________________ पमाण 448 - अभिधानराजेन्द्रः - भाग 5 पमाण प्रकाशकत्वेन प्रतीयमानस्याप्राप्तार्थप्रकाशकत्वं तस्याध्यक्षबाधितम्, अग्नावनुष्णत्ववत् / अथ दूरे शब्दो निकटे शब्द इति प्रतीतेः प्राप्तार्थप्रकाशकं श्रोत्रमिष्यते, न सदेतत्, यतःसाकारज्ञानपक्षेऽनाकारज्ञानपक्षे वाऽयमभ्युपगम इति वाच्यम् / न तावत्प्रथमः पक्षः शब्दाऽऽकारस्य ज्ञानगतस्याज्ञानावभासे दूरनिकटव्यवहारानुपपत्तेः / अन्यथा स्वसंवेदनाऽऽकारेऽपि तत्प्रसक्तिर्भवेदिति सर्वत्राऽऽसन्नदूरव्यवहारे घटमाने व्यावर्त्यः कः स्यात् / आकाराऽऽधायकस्याऽऽसन्नाऽऽदित्वात् तद्व्यवहारस्तर्हि परपक्षेऽप्येतदुत्तरं समानं भवेदिति किं तत्प्रतिपेक्षः, सक्यं हि परिणामप्येवमभिधातुं, कर्णशष्कुल्यनुप्रविष्टस्य शब्दस्य ग्रहणेऽपि तत् प्रथमकारणस्य दूरत्वात् दूरव्यवहारो, विपर्ययाच्च विपर्यय इति। द्वितीयपक्षस्तु न युक्तः,सौगतस्यानभिमतत्वात् / अथ परापेक्षया प्राप्तार्थप्रकाशकं श्रोत्रमित्यभिधीयते दूराऽऽदिव्यवहारात् ते तद्विषये चक्षुर्वदिति नैवं परसिद्धनानुमानेन प्रमाणेतरसामान्यव्यवस्थाऽऽदेश्चार्वाकस्योत्पत्त्यनित्यत्वाऽऽदिनासुखाऽऽदेरचेतनत्वप्रसाधनं साड्ख्यस्य वा निषिद्धं भवेत्। बौद्धाभ्युपगतेनानुमानेनोत्पत्यादिना च तेनापि स्वाभिप्रेतसाध्य स्य साधयितुं शक्यत्वात् / यश्च वाताऽऽदेरागतस्य ग्रहणेऽपि दूराद्य व्यवहारं प्रतिपद्यते परः स कथं तत एव त्वदीयं साध्य प्रतिपद्येत। यदि च स्वोत्पत्तिदेशस्थ एव श्रोत्रेण गृह्येत नाऽऽगतस्तर्हि कथमनुवाते शब्दस्य तद्देशोत्पत्तिकस्यैव श्रवणं, शब्दाविनाशे अनुकूलवाते श्रवणं, मन्दवाते मनाक्श्रवणं भवेत् न च प्रतिकूलवाते शब्दस्य नाशितत्वात् श्रोत्रस्य वाऽभिहतत्वान्न श्रवणं, शब्दविनाशे अनुकूलवातस्थस्यापि तथा श्रवणप्रसक्तेः, शब्दस्य विनष्टत्वाद्यवहितदेशथस्य च तस्य श्रोत्राभिघातहेतुत्वानुपपत्तेः, अन्यथा भस्त्राऽऽदिव्यवस्थितस्यापि तस्य तदुपघातकत्वं स्यादनुकूलवातेन तस्य तत्प्रतिप्रेरणात्तेन तत् श्रवणे प्राप्तः शब्दः श्रूयत इति प्राप्त, तथाऽपि तत्र दूराऽऽदिव्यवहारे श्रोत्रमप्राप्तप्रकाशकमतः सिद्ध्यतीति कथं न व्यतिरेकी हेतुः न च चक्षुः शब्देन नायनरश्म्यभिधानादत्यासन्नप्रकाशकत्वाच तेषामऽत्यासन्नाप्रकाशकत्वादिति हेतुरसिद्धः तेषां प्रत्यक्षाऽऽदिप्रमाणाविषयत्वेन सद्भावासिद्धेरिति प्रतिपादनात् तदसिद्धताऽऽदिदोषवैकल्याच्च हेतोरप्राप्तार्थप्रकाशकत्वं चक्षुषः सिद्धमिति "रूपं पुण पासई अपुट्ट तु' इति न युक्तिविकलं वचः, तदेवमिन्द्रियार्थसन्निकर्षोत्पन्नत्वं प्रत्यक्षरयासिद्धम्। यदपि तत्त्वतः करणेन्द्रियसम्बन्धस्य सुखाऽऽदिज्ञानोत्पत्तावसम्भवेन तस्याव्यापकत्वादभिधानमिति। तदप्यसम्बद्धम् / यथाहीन्द्रियार्थसन्निकर्षों यथोक्तन्यायेन रूपिज्ञानोत्पत्तौ न संभवीति न प्रत्यक्षलक्षणं तथाऽन्तःकरणे न्द्रियसंबन्धोऽप्यन्तःकरणस्य परिकल्पितस्यासिद्धत्वात्तत्संबद्ध्यस्य दूरापास्तत्वात् / यथा चान्तःकरणस्यासिद्धिः तथा स्वनिर्णयं ज्ञानस्यसाधयद्भिः प्रदर्शितम्। यदप्यव्यभिचाराऽऽदिकार्यविशेषणोपादानमन्तरेण सन्निकर्षस्य साधुत्वं ज्ञातुं न शक्यत इति अभिधानं, तदप्यसङ्गतम् / परपक्षे अव्यभिचाराऽऽदिधर्मोपतस्य ज्ञानकार्यस्यैवासिद्धेः कथं ततः सन्निकर्षस्य साधुत्वावगमः, कार्यत्वानवगमश्च। स्वसंविदितत्वानभ्युपगमे ज्ञानान्तरप्रत्यक्षतायामनवस्थाऽऽदिदोषोपपत्तेः प्राक् प्रतिपादनात् / यच्चार्थ- ग्रहण स्मृतिफलसन्निकर्षनिवृत्त्यर्थमित्युक्तम्। तदप्यसंगतम्। स्मृतिवत् ज्ञानस्याप्यर्थजन्यत्वासिद्धेस्तजन्यत्वात् तस्य तद् ग्राहकत्वे समये चिरातीतानागतार्थग्राहकत्वं तस्य न स्यात्, तथाभूतस्यार्थस्य तत्प्रत्ययजनकत्वात्, तथा च सर्वज्ञज्ञानं सकलपदार्थग्राहकं न भवेदिति प्राक् प्रतिपादितम् / यदपि ज्ञानग्रहणं सुखाऽऽदिनिवृत्त्यर्थमिति प्रतिपादितम् / तदप्यसङ्गतम्। सुखाऽऽदेनिरूपत्वानतिक्रमात् / अन्यथाहादाऽऽद्यनुभवो न स्यात्, तत्तद्ग्रहकस्यापरस्यानुभवस्यानवस्थाऽऽदिदोषतो निषिद्धत्वात्। यदपि भिन्नहेतुकत्वं सुखाऽऽदेः प्रतिपादितं, तदपि सुखाऽऽदेः सामान्यस्यासिद्धिसङ्गतम् / यश्च प्रत्यक्षविरोधः प्रतिपादितो ज्ञानसुखयोरेकत्वे ज्ञानमर्थावबोधस्वभावं सुखाऽऽदिकमाादास्वभावं ततो भिन्नमध्यक्षतोऽनुभूयत इति / सोऽप्यनुपपन्नः। यतः स्वावबोध एव विज्ञाने अव्यभिचरितो धर्मस्मरणाऽऽदिज्ञानरूपतायामप्यर्थावबोधरूपताया अभावात्। एतच्चर्थोपलब्धिरिति विशेषणमुपपादयता प्रमाणे परेणाप्यभ्युपगमे च स्वावबोधरूपताऽनुज्ञानाव्यभिचरिता सुखाऽऽदावप्यस्ति। अन्यथा तस्याऽनुभव एव न स्यादिति प्रतिपादितम् / ततश्चाक्षुषाऽऽदेानरूपतायां कथमध्यक्षविरोधः, अदृष्टविशेषप्रभवत्वेन च सुखाऽऽदे दे सुरूपज्ञानस्य विरूपज्ञानात् ज्ञानरूपतया भेदो भवेत्, अदृष्टविशेषजन्यताया अविशेषात् / तन्न सुखाऽऽदिव्यवच्छेदार्थ ज्ञानपदोपादानं युक्तम् / अव्यपदेश्यपदोपादानमप्यनर्थकम्। व्यवच्छेद्याभावात्। अथोभय ज्ञान व्यवच्छेद्यमिति चेत् / न / तस्याध्यक्षतायां दोषाभावात् / अथ शब्दजन्यत्वात्तस्य शब्देऽन्तर्भावः,नन्वक्षजत्वादध्यक्षे किमिति नान्तर्भावः ? शब्दस्य तत्र प्राधान्याच्छाब्दं तदिति चेत् / न / अध्यक्षलिङ्गातिक्रान्त एव शब्दस्य प्राधान्येन व्यापारोपगमात् अथोभयजज्ञानविषयस्यापि तदतिक्रान्तत्वं तीव्यपदेश्यपदोपादानमन्तरेणापिशाब्द एव तस्यान्वो भविष्यतीति तद्व्यवच्छे दार्थमव्यपदेश्यपदो पादानमनर्थकम् / अथोभयजत्वादस्य प्रमाणान्तरत्वं स्यादसत्यव्यपदेश्यग्रहणेनाक्षप्राधान्ये प्रत्यक्षता, शब्दप्राधान्ये तु शाब्दतेति कथं प्रमाणान्तरता / न चोभयोरपि प्राधान्यं, सामन्यामेकस्यैव साधकतमत्वात्तेनैव च व्यपदेशप्राप्तेः। यदपि व्यभिचारज्ञाननिवृत्त्यर्थमव्यभिचारिपदमुपात्तम् / तदप्ययुक्तम् / तत्प्रतिपाद्यस्यार्थस्य परमतेनासङ्गतेः / तथाहिअदुष्टकरणप्रभवत्वं बाधारहितत्वं वा अव्यभिचारित्वं प्रवृत्तिसामर्थ्यावगमव्यतिरेकेण न ज्ञातुं शक्यमिति स्वतः प्रामाण्यनिराकरणप्रस्तावे प्रतिपादितमिति प्रवृत्तिसामर्थ्यमेवाव्यभिचारित्वं,तच्च विषयप्राप्त्या विज्ञानस्याव्यभिचारित्वं ज्ञायमानं किं प्रतिभातविषयप्राप्त्याऽवगम्यते, आहोस्विदप्रतिभातविषयप्राप्त्या? तदोदकज्ञाने किमुदकावयवी प्रतिभातः प्राप्यते, उत तत्सामान्यमाहोस्वि दुभयमिति पक्षाः तत्र यद्यवयवी प्रतिभातः प्राप्यत इति पक्षः, सन युक्तः, अवयविनोऽसत्त्वे प्रतिभास प्रति विषयताऽसम्भवात्, सत्वेऽपि न तस्य पराभ्युपगमेन प्रतिभातस्य प्राप्तिः, कृष्यादिविवर्तनाभिधातोपजातावयवक्रियाऽऽदिक्रमेण ध्वंससम्भवात् अथावस्थितव्यूहैरवयवैरारब्धस्य तस्य तज्जातीयतया प्रतिभातस्यैव प्राप्तिः, नन्वेवमप्यन्यःप्रतिभातोऽन्यश्च प्राप्यत इति कथं तदवभासिनो ज्ञानस्याव्यभिचारिता। न ह्यन्यप्रतिभासनेऽ