________________ पमाण 447- अभिधानराजेन्द्रः - भाग 5 पमाण लोकप्रतिभासाभाव एव तमःप्रतिभासः, प्रतिनियतसामग्रीभवविज्ञानावभासित्यात प्रतिनियतभावानां तमसः तदतत्प्रभवविज्ञानावभासित्वात, आलोकस्य च तद्विपर्ययात्। यद्वाऽऽलोकस्याप्यचक्षुष्ट्ये सत्यपिस्वप्नज्ञाने प्रतिभासनात्तमोज्ञानाभावरूपता भवेत् / अथाऽऽलोकस्य रूपप्रतिपतौ हेतुभावान्न भावरूपता तर्हि तमसोऽपि नक्तञ्चररूपप्रतिपत्ती हेतुभावो विद्यत इति नाभावरूपता भवेत् तदेवमालोकस्य वस्तुत्वे तमसोऽपि तदस्त्विति तेन हेतोर्व्यभिचारः। भवतु चाऽऽलोकाभाव एव तमः, तथाऽपि न व्यभिचारापरिहारः, तदभावस्य तेजस्यापि तत्प्रकाशकत्वात्। अथ तमोऽभावेऽपि रूपदर्शनान्न तस्य तत्प्रकाशकत्वं, तर्हि नक्तञ्चराणामालोकाभावेऽपि रूपदर्शनादालोकस्यापि न तत्प्रकाशकत्वं भवेत् / अथास्मदादीनां किमालोकाभावे रूपदर्शनं न भवति, भवत्येव, कथमन्यथाऽन्धकारसाक्षात्करणम; घटरूपदर्शनं किं नेति चेत्, बहलतमोव्यवधानात्, तीव्राऽऽलोकतिरोहिताल्परूपवत्, प्रदीपोपादानं तुतस्य व्यवच्छेदार्थम्। अत एवान्यत्रोक्तम्- "तमोनिरोधे वीक्ष्यन्ते, तमसाऽनावृतं परम् / घटाऽऽदिमित्यादि / ' प्रदीपस्य च घटरूपयवधायकतमोऽपनेतृत्वेतैजसं चक्षुः रूपाऽऽदीनां मध्ये रूपस्यैव प्रकाशकत्वात्, प्रदीपवदिति साधनविकलत्वात् दृष्टान्तस्य निरस्त द्रष्टव्यम्।न चान्यत एव तस्य रश्मयः सिद्धाः, केवलमनेन प्राप्तार्थ प्रकाशकत्वे तेषां साध्यत इति वक्तव्यम्, तत्सद्भावप्रतिपादकस्य प्रमाण स्याआभावात्। अथ यद्यप्राप्तार्थप्रकाशकं चक्षुरविशेषेण सर्व प्रकाशयेत्. तन्न, अर्थानां नियतशक्तित्वात्, यतोयएव तत्र योग्यः स एव तत्प्रकाशयति, अन्यथा संयुक्तसमवायाविशेषाञ्चक्षुर्यथा कुवलयरूप प्रकाशयति तथा तद्गन्धमपि प्रकाशयेत्, तथा चेन्द्रियान्तरवैफल्यम्। अथ योग्यताऽभावान्न तत्तद्गन्धमवभासयति तर्हि योग्याताभावात् प्राप्त्यभावेऽपि नातिव्यवहितमिति सन्निकृष्ट वा तद्रूपं प्रकाशयतीति सर्वत्र योग्यतैवाऽऽश्रयणीया नापरसंबन्धप्रकल्पनेन कृत्यम्, रश्मयो वा कुतो न लोकान्तरमुपयान्तीति प्रेरणायां परेणाप्ययोग्यतैव तरतरत्र तु योग्यता प्रतिविधानत्वेन वक्तव्या; तथा यस्य कारणाद् भिन्नमेव कार्य तस्य भेदाविशेषात् सर्वं सर्वस्मात् कुतो नोत्पद्यत इति चोद्ये योग्यतातो नापरमुत्तरमिति सैवात्राप्यभ्युपगमनीया। किं च-यदि प्राप्तार्थप्रकाशकं, चक्षुः स्फटिकाऽऽद्यन्तरितवस्तुप्रकाशकं न स्यात्, तद्रश्मीनां विषयं प्रति गच्छतां स्फटिकाऽऽदिना प्रतिबन्धात् / न च तैस्तस्य ध्वस्तत्वादयं न दोषः, तद्व्याहितदर्शनसमये स्फटिकाऽऽदिव्यवधायकस्यादर्शनप्रसगात्, तदुपरि व्यवस्थापितस्य चाऽऽधारविनाशोत्पातप्रसक्तेश्च न हि परमाणवो दृश्याः कस्यचिदाधारभूता वा, अवयविकल्पनावैयर्थ्यप्रसक्तेः, अन्यस्यावयविन आशूत्पत्तेरदोषश्चेत्, न, तदा तद्व्यवहितस्यादर्शनप्रसक्तेः। तथा च यदा व्यवधायकदर्शनं न तदा व्यवहितदर्शनं, यदा च व्यवहितदर्शनं न तदा व्यवधायकदर्शनमिति प्रसज्येत, न चैवम्, युगपद्वयोर्दर्शनात्। अथाशूत्पत्तेर्निरन्तरव्यवहितप्रतिपत्तिविभ्रमः, तर्हि तदभावस्याऽपि आशूत्पत्तेरभावप्रतिपत्तिविभ्रमस्तथा किं न भवेत्, भावपक्षस्य बलीयस्त्वादिति चेन्न, भावाभावयोः परस्परस्वकार्यकरणाविशेषात्। किं च-कलुषजलाऽऽद्यावृतस्यार्थस्य किं न ते प्रकाशकाः, स्फटिकाऽऽदेरिव जलाऽऽदेरपि भेदे तेषां सामर्थ्यप्रतिघातात्, न जलेन तेप्रतिहन्यन्ते। स्वच्छजलेनाऽपि तेषां प्रतिघातात्, तद्व्यवहितस्याऽप्यप्रकाशनप्रसङ्गात्, अथ तेषां तत्र प्रकाशनयोग्यता तर्हि तत एतेऽप्राप्तमप्यर्थः प्रकाशयिष्यन्तीति व्यर्थं संयुक्तसमवायाऽऽदिसन्निकर्षप्रकल्पनम् / अपि च-समवायसंबन्धिनिषेधे चक्षुषो घटरूपेण संयुक्तसमवायप्रतिबन्धस्याऽभावात् तद्रूपाप्रकाशकत्वात् कर्थनाऽसिद्धो हेतुः, रूपाऽऽदीनां मध्ये रूपस्यैव प्रकाशकत्वादिति। अथेह तन्तुषु पट इति बुद्धिः संबन्धनिबन्धनत्वादिह कुण्डे दधीति बुद्धिवदित्यतोऽनुमानात् समवायसिद्धेः, न, संयुक्तसमवायसंबन्धाभावः नेह बुध्या संबन्धमात्रसाधने, घटतद्रूपयोः कथञ्चित्तादात्म्यसंबन्धाभ्युपगमात् सिद्धसाध्यताप्रसङ्गात। अथ कथञ्चित्तादात्म्यसंबन्धः तबुद्धिनिमित्तत्वेन प्रतिपन्न इति कथञ्चित् तादात्म्यसंबन्धे विरोधो नेष्यते, तर्हि भावा-भावयोः कथञ्चित्तादात्म्यभावे समवायाऽऽदेरसंभवादसंबन्धः स्यात्। तथा चाभावे न अक्षाणां सन्निकर्षाभावाद् नाऽक्षतस्तत्प्रतिपत्तिः स्यात्, विशेषणविशेष्यभावस्य भावाऽभावायोः संबन्धस्य भावात् नाऽयं दोष इति चेत्। न। भावाऽभावाभ्यां तस्यानर्थान्तरत्वे तावेव स एव वा स्यात्, अर्थान्तरत्वे भावाभावयोः तद्भावेऽपिन विशेषणविशेष्यरूपता, ताभ्यां तस्याऽसंबन्धात संबन्धे वाऽऽभ्यां तस्य परेण संबन्धनिमित्तेन विशेषणविशेष्यभावेन भवितव्यं, तस्याऽपि संबन्धनिमित्तेनापरेण तेनेत्यनवस्था भवेत्, तस्मात्कथश्चित्तयोः तादात्म्यमभ्युपगन्तव्यम्। अन्यथा भावस्याध्यक्षप्रमाणग्राह्यता न भवेत, तदेवं समवायासिद्धेनाक्षस्य रूपेण संबन्ध इति न तेन तस्य ग्रहणं परपक्षे भवेदिति चक्षुषो घटेन संयोग एव, अयुतसिद्धत्वात्, द्रव्यसमवेतानांगुणाऽऽदीनां संयुक्तसमवाय एवेत्या दिषोढाः सन्निकर्ष प्रतिपादनमयुक्तम्, संयोगसमवायविशेषणविशेष्यभावसंबन्धानामभावेन तदनुपपत्तेः संयोगाऽऽदेश्चाभावः प्रतिपादतो यथाऽवसरमिति न पुनः प्रतिपाद्यते। अथवा-अस्माकं चक्षुषः प्राप्तार्थप्रकाशकत्वं, प्रमाणाऽभावान्न सिद्ध, तथा भवतोऽप्यप्राप्तार्थप्रकाशकत्वं तस्य तत एव न सिद्धमिति कथं "रूपं पुणपासाई अपुटुं तु इत्यभिधानं युक्तिसङ्गतम्। न, तस्याप्राप्तार्थप्रकाशने अनुमानसद्भावात्। तथाहिअप्राप्तार्थप्रकाशकं चक्षुरित्यासन्नार्थाप्रकाशकत्वात्, यत्पुनः प्राप्तार्थप्रकाशकं तदत्यासन्नप्रकाशकमुपलब्ध, यथा श्रोत्रमत्यासन्नेऽर्थेऽप्रकाश च चक्षुस्तस्मादप्राप्तार्थप्रकाशमिति व्यतिरेकी हेतुः / न चायमसिद्धो हेतु गोलकस्थस्य कामलाऽऽदेः पक्ष्मपुटगतस्य चाञ्जनाऽऽदेस्तेना प्रकाशनात्, कथमन्यथा दर्पणाऽऽदेः परोपदेशस्य वा तत्प्रतिपत्त्यर्थमुपादानं भवेत अथ साध्यनिवृत्तौ नियमेन तत् निवर्तमानऽत्यासन्नार्थप्रकाशकत्वं नियमेन व्यावर्तते, चक्षुष इवतस्याप्यत्यासन्नार्थाप्रकाशकत्वात्तत्तो नायं व्यतिरेकी हेतुः न कर्णशष्कुलीप्रविष्टमशकाऽऽदिशब्दस्यतेन प्रकाशनात्, स्पर्शनाऽऽदौ त्वविवाद एव, चक्षुः श्रोत्रमनसामप्राप्तार्थकारित्वमिति च नादप्राप्तार्थप्रकाशकं श्रोत्रमिति न साध्यनिवृत्तौ साधननिवृत्तिस्तद् नाय व्यतिरेकी हेतुरिति सौगतः। यथा सवर्गताऽऽत्मपक्षे साऽऽत्मकं जीवच्छरीरं, प्राणाऽऽदिमत्चा दितिहेतुः, न, प्राप्तकारित्वे श्रोत्रस्य चक्षुष इवात्यासन्नविषयप्रकाशकत्वं न स्यादिति मशकादिशब्दस्य प्राप्तप्रत्यक्षत