SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ पभावई 437 - अभिधानराजेन्द्रः - भाग 5 पभावग भाव्याम्, आ०चू० 1 अ० / सागरचन्द्रमातरि, आव० 1 अ० / हस्तिनापुरनगरराज्ञो बलस्य भार्यायां महाबलकुमारस्य मातरि, भ० 11 2011 उ०। (कथा 'उदायण' शब्दे द्वितीयभागे७८८ पृष्ठे। 'दसउर' शब्दे चतुर्थभागे 2477 पृष्ठे च गता) पभावग पुं० (प्रभावक) दर्शनोद्भावके, प्रव० / "अट्ठ प्रभावग ति" विवरीषुराहपावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धोय कवी,अद्वैव पभावगा भणिया / / 948|| प्रवचनं द्वादशा, तदस्यास्त्यतिशयवदिति प्रावचनी युगप्रधानाऽऽगमः, धर्मकथा प्रशस्याऽस्याऽस्तीति धर्मकथी, यः क्षीराऽऽश्रवाऽऽदिलब्धिसंपन्नः सजलजलधरध्वानानुकारिणा नदिनाऽऽक्षेपणीविक्षेपणीसंवेगजननीनिवेदनीलक्षणा चतुर्विधां जनित-जनमनःप्रमोदप्रथा धर्मकथा कथयति,वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षप्रतिक्षेपपूर्वक स्वपक्षस्थापनार्थमवश्यं वदतीति वादी, निरुपमवादलब्धिसंपन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्यमन्दीकृतवा गविभव इति भावः / निमित्त त्रैकालिकलाभालाभप्रतिपादकं शास्त्रं, तद्वेत्त्यधीते वा स नैमित्तिकः, सुनिश्चितातीताऽऽदि निमित्तवेदीत्यर्थः / विप्रकृष्ट-टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपस्वी / (विज त्ति) मतुप्प्रत्ययलोपात विद्यावान, विद्याः प्रज्ञप्त्यादयः शासनदेवता-स्ताः सहायके यस्य स विद्यावान्, वज्रस्वामिवत् / अञ्जनपादलेपतिलकगुटिकासकलभूताऽऽकर्षणवैक्रियत्वप्रभृतयः सिद्धयः ताभिः सिद्ध्यति स्मेति सिद्धः। 'कवते नवनवभङ्गीवैदग्ध्यदिग्धैः पाकातिरे करसनीयरसरहस्याऽऽस्वादमेदुरितसहृदयहृदयाऽऽनन्दैनि:-शेषभाषावैशारद्यवैदग्ध्यहृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति कविः / एते प्रवचन्यादयोऽष्टी प्रभावयन्ति स्वतः प्रकाशकस्वभावमेव देशकालाऽऽद्यौचित्येन सहायकरणात्प्रवचनं प्रकाशयन्तीति प्रभावकाःकथिताः, तेषां च कर्म प्रभावना, सा च सम्यक्त्वं निर्मलीकरोतीति / अन्यत्र पुनरन्यथाऽष्टी प्रभावका उक्ताः / तथाहि"अइसेस इड्डि 1 धम्मकहि, 2 वाई 3 आयरिय 4 खवग 5 नेमित्ती 6 / विजा ७य रायगणसंभया य 8 तित्थं पभाति / / 1 / / " अस्य व्याख्या-तत्र अतिशेषा अवधिमनःपर्यायज्ञानाऽऽमर्पोषध्यादयोऽतिशयास्तैस्तेर्वा ऋद्धिर्यस्यासी अतिशेषद्धिः, राजसमता नृपवल्लमाः, गणसमता महाजनाऽऽदिबहुमता इति / / 648|| प्रव० 23 द्वार / जीवा०। संथा०। ध०। अइसेसइड्डि धम्मकहिं, वादी आयरिय खमग णे मित्ती। विज्जा रायागणसं-मताय तित्थं पभावेति // 33 / / (अइसेस त्ति) अति सयसंपण्णो, सोय अतिसओ मणोहिअ-इसया अज्झयणा य / (इड्डि ति) इड्डिदिक्खिता रायाऽऽमच्चपुरोहितादि / (धम्मकहि ति) जे अक्खेवणि विक्खे वणिणिव्वे यणि संवेयणिए धम्ममातिक्खंति / वादी-वायद्धिसंपण्णो अजे ओ / आयरिओ सपरसिद्धतपरूवगो। खमगोमासियाऽऽदि / नेमित्ती अटुंगणिमित्तसंपण्णो। विजासिद्धो जहा-अजखउडो। रायसंमतो रायवल्लभेत्यर्थः / गणा पुरचा उविजादि, तेसिं सम्मतो। एते अट्ठविपुरिसा तित्थं पगासंति, परपक्खे ओभावेंति। भणिया दिहता / नि०चू०१ उ०। (अत्र प्रभावनमकुर्वता प्रायश्चित्तं दसणाया-रातियारपायच्छित्त' शब्दे चतुर्थभागे 2437 पृष्ठे प्रतिपादितम्) दर्शनप्रभावकाऽऽचार्यनिन्दाकेण वि गुणेण दंसण-पभावगं पिच्छिऊण आयरियं / केई कसायनडिया, तं पिहु हीलंति मूढमई // 7 // केनाऽपि अनिर्दिष्ट नाम्रा गुणेन जीवस्य निर्मलीकरणस्वभावेन दर्शनप्रभावकं, सर्वज्ञशासनप्रकाशकं प्रेक्ष्याऽऽचार्य सूरि केऽपि,न सर्वे, कषायनटिताः क्रोधाऽऽद्यभिहतास्तमपि दर्शनकबलमित्यपिशब्दार्थः / हीलयन्ति तिरस्कुर्वन्ति मूढमतय : कुबोधत्वाऽऽदिबाधितधिषणा इति गाथार्थः। अमुमेवार्थ सिद्धान्तभणित्या निवारयन्निदमाहकप्पम्मि वि भणियमिणं, सूरिणाऽऽसायगा इमे भणिया। जे सयलजणसमक्खं, भणंति एवं अहम्माणी // 76 / / कल्पेऽपि छेदग्रन्थे न केवलं शेषशासने इत्यपिशब्दार्थः / भणितमुक्तमिदं पूर्वोक्तम् / कथमित्याह-सूरीणामाचार्याणामाशातका अवज्ञाकारका इमे वक्ष्यमाणा भणिताः प्रतिपादिताः, ये अनिर्दिष्टनामानः साध्वादयः सकलजनसमक्षं समस्तलोकप्रकट भणन्ति गदन्त्येवं वक्ष्यमाणनीत्या, अहंमानिन आत्मोत्सेकिन इति गाथार्थः / कल्पोक्तमेवाऽऽहइड्डिरससायगरुया, परोवएसुज्जया जहा मंखा। अत्तह्रघोसणरया,पोसंति दिया व अप्पाणं / / 77|| परोपदेशोद्यता अन्यधर्मकथननियुक्ता मङ्खा इव विचित्र फलकग्राहिनरविशेषा इव, यथाशब्द उपमानार्थः, सच योजितः, एवमभिप्रायः- मड्खो हि परेभ्यः कथयति, स्वयं च न करोत्येव- मेतेऽपि आत्मार्थ घोषणरताः स्वकार्यप्रतिपादनासक्ताः,पोषयन्ति उपचिन्वन्ति द्विजा इव ब्राह्मणा इवाऽऽत्मानं स्वमेवं वदन्त आचार्याऽऽशातका इति हृदयमिति कल्पगाथार्थः। अत्रैवार्थे सूत्रेणैव ससंबन्धां किश्चिद् न्यूनां गाथामाहअन्नं च एत्थ दोसो,लोयविरुद्धं हविज इय वयणं / रीढा जणपुज्जाणं, वयणाउ"" अन्यच्चेत्यभ्युचये। अत्राऽऽचार्यावर्णवादकरणे दोषो दूषणं लोको-विरुद्धं जननिन्द्यं भवेज्जायतेति वचनमेवं प्रतिपादनम्। कस्मात्? रीढा अवज्ञा जनपूज्याना लोकमान्यानां वचनात् पञ्चाशकभण-नात् / तत्र हि लोकविरुद्धानि प्रतिपादयता भणितम्- "बहुधम्म-चरणहसणं, रीढा जणपूयणिज्जाणं।'' इति किञ्चिदूनगाथार्थः / / 4 / / एवं स्थिते जीवोपदेशं साधिकगाथया प्राह """""""ता तुमंजीव // 78|| मा मा कुणसु अवण्णं, सया वि खलु तेसि कसाय नडिओ वि जेण भवपंजराओ, मुच्चसि निस्ससयं झ त्ति / / 7 / / तस्मात्त्वं जीव / / 78|| मा कुरु अवज्ञां सदाऽपि तेषां दर्शनप्रभाव काऽऽचार्याणां कषायनटितोऽपि, ये न भवपञ्जरात् मुच्यते निरसंशयं झगितीनि गाथाऽक्षरार्थः / दर्शनप्रभावकाऽऽचार्यनि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy