________________ पमाण 446 - अभिधानराजेन्द्रः - भाग 5 पमाण तदा तत्करा न नराणां रूपदर्शनजननप्रकृताः यथा त एव वासरे उलूकाऽऽदीनाम्, भावशक्तीनां विचित्रत्वात्, तस्मादनुपलम्भात् क्षपायां यथा न भास्करकरास्तथा नायना रश्मयोऽन्यदेति स्थितम् / यदपि परेण प्रोक्तम्- दूरस्थितकुड्याऽऽदिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनान्नानुपलम्भात् तदभावसिद्धिरिति, तदप्यनेनैव निरस्तम् / रविरश्मीनामपि क्षपायामभावासिद्धिप्रसक्तेः। किं चयोगिन आत्ममन संयोगो यदा सदसद्वर्गाऽऽलम्बनमेकं ज्ञानं जनयति तदा सकल-सदसद्वर्गः तस्य चेत्सहकारी तीर्थवत् प्रमाणमित्यत्रार्थः सहकारी, यस्य विशिष्टप्रमितौ प्रमातृप्रमेयाभ्यामर्थान्तरं तदर्थवत्प्रमाणमिति विरुध्यते। सहकारी चेदसौ देशाऽऽद्यन्तरितोऽपि तर्हि तत्कुड्याऽऽदेः प्रभासुरतयोत्पत्तौ प्रदीपो देशव्यवहितोऽपि सहकारीति नान्तराले तद्रश्मिसिद्धिः। ततो न तैरनुपलम्भव्यभिचारः। अत एव ताप्यमानमुदकं तेज उखाऽऽदिव्यवहितमप्युष्णस्पर्शजनयिष्यतीति नोदके उष्णस्पर्शोपलम्भादनुभृतभास्वररूपस्य तेजसः सिद्धिः। यदपि चक्षुः स्वरश्मिसंबद्धार्थप्रकाशकं, तैजसत्वात् प्रदीपवदित्यनुमानम्, अनेन किं चक्षुषो रश्मयः साध्यन्ते, उतान्यतः सिद्धाना ग्राह्यार्थसंबन्धस्तेषां साध्यत इति? आद्ये पक्षे तरुणनारीनयनाना दुग्धबलक्षतया भासुररश्मिरहितानामध्यक्षतः प्रतीतरध्यक्षबाधितकर्मनिदेशान्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः। अथ यदध्यक्ष ग्रहण योग्य साध्यमध्यक्षत एव तत्र नोपलभ्यते तत्र तद्बाधः कर्मणः / यथाअनुष्णोऽग्निः, सत्त्वादिति, न चाध्यक्षग्रहणयोग्या नायना रश्मयः, सदा तेषामदृश्यत्वात, न / पृथिव्यादिद्रव्येऽप्येतेषां साध्यप्रसक्तेः (?) तथाहि-रश्मिवन्तो भूत्यादयः, सत्त्वात्प्रदीपवदित्यप्यवमातुं शक्यत्वात् / यथैव हि तैजसत्वं प्रदीपे रश्मिवत्तया व्याप्तिमुपलब्धं, तथा सत्त्वमप्यस्यान्यथाऽपि सम्भवेन तैजसत्वस्येति कुतो विभागः? अथ भूम्यादेस्तत्साधनेऽध्यक्षबाधः / न / दुग्धबलक्षाबलालोचनानामपि तत्साधनेतद्विरोधः समानः। अथ वृषदंशचक्षुषोऽध्यक्षतो वीक्ष्यन्ते रश्मय इति कथं तद्विरोधः? ननु यदितत्र ईक्षन्तेऽन्यत्र किमायातम्, त एवान्यत्र तत्साधने हेम्नि पीतत्वप्रतीतौरजते पीतत्वप्रसङ्गः प्रमाणसाधनमुभयत्र तुल्यम् / अथ तत्र तत्प्रतीयन्ते नान्यत्र सत्त्वेन ते साध्यन्ते, अपि च अनुमानतस्तत्तु दृष्टान्तमात्रम्, नन्वत्र नेत्रत्वादिति यदिहेतुः, तैजसत्वादित्यस्याऽऽर्नथक्यम् / अत एव प्रकृतसिद्धेरध्यक्षबाधा चात्रापि तदवस्थितेय, तेजसत्वादित्यस्य हेतुत्वे प्रदीपदृष्टान्तेनैवार्थसिद्धेः वृषदशनेत्रनिदर्शनमनर्थकम्, न च तस्य तैजसत्वं प्रतिसिद्धमिति तत्साधनविकल्पनात् तदपेक्षया दृष्टान्तदोषः न च रश्मिवत्त्वाद्विडाललोचनस्य तैजसत्वं सिद्धं मण्यादीनामपि तत्प्रसक्तेः। न च रश्मिवत्त्वान्मण्यादीनामपि तैजसत्वम्, उष्णप्रभाया एव तैजसत्यात् / अन्यथा तरुणतरुकिशलयानामपि तैजसत्वं स्यात् न च नारीनयनाना तैजसत्वं सिद्धमिति सिद्धो हेतुः। न च रश्मिवत्त्वादेव तेषां तत्साध्यते इतरेतराऽऽश्रयदोषप्रसक्तेः, सिद्धे भास्वरप्रभावत्त्वे तैजसत्वसिद्धिस्ततश्च भास्वरप्रभावत्त्वे च तत्सिद्धिरिति कथं नेतरेतराश्रयदोषः / अथ तैजसत्वं चक्षुषः, रूपाऽऽदीनां मध्यं रूपस्यैवप्रकाशकत्वात्प्रदीपवदित्यतोऽनुमानात् तेजसत्वसिद्धेर्ने तरेतराऽऽश्रयदोषः / नन्वत्र भास्वर- | रूपोष्णस्पर्शतजोद्रव्यसमवेतगोलकस्य भावकार्यद्रव्यं यदि शब्दवाच्यं तदा तस्य तेजसत्वसाधने अध्यक्षविरोध, तद्विपरीतरूपस्पर्शाऽऽधाररूपतया अध्यक्षतः प्रतिपत्तेः / तथा हि-अबलापारावतबलीवर्दाऽऽदीनां चक्षुषो धवललोहितनीलरूपतयोष्णस्पर्शविकलतया वाऽ5ध्यक्षतः प्रतिपत्तिः सिद्धेव / न च गोलकव्यतिरिक्तं चक्षुः तद्ग्राहक प्रमाणाभावात् सिद्धमित्या-श्रयासिद्धिः स्वरूपासिद्धिस्वरूपस्यैव प्रकाशकत्वादिति हेतुरनैकान्तिकश्च / तुहिनकरनिकरण तस्य रूपस्यैव प्रकाशकत्वेऽप्यतेजसत्वात् / न / तस्यापि पक्षीकरणाददोषः व्यभिचारविषयस्य पक्षीकरणादेकान्तिकत्वे सर्वत्रानैकान्तिकहेत्वभावप्रसक्तेः। न चैवं, जलानलयोः विशेषगुणशङ्करादभेदसिद्धेः / नच तन्निकरान्तर्गत तेजस्तत्रापि रूपप्रकाशकमिति न व्यभिचारः प्रदीपेऽप्यन्यस्य तदन्तर्गतस्य तत्प्रकाशकस्य प्रकल्पनात् दृष्टान्तासिद्धिप्रसक्तेः प्रत्यक्षबाधोभयत्र च रूपसम्बन्धेन रूपस्यैव प्रकाशकेन च व्यभिचारः, नचाऽसौ रसाऽऽदेरपि प्रकाशक इन्द्रियान्तरपरिकल्पनाविफलप्रसक्तेः। रूपप्रकाशकत्वं च रूपज्ञानकत्वं, तच नीलरूपे विद्यते, अन्यथाऽर्थवत्प्रमाणमित्यत्रार्थसहकारित्वं तस्य न स्यादिति तेन व्यभिचारः / अथ द्रव्यत्वे सति तैजसत्वं करणस्य चक्षुषो रूपादीनांमध्ये रूपस्यैव प्रकाशकत्वादिति विशेषणान्न सम्बन्धरूपाऽऽभासनमनेकान्तः / ननु यथा सम्बन्धाऽऽदेरद्रव्यादेरप्यतैजसस्य रूपज्ञानजननं तथा चक्षषोऽपि कि स्यात् / न चादर्शनादित्युत्तरं समर्थम्, दर्शने निवृत्तेऽनिवर्तकत्वात्प्रदीपवदिति दृष्टान्तस्याऽपि रूपप्रकाशकत्वासिद्धेः साधनविकलता दृष्टान्तस्य। न च प्रदीपे सति प्रतिनियतप्राणिनां रूपदर्शनसम्भवात्तस्य रूपप्रकाशकत्वमञ्जनाऽऽदिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्धावात् / न च यदन्तरेणापि यद् भवति न तत्कार्यमितरत् तत्कारणम्, अन्वयव्यतिरेकनिबन्धनत्वात् तद्भावस्य / अथ प्रदीपे सति यद् दर्शन तत्तदभावे न भवति यत्तु तदभावे भवति न तत्तत्राऽपि तत्सदृशम्, न चान्यस्य च व्यभिचारे अन्यस्यासौ अतिप्रसङ्गात् / असदेतत् यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषा तदभावेऽपि तादृशमेव तत्, भेदानवधारणात्। तथाहि-तद्भेदकल्पने न किञ्चित् कस्यचिद्व-स्तुनः सदृशमिति सौगतमतानुप्रवेशः स्यात्, रूपप्रदीपयोश्च सहोत्पन्नयोयुगपदर्शने प्रदीपवद्रूपस्याऽपि प्रदीपप्रकाशकत्वाद्रूप तैजसं भवेत्, अन्यथा न प्रदीपोऽपि तैजसःस्यात्, तज्जनकत्वाविशेषात्तयोः / न चान्यदा प्रकाशकत्वोपलब्धिसिद्धएव तदाऽपि प्रकाशकः, अन्यदाऽप्यञ्जनाऽऽदिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात् तस्य तत्प्रकाशकत्वासिद्धेः अथ तस्मिन् सति कदाचित्कस्यचिद्रूपदर्शनात्तस्य तत्प्रदर्शकत्वं तर्हि नक्तञ्चराणां संतमसे रूपदर्शनात्, तदभावे तदभावात् हेतुफलभावस्य सर्वत्र तन्निबन्धनत्वात् तमोऽपि रूपप्रकाशत्वात्प्रदीपवत्तैजसं भवेत् अन्यथा हेतोरनेनैव व्यभिचारः स्यात् / आलोकाभाव एव तम इति चेत्, न, आलोकस्याऽपि तमोऽभावरूपताप्रसक्तेः। आलोकस्य तरतमादिरूपतयोपलम्भात् नाभावरूपतेति चेत्, न, तमस्यप्यस्य समानत्वा त् / यथा चाऽऽलोकः प्रतिभासविषयस्तथा तद्विषयः। न चाऽऽलोकप्रतिभासाभाव एव तमः प्रतिभासः, इतरत्राप्यस्य समानत्वात् न च चक्षुयापाराभावेऽपि तत्प्रतिभाससंवेदनादा