________________ पभावणा 436 - अभिधानराजेन्द्रः - भाग 5 पभावणा संवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणगुणसंगतम्।यदाह- "उवसमसंवेगो विय निव्वेओतह य होइ अणुकपा अस्थित्तं वीयराए भवंति सम्मत्तलिंगाई // 1 // " भवन्ति सम्यग्दृष्टेः सद्बोधसामर्थ्यात् प्रशमाऽऽदयो गुणाः, विशिष्टक्रोधाऽऽदीनामभावात् / आह च- तन्नास्य विषयतृष्णा प्रभयत्युचैर्न दृष्टिसंमोहः / अरुचिर्न धर्मपथ्ये न च पापक्रोधकण्डूतिः / / 1 / / / आदिशब्दादन्येषामपि जिनशासनकुशलताऽऽदिगुणानां परिग्रहः / / तथाहि- "जिणसासणे कुसलया, पभावणा यणयसेवणा थिरया। भत्ती य गुणा सम्मत्तदीवगा उत्तमा पंच / / 1 / / " इति / तथा निमित्तं कारणं, सर्वसौख्यानां समस्तनरामरभवसंभवाऽऽनन्दविशेषाणाम्। आह च'सम्मत्त-म्मि उ लद्धे, ठइयाई नरयतिरियदाराई। दिव्वाणि माणुसाणि य, मोक्खसुहाइं सहीणाई // 1 // ' तथेति समुचये। सिद्धिसुखाऽऽवहं निर्वाणसौख्यप्रापकम् / ननु मोक्षसुखं न सम्यक्त्वमात्राद्भवत्यपि तु सम्यगदर्शनाऽऽदित्रयात् / यदाह- "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः।" ततः कथं सम्यक्त्वं सिद्धिसुखाऽऽवहमिति / अत्रोच्यतेससहायस्य सम्यग्दर्शनस्य सिद्धिसुखसाधकत्वात् सामग्यन्तभविन तदावहता न विरुद्धा, बीजाऽऽदिसामग्यन्त विनो वर्षस्येवाड्कुरहेतुतेति / / 4 / / अथ पूर्वोक्तस्य प्रवचनमालिन्यस्य वर्जनमुपदिशन्नाहअतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु / प्रेक्षावता न कर्तव्यं, प्रधानं पापसाधनम् / / 5 / / अनाभोगविहितमपि शासनमालिन्यं घोरसंसारकारणमिथ्यात्वकर्मनिबन्धन भवति। अत एतस्मात् कारणात् सर्वप्रयत्नेन सर्वाऽऽदरेण मालिन्य दूषण,शासनस्य प्रवचनस्य, तुशब्दोऽवधारणार्थः तस्य च प्रयोग दर्शयिष्यामः / प्रेक्षावता बुद्धिमता, न कर्तव्यम् नैव विधातव्यम् / कुत इत्याह-प्रधानमुत्कृष्ट, पापसाधनमशुभकर्मनिषन्धन,यत इति गम्यमिति // 5 // कुत एतदेषमित्याहअस्माच्छासनमालिन्या-जातौ जातौ विगर्हितम् / प्रधानभावादात्मानं, सदा दूरीकरोत्यलम्॥६|| अरमादनन्तरोदितमिथ्यात्वबन्धफलाच्छासनमालिन्यात्प्रवचनाऽपभाजनात्, जातौ जातौ भवे भवे,वीप्सायचनेन मालिन्यकारिणोऽनन्तं भवसन्तानं दर्शयति / विगर्हितं जात्यादिहीनत-योत्पत्ते विशेषण निन्दितम् / आत्मानमिति योगः। प्रधानभावात्प्रभुत्वादात्मानं स्वं, सदा सर्वकालं, दूरीकरोति अनासन्नं विदधाति, अप्राप्तव्यप्रभुत्वं करोतीत्यर्थः / अलमतिशयेनेति। शासनस्य मालिन्यं वर्जनीयमित्युपदिश्य तस्यैव यद्विधेयं तदुपदिशन्नाहकर्तव्या चोन्नतिः सत्या, शक्ताविह नियोगतः। अबन्ध्यं कारणं ह्येषा, तत्त्वतः सर्वसंपदाम् / / 7 / / - न केवलं शासनस्य मालिन्यं वर्जनीय, कर्तव्या च विधेया चोन्नतिः प्रभावना, सत्या विद्यमानायां शक्तौ सामर्थ्य, इहेति प्रक्रान्ते जिनशासने, नियोगतो नियमेन। कस्मादेवमित्याह-अबन्ध्यं फलसाधकं बीजमिव कारणम्, एषा शासनप्रभावना, हि यस्मात्कारणात्तत्त्वतः परमार्थतः सर्वसंपदा समस्तश्रियामिति / / 7 / / कथमित्याह अत उन्नतिमाप्नोति, जातौ जातौ हितोदयाम् / क्षयं नयति मालिन्यं, नियमात्सर्ववस्तुषु // 8 // अत एतस्मार्जिनशासनोन्नतिकरणादुन्नति जातिकुलरूपविभवाऽऽदिगुणैरुन्नतित्वमाप्रोत्यासादयति, जाती जातौ भवे भवे, हितः शुभानुबन्ध उदय उद्गमो यस्याः सा तथा तां हितोदयां, कल्याणानुबन्धिनीमित्यर्थः / एतेनार्थप्राप्तिकारित्वमुक्तम्। शासनोन्नतिकरणस्याथानर्थप्रतिघातकत्वमाहक्षयमपुन वन विनाशं नयति प्रापयति, मालिन्यं दुषणभावमात्मन इति गम्यते। नियमादवश्यन्तया, सर्ववस्तुषु जातिकुलबुद्ध्यादिसमस्तभावविषये, अतः कर्तव्योन्नतिरिति / / 8 / हा० 23 अष्ट०। अन्ये तु चतुर्थाऽऽदीनां श्लोकानां स्थाने सूत्रपञ्चश्लोकान् पठन्ति। यः शासनस्योन्नतौ प्रवर्तते सोऽन्येषांजीवानां सम्यक्त्वहेतुतां प्रतिपद्यतदेव सम्यक्त्वमनुत्तरमवाप्नोतीति तृतीश्लोकेऽभिहितमथ यथाऽसौ सम्यक्त्वहेतुतां प्रतिपद्यते तथा दर्शयन्नाहतत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः। प्रतिपद्यन्ते तदैवैके,बीजमन्येऽस्य शोभनम् / / 4 / / तदिति प्रवचनोन्नतिहेतुभूतं पूजाऽऽद्यनुष्ठानं, तथा तेन विशिष्टौदार्याऽऽदिना प्रकारेण, शोभन शासनान्तरासंभवित्वेन प्रधानं, दृष्ट्वा अवलोक्य, साधु प्रधान, शासनमार्हतप्रवचनं यत्रैवंविधमत्युदारमनवद्यमनुष्ठानम्, इति एवं प्रस्तुतबोधादित्यर्थः। अद एतदनन्तरलोकोपात्त सम्यक्त्वं प्रतिपद्यन्ते समाश्रयन्ते, तदैव तस्मिन्नेव काले, यदा जिनशासन प्रतिपक्षपात उत्पद्यते, एके केचन भव्याः, बीजमिव बीजं कारणं शासनपक्षपातरूपं प्रतिपद्यन्त एवेति / अन्ये सम्यग्दर्शनप्रतिप तृभ्योऽपरेऽस्य सम्यग्दर्शनस्य, शोभनमबन्ध्यं, कालान्तरे अवश्य सम्यग्दर्शनफलजननादिति // 4 // अथ सम्यक्त्वबीजस्य हेतुनां प्रतिपद्यमानः कथं सम्यक्त्वहेतुतां प्रतिपद्यते इत्यभिधीयते इति ? अत्रोच्यते -बीजस्य कालान्तरे सम्यक्त्वजननादेतदेवाहसामान्येनापि नियमाद्, वर्णवादोऽत्र शासने। कालान्तरेण सम्यक्त्व-हेतुतां प्रतिपद्यते // 5 // सामान्येनाऽपि अविशेषेणाऽपि, जिनशासनमपि साध्वित्येवंपरिणाम आस्ता पुनर्विशेषेण जिनशासनमेव साध्वित्येवं शासनान्तरव्यपोहेनाऽपि, नियमादवश्यंभावेन, वर्णवादः श्लाघा, सम्यग्दर्शनबीजमित्यर्थः / अत्रेति प्रत्यक्षे प्रत्यासन्ने जैन इत्यर्थः। लोके वा शासने प्रवचने, कालान्तरेण वर्णवादकरणकालादन्यः कालः कालान्तरं तेन, कियताऽप्यागामि कालेनेत्यर्थः / सम्यक्त्वहेतुतां सम्यग्दर्शननिमित्तता, प्रति. पद्यते भजते, सम्यक्त्वं जनयतीत्यर्थः।५। एतदेव दृष्टान्तेन भावयन्नाहचौरोदाहरणादेवं, प्रतिपत्तव्यमित्यदः। कौशाम्ब्यां स वणिग् भूत्वा, बुद्ध एकोऽपरो न तु // 6 // चौरोदाहरणात् स्तेनयोर्शातात्, एवमनेन प्रकारेण कालान्तरसम्यक्त्वहेतुतालक्षणेन, प्रतिपत्तव्यं प्रत्येतव्यम्, इतिशब्दो वाक्यपरिसमाप्तौ, वक्ष्यमाणदृष्टान्तार्थोपदर्शनार्थो वा। अदः एतद्वर्णवादरूपबीजस्वरूपम्। चौरोदाहरणं भावयन्नाह-कौशाम्च्यां नगास शासनवर्णवादकारी चौरवणिक् वाणिजको, भूत्वा उत्पद्य, बुद्धो बोधि प्राप्त एकः, अपरोऽन्यो, न तु नैवेत्यक्षरार्थः / भावार्थः कथानकग्रम्यः / त