________________ पमत्तसंजयगुणट्ठाण 443 - अभिधानराजेन्द्रः - भाग 5 पमाण प्रकर्षाप्रकर्षकृतः स्वरूपभेदः / तथाहि-देशविरतिगुणापेक्षया एतद्गुणाना विशुद्धिप्रकर्षाविशुद्ध्यप्रकर्षश्च / अप्रमत्तसंयतापेक्षया तु विपर्ययः / एवमन्येप्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षाप्रकर्षयोजना द्रष्टव्या। कर्म०२ कर्म० / प्रव०। पं०सं०। पमद्द पुं० (प्रमर्द) संमते, परस्परसंघर्षे, "चंदेण सह जोय जोएंति।' चन्द्रेण सह प्रमर्दरूपं योग युञ्जन्ति / सू०प्र० 10 पाहु० 11 पाहु० पाहु० / चन्द्रेण सार्ट्स प्रमर्द चन्द्रो मध्येन तेषां गच्छतीत्येवलक्षणं योग संबन्धं योजयन्ति। स०८ सम०। पमद्दण न० (प्रमर्दन) कठिनस्याऽपि वस्तुनश्चूर्णनकरणे, स०। जी०। पमद्दमाणी स्त्री० (प्रमृनती) रूतं कराभ्यां पौनःपुन्येन विरलं कुर्वन्त्याम्, “पमद्दमाणी या" (574 गाथा) पिं०। पमयवण न० (प्रमदवन) हस्तिनापुरनगरे मलिदत्तकुमारस्वामिके उद्याने, ज्ञा० 1 श्रु०८ अ०। आ०म०। तेतलिपुरनगरोद्याने, "तेतलिपुरं नाम नगरं, पमयवणे उजाणे।" ज्ञा०१ श्रु०१३ अाआ०म०। पमया स्त्री० (प्रमदा) स्त्रियाम्, बृ०४ उ०। पमयाकम्मकरण पुं० (प्रमदाकर्मकरण) प्रमदाः स्त्रियस्तासां यत्कर्म तत्स्वयमेव करोतीति प्रमदाकर्मकरणः। "कृद् बहुलम्" इति वचनात्कर्तरि अनट्प्रत्ययः / स्त्रीणां कण्डनदलनपरिवेषणोदकाऽऽहरणप्रमार्जनाऽऽदिकरणशीले नपुंसके, बृ० 4 उ०। पमह पुं० (प्रमय) शिवसेवके, पाइ० ना०२६६ गाथा। पमाइ पुं० (प्रमातृ) प्रमाकर्तरि, रत्ना०। तल्लक्षणम-तदित्थं प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तेषां तत्र कथञ्चिदविष्वग्भावेनावस्थितेरखिलप्रमाणनयानां व्यापकं प्रमातार स्वरूपतो व्यवस्थापयन्तिप्रमाता प्रत्यक्षाऽऽदिप्रसिद्ध आत्मा।।५५|| प्रमिणोतीति प्रमाता / किंभूतः क इत्याह-प्रत्यक्षाऽऽदिप्रसिद्धः प्रत्यक्षपरोक्षप्रमाणप्रतीतः, अतत्यपरापरपर्यायान् सततंगच्छतीत्यात्मा जीवः / रत्ना०७ परि०। (प्रमातृनित्यत्वसिद्धिः 'आता' शब्दे द्वितीयभागे 165 पृष्ठादारभ्य दर्शिता) प्रमादिन् पुं० विकथामद्याऽऽदिप्रभादवति, आचा० 1 श्रु०३ अ० 1 उ० द्वा०। पमाण न० (प्रमाण) प्रकर्षण संशयाऽऽद्यभावस्वभावेन मीयतेपरिच्छिद्यते वस्तु येन तत्प्रमाणम् / रत्ना० 1 परि०। आ०म० / विशे०। उत्त०। प्रमितिः प्रमाणम् / हेयोपादेयप्रवृत्तिनिवृत्तिरूपतया पदार्थपरिच्छित्तिकरणे, सूत्र०१ श्रु०१२ अ०। ज्ञा०। (1) अथ प्रमाणस्याऽऽदौ लक्षणं व्याचक्षतेस्वपरव्यवसायि ज्ञानं प्रमाणम् / / 2 / / अत्र चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधेयम् इति विप्रतिपनानाश्रित्य स्वपरेत्यादिकम्, अव्युत्पन्नान् प्रति प्रमाणम्, प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेयम्: शेषं पुनरनुवाद्यम्। तत्र प्रमाणमिति प्राग्वत् / स्वमात्मा ज्ञानस्य स्वहरूपमः परः स्वस्मादन्यः, अर्थ इति / यावत् तौ विशेषेण यथाऽवस्थितस्वरूपेण, अवस्यति निश्चिनोतीत्येवशील यत् तत् स्वपरव्यवसायि। ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् / एतच्च विशेषणम्-अज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य, सन्निकर्षाऽऽदेश्वाऽचेतनस्य नैयायिकाऽऽदिकल्पितस्य प्रामाण्यपराकरणार्थम् / तस्याऽपि च प्रत्यक्षरूपस्य शाक्यैर्निर्विकल्पकतया प्रामाण्येन जल्पितस्य, संशयविपर्ययानध्यवसायानां च प्रमाणत्वव्यवच्छेदार्थ व्यवसायीति / स्पष्टनिष्टङ्यमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैताऽऽदिवादिमतमत्यसितु परेति। नित्यपरोक्षबुद्धिवादिनां मीमांसकानाम, एकाऽऽत्मसमवायिज्ञानान्तरप्रत्यक्ष ज्ञानवादिना योगानाम्, अचेतनज्ञानवादिना कापिलानां च कदाग्रहग्रहं निग्रहीतुंस्वेति। समग्रलक्षणवाक्यं तु परपरि कल्पितस्यार्थोपलब्धिहेतुत्वाऽऽदेः प्रमाणलक्षणत्वप्रतिक्षेपार्थम् / तथाहि-अर्थोपालब्धेरनन्तरहेतुः, परम्पराहेतुर्वा विवक्षाञ्चक्रे ? परम्पराहेतुश्चेत्। तर्हि, इन्द्रियवदञ्जनाऽऽदेरपि प्रामाण्यप्रसङ्गः। अथाऽनन्तरहेतुरिन्द्रियमेव प्रमाणम्, तत् किं द्रव्येन्द्रियम् भावेन्द्रियं वा ? द्रव्येन्द्रियमप्युपकरणरूपम्, निर्वृत्तिरूपं वा? न प्रथमम्, तस्य निवृत्तीन्द्रियोपष्टम्भमात्रे चरितार्थत्वात् / नाऽपि द्वितीयम्, तस्य भावेन्द्रियेणाऽर्थोपलब्धौ व्यवधानादानन्तर्याऽसिद्धेः / भावेन्द्रियमपि लब्धिलक्षणम्, उपयोगलक्षण वा ? न पौरस्त्यम्: तस्यार्थग्रहणशक्तिरूपस्यार्थग्रहणव्यापाररूपेण तेन व्यवधानात्। उदीचीनस्य तु प्रमाणत्वे - ऽस्मल्लक्षितमेव लक्षणमक्ष रान्तरैराख्यातं स्यात्। न च नास्त्येवाभूदृशमिन्द्रियमिति भौतिकमेव तत् तत्रानन्तरो हेतुरिति वक्तव्यम्, व्यापार मन्तरेणाऽऽत्मनः स्वार्थसंवित्फलस्यानुपपत्तेः / न ह्यव्यापृत आत्मा स्पर्शा-ऽऽदिप्रकाशकः, सुषुप्त्यवस्थायामपि प्रकाशप्रसङ्गात् / न च तदानीमिन्द्रियं नास्ति, यतस्तदभावः स्याताअथ नेन्द्रियं सत्तामात्रेण तद्धेतुः किन्तु मनसाऽर्थेन च सन्नि कृष्टमिति चेत् / ननु सुषुप्त्यऽवस्थायामपि तत्तादृशमस्त्येव,मनसः शरीरव्यापिनः, स्पर्शनाऽऽदीन्द्रियेण, स्पर्शनाऽऽदेश्च तूलिकाऽऽदिना सन्निकर्षसद्भावात्। न चाऽणुपरिमाणत्वाद्मनसः शरीरव्यापित्वमसिद्ध-मिति वाच्यम्, तत्र तस्य प्रमाणे न प्रतिहतत्वात् / तथाहि-मनो गुपरिमाणं न भवति, इन्द्रियत्वाद् नयनवत्। न च शरीरव्यापित्वे युगपज्ज्ञानोत्पत्तिप्रसङ्गः, तादृक्षक्षयोपशमविशेषेणैव तस्य कृतोत्तरत्वात् / इति नैतत्प्रमाणलक्षणमक्षूणम्। आचक्ष्महि च मतपरीक्षापञ्चाशति"अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे, तेषामञ्जनभोजनाऽऽद्यपि भवेद् वस्तु प्रमाण स्फुटम्। आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा स्यादित्यन्धभुजगरन्ध्रगमवत् तीर्थः श्रितंत्वन्मतम्।।१।। इति / "अनधिगतार्थाधिगन्तृ प्रमाणम्" इत्यपि प्रमाणलक्षणं न मीमासकस्य मीमांसामासलतां सूचयति, प्रत्यभिज्ञानस्याप्रामाण्यप्रसङ्गात् अथात्रापूर्वोऽप्यर्थः प्रथते, "इदानीन्तनमस्तित्वं, न हि पूर्वधियाणतम्।" इति चेत् / इदमन्यत्रापि तुल्यम्, उत्तरक्षणसत्त्वस्य प्राक्क्षणवर्तिसंवेदनेनाऽवेदनात्। पूर्वोत्तरक्षणयोः सत्त्वस्यैक्यात् कथं तेन तस्याऽऽवेदनम् ?