SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ पमाण 445 - अभिधानराजेन्द्रः - भाग 5 पमाण उपपत्त्यन्तरं प्रकटयन्तिन वै सन्निकर्षाऽऽदेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यान्तिरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः / / 4 / / अयमर्थः-यथा सम्प्रतिपन्नस्य पटाऽऽदेरर्थान्तरस्याज्ञानरूपस्य स्वार्थव्यवसितौ साधकतमत्वाभावात् प्रामाण्यं नोपपत्तिश्रियमशिश्रियत, तथा सन्निकर्षाऽऽदेरपि। प्रयोगः-संनिकर्षाऽऽदिर्न प्रमाणव्यवहारकभाक, स्वार्थव्यवसितायसाधकतमत्वाद्, यदेवं तदेवम्, यथापटः, तथा चायम्, तस्मात्तथा / / 4 / / (३)प सन्निकर्षोपरि विचारः ब अथाऽस्य साधनस्या सिद्धिसंबन्धवैधुर्य व्यञ्जयन्तः सूत्रद्वयं ब्रुवतेन खल्वस्य स्वनिर्णीतौ करणत्वं, स्तम्भाऽऽदेरिवाऽचेतनत्वात्, नाऽप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भाऽऽदेरिव तत्राऽप्यकरणत्वात्।।।। अस्येति सनिकर्षाऽऽदेः, कारणत्वं साधकतमत्वम् / नाऽप्यर्थनिश्चिताविति. अस्य करणत्वमिति योगः। तत्राऽपीति, अर्थनिश्चितावपीत्यर्थः। शेषमशेषमुत्तानार्थम् / प्रयोगौ तु-सन्निकर्षाऽऽदिःस्वनिर्णीतौ करणं न भवति, अचेतनत्वात्, य इत्थं स इत्थम्, यथा स्तम्भः, तथा चायम, तस्मात्तथा / सन्निकर्षाऽऽदिरर्थनिश्चितौ करणं न भवति, स्वनिश्चितावकरणत्वात्, यएव स एवम्, यथा स्तम्भः,यथोक्तसाधनसंपन्नश्वायाम, तस्माद्यथोक्तसाध्यः। अत्र केचिद्यौगाः संगिरन्ते"सनिकर्षाऽऽदिर्न प्रमाणव्यवहार भाग" इत्यादि यदवादि, तत्राऽऽदिशब्दसूचितकारकसाकल्याऽऽदेःकाममप्रामाण्यमस्तु, सन्निकर्षस्य तु प्रामाण्यापकों नोऽमर्षप्रकर्षसिद्धये, तस्याओंपलब्धौ साधकतमत्वावधारणेन स्वार्थव्यवसितावसाधकतमत्वादित्यत्र हेत्वेकदेशस्य सिद्धेः / यत्तु तत्सिद्धौ साधनमधुनैवाभ्यधुः, तदसाधीयः, प्रदीपेन व्यभिचारात्, तस्य स्वनिश्चितावकरणस्याप्यर्थनिश्चिती करणत्वादिति / तदेतत् त्रपापात्रम् अर्थोपलब्धौ संनिकर्षस्य साधकतमत्वासिद्धेः / यत्र हि प्रमात्रा व्यापारिते सत्यवश्यं कार्यस्योत्पत्तिः, अन्यथा पुनरनुत्पत्तिरेव, तत्तत्र साधकतमम्, यथा छिदायांदात्रम्, न च नभसि नयनसं-निकर्षसंभवेऽपि प्रमोत्पत्तिः / रूपस्य सहकारिणोऽभावात् तत्र तदनुत्पत्तिरिति चेत। कथमसौ रूपेऽपि स्यात् ? न हि रूपे रूपमस्ति, निर्गुणत्वाद् गुणानाम्। नाऽपि तदाधारभूते द्रव्ये रूपाऽन्तरमस्ति, यावद्रव्यभाविसजातीयगुणद्वयस्य युगपदेकर त्वयाऽनभ्युपगमात्। अवयवगतं रूपमवयविरूपोपलब्धौ सहकारि समस्त्येवेति चेत्। कथं त्र्यणुकाऽवयविरूपोपलम्भो भवेत? न हि व्यणुकलक्षणाऽवयवत्रयवर्तिरूपमुपलभ्यते, यतः सहकारि स्यात् / अनुपलभ्यमानमपि तत्तत्र सहकारीति चेत्, तर्हि कथं न तप्तपाथसिपावकोपलम्भसंभवः? तदवयवेष्वनुपलभ्यमानस्य रूपस्य भावात् / यदि च रूपं सहकारि कल्पते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः? अथाऽत्यन्ताऽऽसत्त्यभावोऽपि सहकारी, न चाऽसौ तिमिरेऽस्तीति चेत्। नन्विय- | मासत्तिरात्मापेक्षया, शरीरापेक्षया, लोचनापेक्षया, तदधिष्ठानापेक्षया वा विवक्षांचक्रे प्रेक्षादक्षेण? आद्य कल्पे, कथं कस्याऽपि पदार्थस्योपलब्धिः? व्यापकस्याऽऽत्मनः सर्वभावैरासत्तिसम्भवात् ! द्वितीये, कथं करतलतुलितमातुलिङ्गाऽऽदेरुपलम्भः ? तृतीये, कथं क्वाऽपि चाक्षुषप्रत्यक्षमुन्मजेत्?, चक्षुषः प्राप्यकारित्वकक्षीकारेण सर्वत्र स्वगोचरेणाऽऽसत्तिसद्भावात्। तुरीये, कथमधिष्ठानसंयुक्ताञ्जनशलाकायाः समुपलब्धिः? अथ येनांशेन तस्यास्तत्र संसर्गः स नोपलभ्यत एवा नैवम्, अवयविनो निरंशत्वेन स्वीकारात्। अपि च-कथ-मुदीची प्रति व्यापारितनेत्रस्य प्रमातुर्न काञ्चन काञ्चनाचलोपलब्धिमनुभवामः? न चदवीयस्त्वान्न तत्र नेत्ररश्यमः प्रसतुं शक्ताःतेषां शशाङ्गेऽपि प्रसरणाभावाऽऽपत्तेः / अथ तदालोकमिलितास्ते वर्द्धन्ते, तर्हि खरतरकरनिकरनिरन्तराऽऽपूरितविष्टपोदरे मरीचिमालिनि सति सुतरांसुराद्रिमभिसर्पता तेषां वृद्धिर्भवत् / न च दिनकरमरीचीनां नितरां कठोरत्वेन तैस्तेषां प्रतिघातः, तदाऽऽलोककलापाऽऽकलितकलशकुलिशाऽऽदिपदार्थानामप्यनुपलम्भाऽऽपत्तेः। ततो न सन्निकर्षसद्भावेऽप्यवश्यं संवेदनोदयोऽस्ति / नापि तदभावेऽभाव एव, प्रातिभप्रत्यक्षाणामार्षसंवेदनविशेषाणां च तत्कालाविद्यमानवस्तुविषयतया संनिक भावेऽपि समुद्भवात् / तन्न सन्निकर्षस्य साधकतमत्वं साधुत्वसौधाध्यासधैर्यमार्जिजत् / यं च प्रदीपन व्यभिचारमुदचीचरः, सोऽपि न चतुरचेतश्चत्कारचञ्चुः, प्रदीपस्य मुख्यवृत्त्या करणत्वानुपपत्तेः, नेत्रसहकारितया करणत्वोपचारात् / यथा चोपचारार्थव्यवसितो कारणमयं, तथा स्वव्यवसितावपि न हि प्रदीपोपलम्भे प्रदीपान्तरान्वेषणमस्ति / किं त्वात्मनैवाऽऽत्मानमयं प्रकाशयतीति क्व व्यभिचारः? तत्र सन्निकर्षस्यार्थव्यवसितावसाधकतमत्वमसिद्धम् / अनयैव दिशा कारकसाकल्याऽऽदेरप्यर्थव्यवसितावसाधकतमत्वं समर्थनीयम् / इति न हेत्वेकदेशासिद्धिः। रत्ना० 1 परि०। (4) नायनरश्मिविचार:अथ यद्यपि नायना रश्मयोऽध्यक्षतो न प्रतीयन्ते, तथाऽप्यनुमानतः प्रतीयन्ते। अनुमानंचतेजोरश्मिवत्चक्षुः,रूपाऽऽदीना, मध्ये रूपस्यैव प्रकाशकत्वात्, प्रदीपकलिकावदिति तद्रश्मिसत्त्वप्रतिपादक, नैव भास्करकरसत्त्वप्रतिपादक क्षपायामनुमानमस्ति, न निशायां बहुलान्धकारायां वृषदंशचक्षुर्बाह्याऽऽलोकसव्यपेक्षम्, अप्रकाशकचाक्षुषत्वात्, दिवा पुरुषचक्षुर्वदित्यस्याऽनुमानस्य रात्रौ तत्सत्त्वप्रतिपादकस्य भावात् / अथ वृषदंशाऽऽदेश्चाक्षुषं तेजोऽस्तीत्यर्थसिद्धेर्न किञ्चित् भास्करज्योतिषा अनुद्भूतरूपेण प्रकल्पितेन, तर्हि मनुष्याऽऽदीनामपि तदस्तीति किमुद्भूतरूपेण बाह्यतेजसा तेषां कृत्यम् ? अथ यद्यथा दृश्यते तत्तथाऽभ्युपगम्यत इति तु दिवा नायनं सौर्य भवेदेवं यदि तथा दर्शनं स्यात् यावता यथा रात्रौ भास्करकराऽऽदर्शनं तथा दिवा चाक्षुषरश्भ्यदर्शनं, यथावा दिवा भास्करावभासनं तथा क्षपायां वृषदर्शने लोकावलोकनम् / विशेषस्त्वयम्-एकदा भास्कररश्मयोऽन्यदा नायनास्तेऽनुमेया इति / अथान्धकारावष्टब्धनिशीथिनीसमयेऽपि भास्करकरसंभवे नक्तशराणामिव रूपदर्शनं स्यात्, न, संतोऽपि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy