________________ पमाण 444 - अभिधानराजेन्द्रः - भाग 5 पमाण इति चेत् / प्रत्यभिज्ञागोचरेऽपि तुल्यमेतत्, "रजतं गृह्यमाणं हि, चिरस्थायीति गृह्यते।" इति वचनात्, प्रागेव तद्वेदने च तदिदानीमस्ति? न वा ? कीदृक् वाऽस्ति ? इति तदनन्तरं न कोऽपि संदिहीत? ततोऽपार्थकमेवानधिगतेति विशेषणम्, व्यवच्छेद्याभावात्। न चाऽव्यापकत्वदोषः प्रकृतलक्षणे, प्रत्यक्षपरोक्षलक्षणव्यवितव्यापकत्वात् / नाप्यतिव्यापकत्वकलङ्कः, संशयाऽऽद्यप्रमाणविशेषेष्ववर्त्तनात् / नाप्यसंभवसम्भवः, प्रमाण स्वपरव्यवसायि ज्ञानम्, प्रमाणत्वान्यथाऽनुपपत्तेः, इत्यतस्तत्र स्वपरव्यवसायिज्ञानत्वसिद्धेः। अत्र चायं कण्टकोद्धारप्रकारः / तथाहि-न तावदत्र पक्षप्रतिक्षेपदक्षदोषसंश्लेषः / अयं हि भवन् किं प्रतीतसाध्यधर्मविशेषणत्वम्, अनभीप्सितसाध्यधर्मविशेषणता, निराकृतसाध्यधर्मविशेषणत्वं वा भवेत् ? इति भेदत्रयी त्रिवलीव तरलाक्षीणामुन्मीलति / तत्र न तावत् प्रतीतसाध्यधर्मविशेषणत्वमत्राऽऽख्यायमानं संख्यावतां ख्यातये,यतः प्रसिद्धमेव साध्यं साधयतामेतदुन्मज्जति, आपो द्रवा इत्यादिवत्; न चैतत् प्रमाणलक्षणमद्यापि परेषां प्रसिद्धिकोटिमाटीकिष्ट / नाऽप्यत्राऽनभीप्सितसाध्यधर्मविशेषणता भाषणीया, सा हि स्वानभिप्रेतं साध्यं साधयतामधीमतां धावति, शौद्धोदनस्य नित्यत्वसाधनवत, न चाऽऽहंतानामेतत् प्रमाणलक्षणमनाकाशितम् / नाऽपि निराकृतसाध्यधर्मविशेषणत्वमत्रोपपत्तिपद्धतिप्रतिबद्धता दधाति, तद्धि प्रत्यक्षेणाऽनुमानेनाऽऽगमेन वा साध्यस्य निराकरणाद् भवेत् / न चैतदनुष्णस्तेजोऽवयवी, नाऽस्ति सर्वज्ञो, जैनेन रजनिभोजनं भजनीयमित्यादिवत् प्रत्यक्षाऽनुमानाऽऽगमाऽऽदिभिर्वाधासंबन्धवैधुर्यं दधानमीक्ष्यते। तस्मान्नात्र दोषः पक्षस्य सूक्ष्मोऽष्युत्प्रेक्षितुं पार्यत। नाऽपि हेतोः; स खल्वसिद्धता विरुद्धता, व्यभिचारो वा भवेत्? यदि तावदसिद्धता, तदाऽपि किमन्यतरासिद्धिः, उभयासिद्धिर्वा भवेत् ? अन्यतरासिद्धिश्चेत्, तदाऽपि वादिनः प्रतिवादिनो वाऽन्यतरस्येयमसिद्धिःस्यात् ? यदि वादिनः, तदा किं स्वरूपद्वारेण, आश्रयद्वारेण, भिन्नाधिकरणताद्वारेण, पक्षकदेशद्वारेण, प्रतिज्ञार्थंकदेशद्वारेण वाऽसौ स्यात् ? स्वरूपद्वारेण चेत्।तत्कि हेतुस्वरूपे विप्रविपत्तेः, अप्रतिपत्तेः, संदेहाद्वा ? न प्राच्यः प्रकारः सारः; प्रमाणत्वाऽऽख्यहेतुस्वरूपे समस्तप्रामाणिकपरिषदामविवादात्। नापि द्वितीयः प्रमाणस्वरूपमप्रतिपद्यमानस्य वादिनोऽप्रामाणिकत्वप्रसङ्गात् / नापितृतीयः, सर्वथैवानिर्णीतप्रमाणस्वरूपस्य प्रतिपत्तुस्तत्र संदेहानुत्पादात्, न खलु सकलकालमनाकलितस्थाणुत्वस्य स्थाणुत्वपुरुषत्वोल्लेखी संदेहः कस्याऽपि संपद्यते, तत्स्वरूपप्रतिपतौ वा क्वचित्कथं सर्वथा प्रमाणस्वरूपे संशयः स्याद् ? आश्रयासिद्धिव्यधिकरणसिद्धी तु वादिनी जैनस्य दोषावेव न संमती ; अस्ति सर्वज्ञः सुनिश्चितासंभवद्वाधकप्रमाणत्वाद्, उर्दष्यति शकट कृत्तिकोदयाद, इत्यादेर्गमकत्वेन स्वीकृतत्वात् / संमतत्वे वा न तयोरत्रावकाशशङ्काशड्कुसंकथा; प्रमाणस्य धर्मिणः सकलवादिनामविवादाऽऽस्पदत्वात्, प्रमाणत्वहेतोस्तत्र वृत्तिनिर्णयाच। पक्षकदेशासिशताऽपि नात्र साधीयस्ता दधाति, सा हि संपूर्णपक्षाव्यापकत्वे सति / संभविनी, सचेतनास्तरवः स्वापात्, इत्यादिवत्, न चैतदत्रास्ति / नाऽप्यनित्यःशब्दोऽनित्यत्वाऽऽदित्यादिवत् प्रतिज्ञाऽर्थकदेशासिद्धताऽभिधानीया, तस्यास्तत्त्वतःस्वरूपासिद्धिरूपत्वाद्, अन्यथा धर्मिणोऽपि हेतुत्वे तत्प्रसङ्गात् / स्वरूपासिद्धिश्चात्र न यथा स्थमानमास्तिगघ्नुते, तथाऽनन्तरमेव न्यरूपि, इति न वादिनः साधनमसिद्धमेतत्। नापि प्रतिवादिनः, तत्राप्येवंप्रकार (प्रकारो विकल्पः।) प्रकारकल्पनाप्रबन्धस्य प्रायः समानत्वात् / अत एव वादिप्रतिवाद्युभयस्याऽपि नासिद्धमिदम् / एवं च कथमिदं साधनमसिद्धिसंबन्धं दधीत ? नापि विरुद्धताबन्धकी-संपर्ककलङ्कितमेतत् विपक्षाद् व्यावृत्तत्वात् / नापि व्यभिचार-पिशाचसंचारदुःसंचरं, यतो निर्णीतविपक्षवृत्तित्वेन, संदिग्धविपक्षवृत्तित्वेन वाऽत्र व्यभिचारः प्रोच्येत? न तावदायेन, अनित्यः शब्दः प्रमेयत्वादित्यादिवद्विपक्षे वृत्तिनिर्णयाभावात् स्वपरव्यवसायिज्ञानस्य हि विपक्षः संशयाऽऽदिर्घटाऽऽदिश्च, न च तत्र कदाचन प्रमाणता वरिवर्ति। नापि द्वितीयेन, विवादाऽऽपन्नः पुमान् सर्वज्ञो न भवति, वक्तत्वाद, इत्यादिवद्विपक्षे वृत्तिसंदेहस्यासंभवात्; संशयघटाऽऽदिभ्यः प्रमाणत्वव्यावृत्तेनिीतत्वात् / तन्नानैकान्तिकत्वलक्षणमपि दूषणभत्रोपढौकते। इति न हेतोरपि कलङ्ककलिकाऽपि प्रोन्मीलति। निदर्शनं पुनर्नोपदर्शितमेवाऽत्र, इति न तद्दोषोद्धारसंरम्भः / भवतु वा तदपि व्यतिरेकरूपं संशयघटाऽऽदिन चात्र कश्चिदूषणकणः / सखल्यसिद्धसाध्यव्यतिरेकः, असिद्धसाधनव्यतिरेकः, असिद्धोभयव्यतिरेकः, सदिग्धसाध्यव्यतिरेकः, संदिग्धसाधनव्यतिरेकः, संदिग्धोभयव्यतिरेकः, अव्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेको वा स्यात् ? तत्र न तावदाद्याः षट्, घटाऽऽदौ साध्यसाधनव्यतिरेकस्य स्पष्टनिष्टदूनात्। नाऽपि सप्तमः, व्याप्त्याऽत्र व्यतिरेकनिर्णयात्। नाऽप्यष्टमनवमौ; यत्र न स्वपरव्यवसायिज्ञानत्वंनतत्र प्रमाणत्वमिति व्यतिरेकोपदर्शनाद्, इत्यतो निकलङ्कादनुमानात्तल्लक्षणसिद्धेरनवद्यमिदं लक्षणम् / / 2 / / (2) अथात्रैव ज्ञानमिति विशेषणं समर्थयन्तेअभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम्, अतो ज्ञानमेवेदम् // 3 // अभिमतमुपादेयम्, अनभिमतं हेयम्।तद्वयमपि द्वेधामुख्यं गौण च। तत्र मुख्यम्-सुख, दुःखं च / गौणं पुनःतयोः कारणं कुसुम-कुडकुमकामिनीकटाक्षाऽऽदिकं, खलकलहकालकूट-कण्टकाऽऽदिकं च / एवंविधयोरभिमतानभिमतवस्तुनोयाँ स्वीकारतिरस्कारौ प्राप्तिपरिहारौ, तयोः क्षमं समर्थ; प्रापकं परिहारकं चेत्यर्थः। अनयोरुपलक्षणत्वादेतदुभयाभावस्वभाव उपेक्षणीयोऽप्यत्रार्थो लक्षयितव्यः / रागगोचरः खल्वभिमतो, द्वेषविषयोऽनभिमतः, रागद्वेषद्वितयानालम्बनं तु तृणाऽऽदिरुपेक्षणीयः। तस्य चोपेक्षक प्रमाणं तदुपेक्षायां समर्थमित्यर्थः / हिर्य स्मादर्थे, यस्मादभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम प्रमाणम्, अत इदं ज्ञानमेव भवितुमर्हति, नाऽज्ञानरूपं सन्निकर्षाऽऽदिकम्। प्रयोगश्चप्रमाणं ज्ञानमेव, अभिभतानभिमतवस्तुस्वीकारतिरस्कारक्षमत्वात्, यत्तु नैवं न तदेयं, यथा स्तम्भः, तथा चेदम, तस्मात्तथा // 3 //