________________ पभावणा 440 - अभिधानराजेन्द्रः - भाग 5 पभासचित्तगर चेदम् -कौशाम्ब्यां नगर्यां धनयक्षाऽभिधानश्रेष्टिनो धर्मपालवस्तुपालाऽभिधानावन्योऽन्यमतिस्नेहवन्तौ स्नेहवशादेव प्रायः समचितौ समशीलो समधनौ सुतावभवताम् / अन्यदा श्रीमन्महावीरवर्द्धमानस्वामी तत्र विहरन्नाजगाम। ततोऽसावमरवरविनिर्मितस्य रत्नाऽऽदिप्रभापटलविपुलजलमध्यगतस्य विचित्रपत्रपक्तित्रयोपेतसहस्रपत्रोपमस्य रजततपनीयमणिमयविशाल-शालवलयत्रयस्य मध्यगतः केशरनिकराऽऽकारकायो मधुकरनिकरकल्पाशोकानोकहनिरुद्धगगनाऽऽभोगः गगनतलोपनिपतत्कलहंसयुगलकल्पोपमीयमाननिर्मलधवलचामरयुगो मत्तमधुकरनिकरझङ्काररवरम्यतममहाध्वनिः जगज्जननियन्त्रकमोह-वरत्रात्रटत्त्रोटनपटीयांसं सुरनिवहसंकुलसंसदि सद्धर्माकुण्ठकुठारमुपदिशति स्म। ततः तत्रत्यो नरपतिः समवगतपारगताऽऽगमनवार्तोऽन्तःपुरपुरजनाऽऽदिपरिवृतो भक्तिभरावऽऽर्जितमानसोजिनान्तिकमाजगाम / तावपि नैगमनायकतनयौ भक्तिकौतुकाभ्यां तत्राऽऽगतौ / ततो भगवताऽभिहिते जन्तुसन्तानम्य कर्मबन्धहेतौ, वर्णिते मुक्तिकारणे, दर्शिते भवनैर्गुण्ये प्रकटिते निर्वाणसुखानन्त्ये, मोहनिद्राविद्रावर्णन दिनकरकरनिकरैरि-वाम्भोजराजयो भगवद्वचनैः प्रतिबुद्धा भूयांसो भव्यजन्तवः, ततस्तयोरपि वणिग्वरनन्दनयोज्येष्टस्य संपन्ना बोधिर्द्वितीयस्य तु वजतन्दुलस्येव दुर्भदत्वेन बोधिभिवत् / ततो ज्येष्ठस्य हर्षोऽजनि-अहो धन्योऽहं येन मयाऽनर्वागणारभवजलनिधिनिमग्नेन सद्धर्मयानपात्रमेवंविधमवाप्तम् इतरस्यतु क्लिष्टकर्मणो माध्यस्थ्यमेवाभवत / ततः परस्परस्याभिप्रायमवगतवन्ती-यथाऽवायोधर्मपरिणतिविशेषे भेदोऽभूत्। ततो ज्येष्ठो भगवन्तं पप्रच्छ / यदुतभगāस्तुल्यस्नेहयोरावयोस्तुल्य एव विभूतिरूपविनयाऽऽदिसंबन्धोऽभवद्, अधुना पुनर्मुक्तिफलकल्पतरुकल्पसम्यक्त्वविभूतिप्राप्तावतुल्यता जाता मम मित्रस्य तद्विकल्पत्वात. तत्किमत्र कारणम? ततो भगवानुवाच-भो भद्र ! भवन्तौ जन्मान्तरे ग्राममहत्तरसुतावभूताम्, ततो व्यसनोपहती चौर्यपरायणावभवताम् अन्यदा ग्रामान्तरं गत्वा गाः अपहृतवन्ती, ततस्ताः स्वस्थानं नयन्तो दण्डिपाशिकान् पश्वाल्लग्नान विज्ञाय तदयात् पलायमानौ गिरिगह्वरे प्राविशताम्, शैलगुहायां चाऽऽतापयन्तं महातपस्विनमपश्यताम्, ततस्त्वं संवेगमागतोऽवोचःयथा सुलब्धभस्य जन्म, योऽयं परित्यक्तसकलपुत्रकलत्रमित्राऽऽदिसंबन्धः सन्तोषसुखसागरावगाढो धर्मनिरतचित्तो विषयविरतः स्वर्गापवर्गसंसर्गाय तपस्यति। मादृशास्त्वधन्या उभयलोक-गर्हितमनर्थफलं,क्लेशबहुफल च चौर्यमाश्रिता इत्येवंविधा साधु-प्रशंसा भवतो बोधिबीजमजनि, इतरस्य तु यतिद्वेषो बोधिबीजदाही संजातः, इदं भवतोर्बोधर्भावाभावकारणमिति // 6 // उपसंहरन्नाहइति सर्वप्रयत्नेन, मालिन्यं शासनस्य तु। प्रेक्षावता न कर्तव्य-मात्मनो हितमिच्छता॥७॥ स्पष्टः // 6 // कर्तव्यं च किमित्याहकर्तव्या चोन्नतिः (उन्नतिः, प्रभावना। ) सत्यां, शक्ताविह नियोगतः। प्रधानं कारणं ह्येषा, तीर्थकृन्नामकर्मणः / / 8 / / हा०२३ अष्ट।। संवत्सरवासरे पूगीफलसहितनाणकप्रभावनांलान्ति, न वेति प्रश्ने, उत्तरम्-पूगीफलाऽऽदिसहिता तया रहितां वा प्रभावना लान्ति, पश्चाद यस्मिन ग्रामे या रीतिस्तदनुसारेण प्रवर्तितव्यमिति // 152 प्र०। सेन०४ उल्ला०1 पभावाल पुं० (प्रभावाल) तरुविशेषे, जं०२ वक्ष०। पभास पुं० (प्रभास) श्रीवीरजिनस्यैकादशे गणधरे, कल्प० 1 अधि०६ क्षण / आ०चू० / स च निर्वाणविषयसंदेहयुतो वीरान्ति-कमागत्य छिन्नसंशयः प्रवव्राज गणधरो जातः / ('गणहर' शब्दे तृतीयभागे 817818 पृष्ठे तन्मातापित्रादयो दर्शिताः) ('णिव्वाण' शब्दे चतुर्थभागे 2121 पृष्ट वक्तव्यता) "एकादशो गणधरः, श्रीवीरस्य गणेशितुः / प्रभासो नाम पावित्र्य,यस्य चक्रे स्वजन्मना ।।२४॥"ती०१० कल्प। वैभारगिरेः ऐरण्यवतवर्षीय-विकटाऽऽवृत्तवेताळ्यपर्वतराजदेवे, स्था०४ ठा०३ उ० / 'दो पभासा / " स्था०२ ठा०३ उ० / साकेतराजस्य महाबलस्य चित्रकरे, आक्० 4 अ०। श्रीप्रभनृपोपदेशके साधुगुरौ, ध० 3 अधि०। स्वनामख्याते भरतवर्षस्य पश्चिमदिग्भागस्थेतीर्थभेदे, ती० 41 कल्प। आ०क० / भरते हि पूर्वाऽदिक्रमेण 'मागहे वरदामे पभासे त्ति'' त्रीणि तीर्थानि / ज० 6 वक्ष० / संथा० / स्था० / आ० म० / बृ० / तच पाण्डववश्यराजपुत्रयोर्मतिसुमत्योः प्रवहणे औत्पातिकेन भाज्यमाने स्कन्दरुद्राऽऽदिदेवस्मरणेनानुपशान्तौ सुस्थितेन लवणाधिपेन महिम्नि कृते तत्र तीर्थत्वेन जातम इति धृतिमतित्वे उदाहृतम्। आव० 4 अ०। आ०चू०। पभासचित्तगर पुं० (प्रभासचित्रकर) स्वनामख्याते चित्रकरे, तत्कथा"विलसंतनागपुना-गसंगयं पुरमिहऽत्थि साएयं। कइलाससिहरसिहरं, व कि नु बहुरुइरधवलहरं / / 1 / / राया महाबलो रिउ-रुक्खाण महाबलु व्व तत्थऽस्थि। सो अत्थाणुवविट्ठो, अन्नदिणे पुच्छए दूयं / / 2 / / भो मम रायतरभा-विरायलीलोवियं न कि अत्थि। सो भणइ सामि ! सव्वं, पि अस्थि मुत्तूण चित्तसह / / 3 / / नयणमणोहारिविचि-तचित्तअवलोयणेण रायाणो। जकिर तीए वि फुड, कुणति चंकमणलीलाओ॥४॥ इय आयन्निय रन्ना, महलकोहल्लपूरियमणेण / आइटो वरमंती, तुरियं कारेसु चित्तसह / / 5 / / दीहरविसालसाला, बहुसउणालंकिया सुहच्छाया। उज्जाणमहि व्व लहु, महासहा तेण निम्मविया॥६।। आहूया नरवइणा, चित्तयरा चित्तकम्मकयकरणा। विमलपहासभिहाणा, तत्तो तुरियं पुरपहाणा |7|| अवद्धविभाएणं, विभइत्ता अप्पिया सहा तेसिं। दावित्तु अंतरा जव णियं च वुत्ता निवेणेवं / / 8 / / भो तुब्भेहिं कम्म, कथा वि न हु पिच्छियव्वमन्नुन्नं / नियनियमईइ निउण, इह चित्त चित्तियत्वं च / / 6 / / विद्धी न मन्नियव्वा, जहविन्नाणं काहिइ पसाओ। अहमहमिगाइ तत्तो, सम्म कम्म कुणति इमे / / 10 / / जाव गया छम्मासा, तो पुट्ठा उस्सुएण ते रन्ना /