SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ पभालग 438 - अभिधानराजेन्द्रः - भाग 5 पभावणा न्दाविचारवर्णनस्त्रयोदशोऽधिकारः / जीवा० 13 अधि० / दश०। नि०० / संथ०। ध०। पभावणा- स्त्री० (प्रभावना) जिनशासनोद्भावनायाम्, पञ्चा० 6 विव० / स्वतीर्थोन्नतिकरणे, उत्त० 28 अ० / धर्मकथाऽऽदिभिस्तीर्थख्यापनायाम, ध०१ अधिक प्रभाव्यते विशेषतः प्रकाश्यते इति प्रभावनाव्युत्पत्तेः णिच् / 'ण्यासश्रन्थो० // 3 // 3 / / 107 / / इत्यादिना (पाणि०) भावेऽनप्रत्ययः / स चार्थात्प्रवचनस्य / व्य०१ उ० / वृ० / प्रभावना धर्मकथा प्रतिवादिनिर्जयदुष्करतपश्चरणाऽऽदिभिर्जिनवचनप्रकाशनं, यद्यपि च प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वाद्वा / स्वयमेव दीप्यते, तथाऽपि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिक: स तेन तत्प्रवचनं प्रभावयति; यथा भगवदाचार्यवज्रस्वामिप्रभृतिक इति। प्रव०६ द्वार। जिनशासनस्योत्सर्पणकरणे, ध०३ अधि० / प्रभवति जैनेन्द्र शासन, तस्य प्रभवतः प्रयोजकत्वे, ध०२ अधि०। धर्मकथाऽऽदिभिरर्थख्यापनायाम्, “पभावणाए उदाहरणं ते चेव अज्जवइरा, जहा तेहिं अग्गिगिहाओ सुहुमकाइयाई आणेऊण सासणस्स उन्भावणा कता, एवमक्खाणयं जहा आवस्सए तहा कहेयव्वं / " ('तचाऽऽख्यानकम् अजवइर' शब्दे प्रथमभागे 218 पृष्ठे विस्तरत उक्तम्) एवं साहुणा वि सव्वपयत्तेण सासण उढभवियव्यं।" दश० अ०1 ग० / संथा०। जीत० / नि००। "चोदग आह-णणु जिणाणं पवयणं सभावसिद्धंण झ्याणिं साहियव्वं?" गुरु भणइकामं सभावसिद्धं, तु पवयणं दिप्पते सयं चेव। तह वि य जो जेणऽहिओ, सो तेण पभावए तं तु // 31 / / कामसद्दोऽभिधारियत्थे, अणुमयत्थे वा / इह तु अणुमयत्थे दट्ठव्यो। सो भावी सभावो सहजभावः, आदित्यतेजोवन्नपरकृतेत्यर्थः / तेन स्वभावेन सिद्ध प्रख्यातं, प्रथितमित्यर्थः / तुः पूरणे। 'प्र' इत्ययमुपसर्गः, युति जं तं वयणं पावयणं पवयणं, पहाणं वा वयणं पवयणं, पगत वा धयणं, पसत्थं वा वयणं पवयण, दीप्यते भासते सोभते इति भणियं भवति। सयमिति अप्पाणेण, चसद्दो अत्थाणुकरिपणे। एवसद्दो अवहारणे। (तह वि यत्ति) जइ वि य एवसद्दणावधारियं पवयणं सयं पसिद्ध तह वि य पभावण भण्णति, चशब्दो जहाहसम्भवं योजो, जोगारेण अणिद्दिवो पुरिसो, जेण त्ति अणिद्दिष्टेण अतिसएण अधिको प्रबलो। जोगारुट्टिस्स सोगारो णिवेसे, तेगारो वि जेगारस्स णिद्देसे / प्रख्यापयति तदिति प्रवचनम् / अमूढदिट्ठिउववूहथिरीकरणवच्छल्लपभावणाणं सरूवया भणिता। नि०चू०१ उ० / तीर्शप्रभावनानिमित्तं प्रतिवर्षमेकैकशोऽपि गुरुप्रवेशोत्सवः संघपरिधापनिका प्रभावनाऽऽदि च कार्यम् / ध०२ अधि०। धर्मार्थना भावशुद्धिर्विधेयेत्युपशमतामिच्छता शासनमालिन्य सर्वथा रक्षणीयम्। अन्यथा महाननर्थ इति दर्शयन्नाहयः शासनस्य मालिन्ये-नाभोगेनाऽपि वर्तते। स तन्मिथ्यात्वहेतुत्वा-दन्येषां प्राणिनां ध्रुवम् // 11 // बध्नात्यपि तदेवालं, परं संसारकारणम् / विपाकदारुणं घोरं, सर्वानर्थविवर्धनम् / / 2 / / यः कोऽपि श्रमणाऽऽदिः शासनस्य जिनप्रवचनस्य मालिन्ये लोकविरुद्धाऽऽचरणेनोपघाते। आह च - "छकायदयावंतो, वि संजतो दुल्लभ कुणइ बोहिं। आहारे नीहारे, दुंगुछिए पिंडगहणे / / 1 / / " अनाभोगेनापि अज्ञानेनापि, किं पुनराभोगेनाऽपि. व्याप्रियते स प्राणी तेन जिनशासनमालिन्येन करणभूतेन मिथ्यात्वहेतुर्विपर्ययबोधजनकस्तन्मिथ्यात्वहेतुः, तद्भावस्तत्त्वम्। अथवा-तस्मिन् जिनशासनविषये मिथ्यात्वहेतुत्वं मिथ्यात्वभावजनकत्वन्-तन्मिथ्यात्वहेतुत्वं, तस्मात्तन्मिथ्यात्वहेतुत्वात्, केषां मिथ्यात्वहेतुत्वादित्याह-अन्येषामात्मव्यतिरिक्तानां, ये हि तस्यासदाचारेण जिनशासनं हीलयन्ति तेषा, प्राणिना जीवानां, ध्रुवमवश्यन्तया। बधात्यपि स्वात्मप्रदेशेषु संबन्धयत्यपि न केवलं तेषां तज्जनयति, तदेव मिथ्यात्वमोहनीयकर्मव यदन्यप्राणिनां जनितं, न त्वन्यच्छुभं कर्मान्तरम्, अलमत्यर्थ निकाचनाऽऽदिरूपेण, परं प्रकृष्ट, संसारकारणं भवहेतुं, विपाकदारुण दारुणविपाक, घोर भयानकं, सर्वाऽनर्थविवर्धनम-निखिलप्रत्यूहहेतुम् / ननु सम्यगदृष्टिर्न मिथ्यात्वं बध्नाति, मिथ्यात्वहेतुकत्वान्मिथ्यात्वप्रकृतेः? अत्रोच्यते-शासनमालिन्योत्पादनाऽवसरे मिथ्यात्वोदयात् मिथ्यादृष्टिरेवाऽसावतो मिथ्यात्वबन्ध इति / / 1 / / उक्तविपर्यये गुणग्नतिपादनायाऽऽहयस्तून्नतौ यथाशक्ति,सोऽपि सम्यक्त्वहेतुताम्। अन्येषां प्रतिपद्येह, तदेवाऽऽप्नोत्यनुत्तरम्।।३।। यस्तु यः पुनः प्राणी, उन्नतौ प्रभावनाया, शासनस्य इति वर्तते / यथाशक्ति सामर्थ्यानुरूपं, वर्तते इत्यनु वर्तते / तत्र साधुः प्रावचनिकत्वाऽऽदिना शासनोन्नतौ वर्तते / यदाह- "पावयणी धम्मकही'' (6.48 गाथा प्रव०२३ द्वार पभावग' शब्दे सार्था दर्शिता) श्रावकस्तु कार्पण्यपरिहारतो विधिमता जिनबिम्बस्थापनयात्राकरणेन जिनभवनगमनजिनपूजनाऽऽदिना साधुसाधर्मिककृपणाऽऽधुचितकरणपुरस्सरभोजना चेति / सोऽपि शासनप्रभावकःप्राणी, न केवलं शासनमालिन्यकारी स्वव्यापारानुरूपं फलमासादयति, शासनप्रभावकोऽपि स्वव्यापारानुरूपमेव फलमवाप्नोतीत्यपिशब्दार्थः / सम्यक्त्वहेतुतां शासनोन्नतिकरणेन सम्यग्दर्शनलाभस्य निमित्तभावम्, अन्येषामात्मव्यतिरिक्तप्राणिनां समुपजनितशासनपक्षपातानां, प्रतिपद्य स्वीकृत्य, इहेत्यस्मिन जन्मनि, तदेव सम्यक्त्वं, न तु मिथ्यात्वम्, आप्नोत्यासादयति, अनुत्तरम्-सर्वोत्तममक्षायिकमित्यर्थ इति / / 3 / / सम्यक्त्वस्वरूपमाहप्रक्षीणतीव्रसंक्लेशं, प्रशमाऽऽदिगुणान्वितम्। निमित्तं सर्वसौख्यानां, तथा सिद्धिसुखाऽऽवहम् ||4|| प्रक्षीणो निःसत्ताकतां गतस्तीव्र उत्कटः संक्लेशोऽनन्ताऽनुबन्धिकषायोदयलक्षणो यस्मॅिस्तत्तथा। यतोऽनन्तानुबन्ध्युदये तन्न भवतीति। यदाह- “पढमिल्लुयाण उदए. नियमा संजोयणा कसायाणं / सम्मइंसणलंभ,भवसिद्धी याविन लहंति // 15" प्रशमाऽऽदिगुणान्वितं प्रशम
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy