्रकरणस्याऽपि भावात् / बुद्धिपाटवस्य क्षणिकत्वाऽऽदो नीलाऽऽदौ च समानत्वाद, तत्प्रत्यक्षस्य निरंशत्वेन कक्षीकाराद्, अन्यथा विरुद्धधर्माध्यासेन तस्य भेदाऽऽपत्तेः / अर्थित्वस्याऽपि जिज्ञासितत्वलक्षणस्य क्षणिकवादिनः क्षणिकत्वे सुतरां सद्भावान्नीलाऽऽदिवत् / अभिलषितत्वरूपस्य तु तस्य व्यवसायजननं प्रत्यनिमित्तत्वाद्, अनभिलषितेऽपि वस्तुनि कस्यापि व्यवसायसम्भवात्। ततो नानंशवस्तुवादिनः क्वचिदेव स्मरण समगस्त। तथाच-यद्व्यवसायशून्यं ज्ञानं न तत् स्मृतिहेतुः, यथा क्षणिकत्वाऽऽदिदर्शनं, तथा चाऽश्ववि-कल्पकाले गोदर्शनमिति प्रसङ्गः, तथा च तत् स्मृतिहेतुर्न स्यात्, भवति च पुनर्विकल्पयतस्तदनुस्मरण, तस्मात्तद्व्यवसायाऽऽत्मकमिति प्रसङ्ग विपर्ययः / एवं च स्मरणात्तस्य व्यवसायाऽऽत्मकस्यैव सिद्धेर्व्यवसायस्य च व्यवसायान्तरेण समानकालत्वाभावाद्विकल्पनाऽपि सहोत्पद्यमानत्वादिति हेतुरसिद्धिबन्धकीसम्बन्धबाधित इति सिद्धम् / अथ न व्यवसायस्वभावत्वेन समारोपपरिपन्थित्वप्रमाणत्वहेत्वोयाप्तिरूपाऽपादि, तदभावेऽपि व्यवसायजनकत्वमात्रेण तयोः क्वचिद्भावाविरोधात् / अनुमानं हि व्यवसायस्वभावं सत्समारोपपरि- | पन्थि, प्रमाण च, प्रत्यक्ष तु व्यवसायजनकमिति को विरोधः? इति चेत्, इह तावत् प्रमाणत्वहेतोाप्तिरुपदर्श्यतेप्रमाणं खल्वविसंवादकमवादिषुः सौगाताः, अविसंवावदकत्वं चाऽर्थप्रापकत्वेन व्याप्तम्, अर्थाप्रापकस्याविसंवादित्वाभावात् निर्विषयज्ञानवत्, तदपि प्रवर्तकत्वं न व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात्,तद्वदेवातदपि विषयोपदर्शनकत्वेन व्यानशे, स्वविषयमुपदर्शयतः प्रवर्तकत्वव्यवहारविषयत्वसिद्धेः, न हि पुरुष हस्ते गृहीत्वा ज्ञानं प्रवर्त्तयति, स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यतेऽर्थप्रापकं चेति। तत्रेदं चर्च्यते-किं दर्शनस्य व्यवसायोत्पत्तौ सत्यां विषयोपदर्शकत्वं संजायेत?, समुत्पन्नमात्रस्यैव वा संभवेत् ? प्राचिकविकल्पे, विकल्पकाले दर्शनस्यैव विनाशात् क्व नाम विषयोपदर्शकत्वं व्यवतिष्ठेत् ? द्वितीयकल्पनायां पुनः किमनेन कृतक्षौरनक्षत्रपरीक्षाप्रायेण पश्चात् प्रोल्लसता नीलाऽऽदिविकल्पेनापेक्षितेन कर्त्तव्यं ?, तमन्तरेणाऽपि विषयोपदर्शकत्वस्य सिद्धत्वात्। तथा च- "यत्रैव जनयेदेना, तत्रैवास्य प्रमाणता।" इति राद्धान्तविरोधः, व्यवसायं विनैव विषयोपदर्शकत्वसद्भावे प्रामाण्यस्यापितं विनैव भावात्, तन्मात्रनिमित्तत्वात्तस्य। कथं चैवं क्षणक्षयस्वर्गप्रापणशक्त्यादावपि दर्शनस्य विषयोपदर्शकत्वं न प्रसज्यते ? अथाध्यवसानपर्यवसानोव्यापारो दर्शनस्य, इत्यध्यवसायव्यापारावत एवाऽस्य विषयोपदर्शकत्वमवतिष्ठते, न पुनस्तमन्तरेणेति चेत् तदप्यल्पम्, निर्विकल्पककार्यत्वेन व्यवसायस्य ततो भिन्नकालत्वात्तेन तस्य व्यापारवत्त्वानुपपत्तेः / अस्तु वैतत्, तथाऽपि तद्व्यापारभूतोऽसौ व्यवसायो दर्शनगोचरस्योपदर्शकः, अनुपदर्शको वा स्यात्? यधुपदर्शकः,तदा स एव तत्र प्रवर्तकः, प्रापकश्च स्यात्, ततोऽपि संवादकत्वात्प्रमाणं, न पुनस्तत्कारणीभूयमाभेजानंदर्शनम्। अथानुपदर्शकः, कथं दर्शन, तज्जननात् स्वविषयोपदर्शकम्, अतिप्रसङ्गात्संशयविपर्ययकारणस्याऽपि तस्य स्वविषयोपदर्शकत्वाऽऽपत्तेः / दर्शनविषयसामान्यव्यवसायित्वाद्विकल्पस्य तज्जनकं दर्शन स्वविषयोपदर्शक, नेतरदितिचेत्, तदशस्यम्, दर्शनविषयसामान्यापोहलणस्यावस्तुत्वात्, तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात्। अथदृश्यविकल्प्ययोरेकीकरणाद् वस्तूपदर्शक एव व्यवसाय इति चेत्, नन्चेकीकरणमेकरूपताऽऽपादनम्, एकत्वाध्यवसायो वा? प्राचि पक्षेऽन्यतरस्यैव स तत्त्वं स्यात् / द्वितीये तु उपचरितमेवानयोरक्यम्, तथा च कथमेष व्यवसायो विषयोपदर्शकः स्यात्? न हि षण्डः कुण्डोध्नीत्वेनोपचरितोऽपि पयसा पात्रीं पूरयति। किं च-तदेकत्वाध्यवसायो दर्शनेन विकल्पेन, ज्ञानान्तरेण वा भवेत् ? नाऽऽद्येन, दर्शनश्रोत्रियस्याध्यवसायश्वपाकसंस्पर्शसंभवात्, न च तस्य विकल्प्यं विषयतामेति। न द्वितीयेन, विकल्पकौणस्य दृश्यदाशरथि गोचरयितुमपर्याप्तत्वात् / नापि तृतीयेन, निर्विकल्पकसविकल्पकविकल्पयुगलातिक्रमेण दृश्यविकल्प्यद्वयविषयत्वविरोधात्। नचतदुभयागोचरं ज्ञानंतदुभयैक्वमाकलयितु कौशलमालम्बते। तथाहियद्यन्न गोचरयति न तत्तदैक्यमाकलयितु कुशलम्, यथा-कलशज्ञान वृक्षत्वशिशपात्वयोः, तथा प्रकृतिमिति। तन्न व्यवसायजननात्प्रत्यक्षस्य प्रामाण्यमुपपादकम् / कथं चैतत् क्षणक्षयस्वर्गप्रापणशक्त्यादाव