SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ पमाण 450 - अभिधानराजेन्द्रः - भाग 5 पमाण पारमार्थिकोदकतादात्म्ये मरीचीनां तदुदकज्ञानवत् मरीचिज्ञा-नमपि वितथं भवेत्। न च उदकाऽऽकार एकस्मिन् प्रतीयमाने मरीचयःप्रतीयन्त इति वक्तुं शक्यम्। अतिप्रसङ्गात् / अथ व्यतिरिक्ता ताभ्य उदकाऽऽकारता, तर्हि तत्प्रतिपत्तौ कथं मरीचयः प्रतिभान्ति, अन्यप्रतिभासेऽप्यन्यप्रतिभासाभ्युपगमेऽतिप्रसङ्गात् / किञ्च-केशोन्दुकज्ञाने किमालम्बनं, किं वा प्रतिभातीति वक्तव्यम्। अथ केशोन्दुकाऽऽदिकमेवाऽऽलम्बनं, प्रतिभाति च तदेव तत्र, तर्हि मरीच्युदकज्ञानेऽपि तदेवाऽऽलम्बनं, तदेव प्रति-भातीति किं न भवेत् / न च तद्द्वानस्य प्रतीयमानाभ्यालम्बनत्वे मिथ्यात्वम्, अपितु प्रतिभासमानस्यासत्यत्वेन, अन्यथा केशोन्दुकज्ञानस्य मिथ्यात्वं न भवेत्,न मरीचिदेशं प्रति प्रवृत्तिः, मरीचिव्यालम्बनत्वं तद्देशस्यैवमालम्बनत्यप्रसक्तेः / न च प्रतिभासमानान्यार्थसन्निकर्षजत्वं तत्ज्ञानस्य सत्योदकज्ञाने अस्यादृष्टः न वा प्रतीयमानसन्निकर्षजत्वस्य तस्य तज्जत्वमभ्युपगन्तुं युक्तम्, अन्यथाऽनुमेयदहनज्ञानस्याऽपीन्द्रियार्थसन्निकर्षजत्वं स्यात्। अथ मन एव तत्रेन्द्रियं, तस्य च दहनेन सह प्रतीयमानेन नास्ति सम्बन्धः, इहापि तर्हि प्रतीयमानेनोदकेन न सम्बन्धः, चक्षुषो मरीचीनां तुन प्रतीयमानत्वमितिताभिरपि कथं तस्य सम्बन्धः? यच सामान्योपक्रम विशेषपर्यवसानमिदमुदकमित्येकं ज्ञानं तस्य सामान्यवानर्थः स्मृत्युपस्थापितविशेषापेक्षो जनकः तिरस्कृतस्वाऽऽकारस्य परिगृहीताऽऽकारान्तरस्य सामान्यविशिष्टस्य वस्तुनो जनकत्वे तथाविधस्येन्द्रियेण सम्बन्धोपपतेः / इन्द्रियार्थसन्निकर्षजो विपर्यय इति तदन्यतरसम्बद्धं, पराभ्युपगमेनास्याऽनुपपत्तेः / तथाहि-सामान्योपक्रममिति यदि सामान्यविषयमिति ज्ञानं तथा मरीच्युदकयोः साधारणमेकं सामान्यमिदमिति ज्ञानस्य विषयो वक्तव्यः। न चैकान्ततो व्यतिभिन्नमभिन्नं वा सामान्यं संभवति, सम्भवेऽपि सत्यद्रव्यत्वव्यतिरिक्तस्य मरीच्युदकसाधारणस्य तस्य न सद्भावः, सत्यद्रव्यत्वाऽऽदेश्च ज्वलनाऽऽदावपि सद्भाव इतिन मरीच्युदकसाधारणत्वम् तातरङ्गायमाणत्वं भयसाधारणं सामान्यं पराभ्युपगमेन न संभवत्येव, सत्त्वेऽपि न तस्य तदुभयनियतत्वम्, अन्यत्राऽपि सद्भावोपपत्तेः / विशेषपर्यवसानमित्येतदपि यदि विशेषग्राहिक तदा सामान्यग्राहकानुपपत्तिः। न हीदमित्येतस्य ज्ञानस्य विशेषग्राहिताऽनुभूयते, नन्वेवं सामान्यविषयो भिन्न-स्वरूपत्वात् कथं सामान्यग्राहिता अस्य। अथोदकमिति ज्ञानविशेषग्राहि, तर्हि भिन्नावभासमिदमुदकमिति ज्ञानद्वयं प्रसक्तं, प्रतिभासभेदस्याऽन्यत्रापि भेदनिबन्धनत्वात्, तस्य चाऽत्रापि भावात, ज्ञानद्वये भेदमिति सामान्यावभासि सत्यार्थविषयं सन्निकर्षप्रभवम्, उदकमिति त्वविद्यमानविशेषावभासि न तत्सन्निकर्षप्रभवं, यदसत्यार्थ न तद् व्यभिचारिपदोपादानव्यवच्छेद्यं युक्तसन्निकर्पोत्पन्नपदेनैवापोहितत्वात्। यच्च सन्निकर्षजं सामान्यज्ञानं तद्व्यभिचारिन भवतीति नाव्यभिचारिपदव्यवच्छेद्यम्। अथैवमुदकमित्युल्लेखद्वययुक्तमेकज्ञानं, तर्हि सामान्ये तत्प्रत्यक्ष प्रमाणं च विशेषे अनध्यक्षमप्रमाणं चेति कथमेकं ज्ञानमध्यज्ञानध्यक्षरूपं प्रमाणाऽप्रमाणरूपं च नाभ्युपगतं भवेत् / अथ सामान्येऽप्यध्यक्ष प्रमाणं चेदमभ्युपम्यते, तहीन्द्रियार्थसन्निकर्षजत्वाभावादस्य नाऽव्यभिचारिपदापोद्यता विशेषे ऽप्यस्य प्रामाण्येऽध्यक्षत्वे वाऽव्यभिचारिपदमपार्थकम्। अपोह्याभावात्। यदि च-सामान्यवानर्थः स्मृत्युपस्थापितविशेषापेक्षोऽस्य जनकः कथमस्य विपर्ययस्तता, विद्यमानविशेषविषयत्वात्। अथ स्मृत्युपस्थापितत्वाद्विशेषस्य, अविद्यमानविशेषत्वे विषयतया तस्य विपर्यस्तता, न तु तत्राऽविद्यमानः समृत्युपस्थापितो विशेषः कथं तज्जनको, येन सामान्यवानर्थस्तदपेक्षस्तजनकः परिगीयेत, तथाऽपि तजनकत्वे इन्द्रियस्य स्वदेशकालासन्निहितार्थापेक्षस्य ज्ञानजनकत्वादर्थेन सन्निकर्षकल्पनात् तस्य प्रमाणस्य चार्थवत्त्वकल्पना विशीर्येत / तथा चेन्द्रियार्थसन्निकर्षोत्पन्नमित्यर्थवत्प्रमाणमितिचन वक्तव्यं स्यात्। अथ जनकस्य तत्र न प्रतिभास इति स्मृत्युपस्थापितस्य तस्य न जनकता , ती विद्यमानस्य न जनकत्वमिति विद्यमानविशेषविषयत्वेन तत्ज्ञानस्याऽपि पर्यस्तत्वे तद्व्यवच्छेदार्थमव्यभिचारिपदोपादानमनर्थकं भवेत्। सामान्यवतोऽर्थस्य केवलस्य तज्जनकत्वे तस्यैव तत्र प्रतिभासः स्यात्। यदपि तिरस्कृतस्वाऽऽकारस्य परिगृहीताऽऽकारान्तरस्य तस्य तज्जनकत्वं तत्राऽपि वस्तुनः स्वाऽऽकारतिरस्कारे वस्तुत्वमेव न स्यादिति कथं तस्य सामान्यविशिष्टता / तथाहि-मरीचीनां मरीच्याकारतापरित्यागे वस्तुत्वमेव परित्यक्तं भवेत्, स्वाऽऽकारलक्षणत्वाद्वस्तुनः / न चाऽऽकारान्तरस्य परिग्रहः सम्भवति, वस्त्वन्तरस्य वस्त्वन्तराऽऽपत्तिरूपत्वात्। तदा-पत्तिरूपत्वे वा मरीचय उदकरूपतामापन्ना इति तत्प्रतिभासज्ञानं सत्योदकज्ञानवदविपर्यस्तमिति तद्व्यवच्छेदार्थमव्यभिचारिपदोपादानं कार्य भवेत्, सामान्यविशिष्टस्य च वस्तुन इन्द्रियसंबद्धविपर्ययज्ञानजनकत्वे यत्रांशे तस्येन्द्रियसम्बन्धोत्पाद्यत्वं तत्राध्यक्षता प्रमाणता चान्यत्र तद्विपर्यय इत्येकज्ञानमध्यक्ष प्रमाणं, तद्विपर्ययरूपं च भवेदित्युक्तम् / यदपि यत्सन्निधाने यो दृष्ट इत्यादि। तदप्ययुक्तम् / शब्दावच्छेदेनोदकमिति ज्ञानस्यानुत्पत्तेः / न युदकवच्छेषोऽप्यत्र ज्ञाने विशेषणभूतो ग्राह्यतया प्रतिभाति, तथा प्रतीतेरभावात्। शब्दविशिष्टोदकप्रतिभासाभ्युपगमेऽपि यदि शब्दस्मरणाद्यन्तरेण नार्थनिश्चयस्तदाऽनस्थादोषप्रतिपादनात् न तद्ध्वनिस्मृतिभवेत् / अथ शब्दस्मरणाऽऽद्यन्तरेणाऽऽप्युयदकाऽऽदेर्निश्चयस्तदाजैनमतानुप्रवेशान्नदोषासक्तिः काचित् / एवं संशयज्ञानव्यवच्छेदार्थ व्यवसायाऽऽत्मकपदोपादानमपि न कर्त्तव्यम्-इन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव तस्यापि निरस्तत्वात्। न हि पराभ्युपगमने स्थाणुर्वा पुरुषो वेति संशयज्ञानमेकमुभयोल्लेखीन्द्रियार्थसन्निकर्षजसम्भवति, असम्भवप्रकारश्च पूर्ववदनुस्मृत्या त्रापि वक्तव्यः, सविकल्पकाध्यक्षप्रसाधनप्रकारश्चैकान्ताक्षणिकपक्षे न सम्भवत्येव / यः प्राग् जनको बुद्धरित्यादेर्दूषणस्य तत्राविचलितस्वरूपत्वात्। यथा वा क्षणिकैकान्तेसहकार्यपेक्षान सम्भवति भावानां, तथा प्राक् प्रतिपादितमितिन पुनरुच्यते यदपि संशयज्ञानव्यवच्छेदार्थ व्यवसायाऽऽत्मकपदमित्यभिधानम्, तत्र सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्व किंस्विदित्यनवधारणाऽऽत्मकः प्रत्ययसन्देहो व्यवच्छेद्यतयाऽभिमतः / तत्र च किं प्रतिभातिधर्मिमात्रं, धर्मो वा? यदि धर्मी वस्तु सन् प्रतिभाति, तदा नास्यापनेयता, सम्यग् ज्ञानत्वात् / अथावस्तु सन् सर्वत्र प्रतिभाति, तदाऽव्यभिचारिपदव्यावर्तितत्वान्न त
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy