________________ पमाण 451 - अभिधानराजेन्द्रः - भाग 5 पमाण व्या वर्तनाय व्यवसायपदोपादानमर्थवत् असन् धर्मः प्रतिभाति तदाऽत्रापि वक्तव्यं, किमसौ स्थाणुत्वपुरुषत्वयोरन्यतरः, उभयं वा? यदि स्थाणुत्वलक्षणो वस्तु सत्कथमस्य ज्ञानस्य व्यवच्छेद्यता, सम्यग् ज्ञानत्वादिति / अथाऽपारमार्थिकोऽसौ तत्र प्रतिभाति, तथाप्यव्यभिचारिपदापोह्यतैव, मिथ्याज्ञानत्वात्। एवं पुरुषलक्षणप्रतिभासेऽप्येतदेव दूषणं वाच्यम् / उभयस्याऽपि तात्त्विकस्य प्रतिभासेन तत्ज्ञानस्य सन्देहरूपतेति नाऽपोह्यता, उभयस्याप्यतात्विकस्य प्रतिभासे तद्विषयज्ञानस्य विपयर्यरूपता न संदेहाऽत्मकतेत्यव्यभिचारिपदापोह्यतैव / अथैकस्य धर्मस्य तात्त्विकत्वमपरस्यतत्त्विकत्वमेवमपि तात्त्विकधर्मावभासित्वात्तत्ज्ञानमव्यभिचारितात्त्विकधर्मावभासि - त्वाच्च तदेव व्यभिचारीति एकमेव ज्ञानं प्रमाणमप्रमाणप्रसक्तम् / न च संदिग्धाऽऽकारप्रतिभासित्वात् सन्देहज्ञानमिति वाच्यम्, यतो यदि संदिग्धाऽऽकारता परमार्थतोऽर्थे विद्यते, तथा बाधितार्थगृहीतरूपत्वान्न सन्देहज्ञानता, सत्यार्थज्ञानवत्। अथ न विद्यते तदा अव्यभिचारिपदेन तद्ग्रहिज्ञानस्यापोदितत्वद्व्यवसायग्रहणं तद्व्यवच्छेदायोपादीयमानं निरर्थकम् / अथ न किञ्चिदपि तत्र प्रतिभाति, न तर्हि तस्येन्द्रियार्थसन्निकर्षजत्वमिति, न तद्व्यवच्छेदाय व्यवसायाऽऽत्मकपदोपादानमथवत्। तन्न। तदपि प्रत्यक्षलक्षणे उपादेयम् / यदपि स्वफलस्वरूपसामग्रीविशेषणत्वेनासम्भवात् नेदं लक्षणमिति। तदयुक्तमेवाभिहितम् / अस्य पक्षत्रयेऽप्यघटमानत्वात्। यदपि यत इत्यध्याहारात्फलविशेषणपक्षाऽऽश्रयणम्। तदप्यसङ्गतम् यतोऽपरिच्छेदसवरूपस्याध्यक्षप्रमाणताविशिष्टप्रमितिजनकं तत्कृत्यप्रत्यक्षमिति विशेषणात् प्रमातृप्रमेयव्यतिरिक्तस्य प्रमाणतासन्निकर्षाऽऽदिप्रमाणत्वाभिमतव्यतिरिक्तस्य तजनकस्य प्रमाणतेत्यपि वक्तुं शक्यत्वात्। न च सामग्यस्य सन्निकर्षस्य वा साधकतमत्वात् प्रमाणता,साधकतमत्वस्य प्रमाणसामान्यलक्षणप्रस्तावे निरस्तत्वात्। यदपीन्द्रियाऽऽदेरचेतनस्यं प्रमाणत्वं प्रतिपादितम्। तदप्यतिप्रसङ्गतोऽघटमानकम् / यदि ज्ञानसद्भावेन काचित्तजन्या विषयाधिगतिः, अक्षाऽऽदिसद्भावे तु विषयाऽधिगतिभिन्नोपजाय ते इत्यक्षाऽऽदेरेवाधिगतिजनकस्य प्रमाणतेति / तदप्यसमीक्षि ताभिधानम्। ज्ञानस्यैव यथास्थि तार्थाधिगतिस्वभावतया प्रमाणत्वात्, परिणामफलाभेदाविरोधस्य च प्रतिपादितत्वात्, प्रत्यक्षाऽऽदिसद्भाये तु विषयाधिगतेरसिद्धत्वात् / तथाहि-व्यापारवदक्षाऽदिसद्भावेऽपि व्यासक्तचेतसो न विषयाधिगतिः / सत्यस्वप्नज्ञाने त्वक्षाऽऽदिव्यापाराभावेऽपि यथावस्थिताधिगतिरुपलभ्यत इति न साऽक्षाऽऽदिकार्या, नचासावभिमतः, अक्षकार्यापरपरिकल्पितमनोऽक्षस्य प्रागेव निषिद्धत्वात्। अत एव चक्षुषाऽधिगतमिति तस्य साधकतमत्वाभिमानो न साधकतमताव्यवस्थापकः तदभावेऽपि विषयाधिगतिसद्भावात्। ज्ञानेनाधिगत इत्यभि- | मानस्तु ज्ञानस्य साधकतमताव्यवस्थापक एव, ज्ञानाभावे तदधिगतेरभावात्, परम्परयातूपचरितमाधिगतौ साधकतमत्वमक्षाऽदेर्न प्रतिषिध्यते, अस्मदादिप्रत्यक्षस्य साक्षात्स्वार्थाधिगतिस्वभावस्याक्षाऽऽदिप्रभवत्वात् तदिन्द्रियानिन्द्रियनिमित्तमितिवचनात्। एतेन प्रातिभस्यानक्षप्रभवस्याऽपि स्वार्थावगतिरूपस्य विशदतयाऽध्यक्षप्रमाणता प्रतिपादिता द्रष्टव्या / तेन यन्नेत्रेन्द्रियार्थसन्निकर्षजत्वाभावप्रतिपादनेन मीमांसकैःदूषणमभ्यधायि, यच नैयायिकैर्मनोऽक्षार्थजत्वसमर्थनेनोत्तरं प्रतिपादितम् / तदुभयमप्ययुक्ततया व्यवस्थिते। शेषं त्वत्र यथास्थानं प्रतिविहितत्वान्न तत्प्रत्युचार्य दूष्यते। तन्नैकान्तवादिप्रकल्पितमध्यक्षलक्षणमनवद्यम् / किं पुनस्तदनवद्यम्। ''स्वार्थसंवेदनं स्पष्टमध्यक्ष मुख्यगौणतः।" इत्येतत्। अत्र च मुनीन्द्रियज्ञानमशेषविशेषाऽऽलम्बनमध्यक्षसर्वज्ञसिद्धौ प्रतिपादितम्, गौणं तु संव्यवहारनिमित्तमसर्वपर्यायद्रव्यविषयमिन्द्रियानिन्द्रियप्रभवमस्मदाऽऽद्यध्यक्ष विज्ञानमुच्यते। अस्य च स्वयोग्योऽर्थः स्वार्थः, तस्य संवेदनं विशदतया निर्णयस्वरूपं, तेन संशयविपर्ययानध्यवसायलक्षणस्याज्ञानस्य संव्यवहारानिमित्तस्य नाध्यक्षताप्रसक्तिः नाऽप्यज्ञानरूपस्येन्द्रियाऽऽदेरविकल्पजाऽसौ, परिकल्पितस्येन्द्रियजमानसयोगिज्ञानस्वसंवेदनरूपस्य स्वं चार्थश्च स्वार्थी, तयोः संवेदन स्वार्थसंवेदनमित्यस्यापि समासाऽऽश्रयणादर्थसंवेदनस्यैव जैमिनीयवैशेषिकाऽऽदिपरिकल्पितस्य परोक्षस्य तदेकार्थसमवेतानन्तरज्ञानग्राह्यस्यास्वसंविदितस्वभावस्याध्यक्षताव्युदासः / विज्ञानवादिपरिकल्पितस्य च स्वरूपमात्रग्राहकस्य प्रमाणप्रमेयस्वरूपस्य च सकलस्य क्रमाक्रमभावयनेकधर्माऽऽक्रान्तस्यैकरूपस्य वस्तुनः सद्भावेऽध्यक्षप्रमाणस्यैकस्य क्रमवर्तिपर्यायवशात्तथाव्यपदेशमासादयतश्चातुर्विध्यमवग्रहेहावायधारणरूपतयोपपन्नम् / तत्र विषयविषयिसंनिपातानन्तरमाद्यं ग्रहणमवग्रहः / विषयस्य द्रव्यपर्यायाऽऽत्मनोऽर्थस्य विषयिणश्च निवृत्त्युकरणलक्षणस्य द्रव्येन्द्रियस्यलब्ध्युपयोगस्वभावस्य भावेन्द्रियस्य विशिष्टपुद्गलपरिणतिरूपस्यार्थग्रहणयोग्यतास्वभावस्य च यथा-क्रमं सन्निपातो योग्यदेशावस्थानं, तदनन्तरोद्भूतं सत्तामात्रदर्शनस्वभावं दर्शनमुत्तरपरिणामं स्वविषयव्यवस्थापनविकल्परूपं प्रतिपाद्यम् अवग्रहः पुनरवगृहीतविषयाकाङ्क्षणम् / ईहा तदनन्तरं तदीहितविशेषनिर्णयः / वायोऽचेतनविषयस्मृतिहेतुः। तदन्तरधारणा अत्र च पूर्वपूर्वस्य प्रमाणता; उत्तरोत्तरस्य प्रमाणफलतेत्येकस्यापि मतिज्ञानस्य चातुर्विध्यम्, कथञ्चित्प्रमाणभेदश्चोपपन्नः। सम्म० 2 काण्ड। (5) निर्विकल्पकज्ञानप्रामाण्यवादिनः प्रतिपादनम्। अथव्यवसायीति विशेषणसमर्थनार्थमाहुःतव्यवसायस्वभावं,समारोपपरिपन्थित्वात, प्रमाणत्वादा।६। तत्प्रमाणत्वेन संमतं ज्ञानं, व्यवसायस्वभावं निश्चयाऽऽत्मकमित्यर्थः, समारोपः संशयविपर्ययानध्यवसायस्वरूपोऽनन्तरमेव निरूपयिष्यमाणः, तत्परिपन्थित्वं तद्विरुद्धत्वं, यथाऽवस्थितवस्तुग्राहकत्वमिति यावत्। प्रमाणत्वाद्वा तत्तथाविधं, वाशब्दो विकल्पार्थः, तेन प्रत्येकमेवामू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभावत्वसिद्धौ समर्थावित्यर्थः / प्रयोगौतु-प्रमाणत्वाभिमतं ज्ञानं व्यवसायस्वभावं, समारोपपरिपन्थित्वात, प्रमाणत्वाद्वा, यत् पुनर्नवं नतदेव, यथा-घटः, प्रोक्तसाधनद्वयाधिकरणं चेदं, तस्माद् व्यवसायस्वभावमिति। अत्रैकदेशेन पक्षस्य प्रत्यक्षप्रतिक्षेपमाचक्षते भिक्षवः। तथाहि-संहृतसकलविकल्पावस्थायां नीलाऽऽदिदर्शनस्य व्यवसायवन्ध्यस्यैवानुभवात् पक्षीकृतप्रमाणैकदेशस्य प्रत्यक्षस्य व्यवसायस्वभावत्वसाधनमसाधीयः। तदसाधिष्ठम्। यतः केन प्रत्यक्षेण तादृक्षस्यतस्यानुभवोऽभिधीयते ? ऐन्द्रियेण,