________________ पमाण 446 - अभिधानराजेन्द्रः - भाग 5 पमाण न्यत्र प्राप्तावव्यभिचारिता / अन्यथा मरीचिकाजलप्रतिभासे दैवात् सत्यजलप्राप्तौ तदवभासिनस्तस्याव्यभिचारिता भवेत्। न च तद्देशजलप्रापकस्याव्यभिचारितेति नायं दोषः, यतो देशस्यापि भास्करकरानुप्रवेशाऽऽदिनाडवयवक्रियाक्रमेण नाशात् तत्त्वानुपपत्तिः, न चैवं व्यभिचारवादिनः चन्द्रार्काऽऽदिज्ञानं विनाऽस्य तदवस्थपदार्थोत्पादित - त्वात्तदव्यभिचारिभवेत्। अथ प्रतिभातोदकसामान्यतदव्यभिचारीति पक्षः / सोऽप्ययुक्तः। एकान्ततो व्यक्तितो भिन्नस्य वा सामान्यस्यासत्त्वेन प्रतिभासप्राप्त्यालम्बनत्यायोगात्; सत्त्वेऽपि तस्य नित्यतया रवप्रतिभासज्ञानजनकत्वायोगाद, अजनकस्य च परेण ज्ञानविषयत्वानभ्युपगमात्, ज्ञानविषयत्वेन तस्य पानावगाहनाऽऽद्यर्थक्रियानिवर्तकत्वान्नार्थक्रियार्थिनां तद्ज्ञानात् जलाऽऽधुपादानार्था प्रवृत्तिर्भवत्। न च समवायात्सामान्यावगमेऽपि व्यक्ता व्यक्त्यर्थज्ञानार्थिनां प्रवृत्तिः, अन्यप्रतिभासे अन्यत्र प्रवृत्तियोगात, योगे वाऽतिप्रवृत्त्ययोगात्, योगे वाऽतिप्रसङ्गात् / न च समवायस्यातिसूक्ष्मतया जातिव्यक्त्योरेकलोलीभावेन जातिप्रतिपत्तावपि भ्रान्त्या व्यक्तौ प्रवृत्तिः,तत्ज्ञानस्यातस्मिस्तद्ग्रहणरूपतया भ्रान्तिरूपत्वादव्यभिचारित्वायोगात् / न च समवायेऽपि जातेय॑क्तौ सम्भवति, संभवेऽपि तस्य व्यापितया सर्वत्र कस्य प्रतिनियतव्यक्तिनिमित्तत्वानुपपत्तिः / न च नित्यस्य तस्य ज्ञानजनकत्वमपि संभवीति स्वग्राहिणि ज्ञाने अप्रतिभासमानस्य कथं भ्रान्तिहेतुताऽपि तस्य संभवति, प्रतिभासनेऽपि स्वरूपेण प्रतिभासनात् कथं भ्रान्तिनिमित्तता? नच सामान्यस्य प्रतिपत्तौ सामान्यसाध्यार्थक्रियार्थितया तदर्थिनां प्रवृत्तिः, ज्ञानाभिधानलक्षणायास्तदर्थक्रियायास्तदैव निष्पत्तेः व्यापकत्वाच सामान्यस्य न प्रतिनियतदेशकालप्रवृत्तिविषयतेति प्रवृत्त्यभावात् तत्- सामर्थ्य तदभावात् न तदवभासिनो ज्ञानस्याऽव्यभिचारिताऽवगति / अथ प्रतिभाततद्वदर्थप्राप्त्या तदव्यभिचारित्वमिति पक्षः, सोऽप्यसंगतः / अवयविसामान्ययोरभावे तद्वत् पक्षस्य दूरापास्तत्वात् / अथ प्रतिभातार्थप्राप्त्या व्यभिचारिता, न अवयवानामपिट्यणुकंयावदवयवित्वात् परमाणूनां चार्वाग्दर्शने अप्रतिभासनान्न कथं चित्प्रतिभातार्थप्राप्त्या ज्ञानस्याव्यभिचारितासम्भवः। किं च-प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य किं लिङ्गभूतेन ज्ञायते, उपाध्यक्षरूपेण? यद्याद्यः पक्षः, स न युक्तः / तेन सह संबन्धानवगतेः, अवगतौ वा न प्रवृत्तिसामर्थ्येन प्रयोजनम्। अथ द्वितीयः, सोऽपि न युक्तः।ध्वस्तेन पूर्वज्ञानेन सह इन्द्रियस्य सन्निकर्षाभावात्तद्विषयज्ञानस्याध्यक्षफलतानुपपतेः केशोन्दुकाऽऽदिज्ञानवत्तस्य निरालम्बनत्वाच्च कथमव्यभिचारिताव्यवस्थापकत्वम् / न चाविद्यमानस्य कथञ्चिदविषयभावःसम्भवति, जनकत्वाकारार्थकत्महत्त्वाऽऽ- 1 दिधर्मोपेतत्वसहोत्पादसत्वं पात्राऽऽदीनां विषयहेतुत्वेन परिकल्पितानामसति सर्वेषामभावात्। अथात्माऽन्तःकरणसम्बधिनं व्यभिचारिताविशिष्ट ज्ञानमुत्पन्नं गृह्यत इति तदव्यभिचारताऽवगमः। नन्यत्राप्यव्यभिचारित्वं किं ज्ञानधर्म उत तत्स्वरूपम्? यदि तद्धर्मस्तदा न नित्यसामान्यनिरूपणेनापादितत्वात्, अनित्योऽपि यदि ज्ञानात् प्रागुत्पन्नस्तदा च तद्धर्मों, धर्मिणमन्तरेण तस्य तद्धर्मत्वात् सङ्गोत्पादेऽपि तादात्म्यात्तदुत्पत्तिसमवायाऽऽदिसंबन्धाभावे तस्य धर्म इति व्यपदेशा नुपपत्तिः / पञ्चादुत्पादे पूर्व व्यभिचारि तद् ज्ञानं स्यात् / किं वा व्यभिचारिताऽऽदिको धर्मोज्ञानाद्व्यतिरिक्तोऽव्यतिरिक्तो वा ? यदि व्यतिरिक्तस्तदा तस्य ज्ञानेन सह सन्बम्धो वाच्यः स न समवायलक्षणः, तस्याऽसिद्धेः सिद्धावपि ज्ञानस्य धर्मतया अव्यभिचारिताऽऽदिधर्माधिकरणयोगात् धर्माणां धर्माधिकरणता त्विष्यत एव। अन्यथा ज्ञाने व्यभिचारीत्यादिव्यपदेशानुपपत्तिर्भवेत्, न ह्यव्यभिचारिताऽऽदीनामपि धर्माणां सत्त्वप्रमेयत्वज्ञेयत्वाऽऽधनेकधर्माधिकरणतया धर्मिरूपतैव प्रसवितरिति कस्यचिद्धर्मस्यापरधर्म स्यानधिकरणस्याभावात् धर्माभाविनो धर्मिणोऽप्यभावप्रसक्तिः। नाऽपि विशेषणविशेष्यभावलक्षणोऽसौ, तस्याप्यपरसंबन्धकल्पनया सम्बन्धित्वेऽनवस्थाप्रसक्तेः, असंबद्धत्वेतत्सम्बन्धा इति व्यपदेशानुपपत्तेः / नाऽप्यसावेकार्थसमवायः आत्मन्येवाव्यभिचारिताऽऽदयो धर्माऽर्थान्तरस्वरसप्रसक्तेः / न च समवायाभावे एकार्थसमवायः संभवी, न चान्यः सम्बन्धो न परैरभ्युपगम्यते। किञ्च-यदिअव्यभिचारिताऽऽदयो धर्मा अर्थान्तरभूता ज्ञानस्य विशेषणत्वे नो पेयन्ते, तदैकविशेषणावच्छिन्नज्ञानप्रतिपत्तिकाले परविशेषणावच्छिन्नस्य तस्य प्रतिपत्तिरित्यशेषविशेषणानवच्छिन्नं ततसामग्या वयवच्छेदकं भवेद्, अपरविशेषणावच्छिन्नतत्प्रतिपत्तिकाले ज्ञानस्य ज्ञानान्तरविरोधितया तस्याऽसत्त्वात्। अथ निर्विकल्पकयुगपदनेक विशेषणावच्छिन्नस्य तस्य प्रतिभासान्नायं दोषः, तर्हि व्यवसायाऽऽत्मकमिति पदमध्यक्षलक्षणेनोपादेयम्, अनिश्चयाऽऽत्मकस्याप्यध्यक्षफलत्वेनाऽभ्युपगमात् अथ विशेषजनितं व्यवसायाऽऽत्मकम्, नन्वेव सामान्यजनितं विशेषणं ज्ञानमध्यक्षफल न भवेत्, यदि वाऽनेकविशेषविच्छिन्नैकज्ञानाधिगतिरेकं ज्ञानं, कथमेकानेकरूपवस्तुनाऽभ्युपगतं भवेत्। अथाव्यतिरिक्तस्तर्हि ज्ञानमेव नाव्यभिचारिताऽऽदि, तदेव वा तदज्ञानमित्यन्यतरदिवसात्तत्सामग्रीव्यवच्छेदस्ततो भवेत। अथव्यभिचारिताऽऽदिज्ञानस्वरूपमेव, तदा विपर्ययज्ञानेऽप्यव्यभिचारिताप्रसक्तिः / अथ विशिष्ट ज्ञानमव्यभिचारिताऽऽदिस्वभावम् / ननु विशेषणमन्तरेण विशिष्टता कथमनुपपत्तिमती, विशेषणस्य चैकान्ततो भेदे सैव संबन्धासिद्धेरभेदेन विशिष्टता, कथञ्चित् भेदे परपक्षसिद्धिः। तन्नाध्यभिचारितापदोपादानमर्थवत् इतोऽप्यपार्थकम् इन्द्रिया-र्थसन्निकर्षपदेनैव तद्व्यवर्त्तस्यापोदितवत्, तथा मरीच्युदकज्ञानव्यवच्छेदायाव्यभिचारिपदोपादानं, तत्ज्ञाने च उदकं प्रतिभाति। नचनेन्द्रियसम्बन्धः अविद्यमानेन सह संबन्धानुपपत्तेः / विद्यमानत्वे वा न तद्विषयज्ञानस्य व्यभिचारिता, विद्यमानार्थज्ञानवत्। अथ प्रतिभासमानोदकसम्बन्धाभावेऽपि मरीचिभिः सम्बन्धादिन्द्रियस्य तत्सन्निकर्षप्रभवं तत् / अत एव मरीचीनां तदालम्बनत्वं, तस्य तदान्चयव्यतिरेकानुविधानात, तद्देशं प्रति प्रवृत्तेश्च, मिथ्यात्वमपि तत् ज्ञानस्योत्पादालम्बनमन्यत्प्रभातीति कृत्वा; नन्वप्रतिभासमानं कथमालम्बनम्। यदि ज्ञानजनकत्वादिन्द्रियाऽऽदेरप्यालम्बनत्वप्रसक्तेरव्यापकत्वम्, तदधिकरणत्वादिकं स्वालम्बनं त्वपरस्याभिमतम्, तस्मात्तदवभासित्वमेव आलम्बनत्वं च मरीच्युदकज्ञाने मरीचयः प्रतिभान्ति अथोदकाऽऽकारतया ता एव तत्र प्रतिभान्ति ननु तान्युदकाऽऽकारता यद्यव्यतिरिक्ता, परमार्थसती च तदा प्रतिपत्तेन व्यभिचारित्वम् / अथाऽपरमार्थसती, तदा तासामप्यपरमार्थसत्त्वप्रसक्तिः किं च