________________ पत्थार 432 - अभिधानराजेन्द्रः - भाग 5 पत्थार रात्निकं विना स एकाकी समायातः / गुरुभिरुक्तः-किमेककी त्वमागतोऽसि ? स प्राऽऽह-नाहं प्राणवधकारिणा सार्द्धमटामि। एवमुक्ते रात्निक आगतः / गुरुभिरुक्तः सम्यगालोचय कोऽपि प्राणी त्वया व्यपरोपितो, नवेति। स प्राह-नव्यपरोपितः। एवं त्रीन वारान् यावदालोचाप्यते, यदि त्रिष्वपि वारेषु तदेव विकटयति आलोचयति, तदा परिस्फुटमेव कथ्यते। तुमए किर ददुरओ, हओ त्ति सो विय भणाति ण मए त्ति! तेण परं तु पसंगो, धावति एक्के य वितिए वा ||8|| किलेति द्वितीयस्य साधोमुखादस्माभिः श्रुतं-त्वया दर्दुरो हतो विनाशितः / स प्राऽऽह-न मया हत इति / ततः परमेवंभ णनानन्तरं प्रसङ्गः प्रायश्चित्तवृद्धिरूप एकस्मिन् रात्निके द्वितीये वा अधमरात्निके धावति। किमुक्तं भवति? यदि तेन रात्निकेन सत्यमेव दर्दुरो व्यपरोपितस्ततो यदि सम्यगा लोचयति भण्यमानो भूयो भूयो निकुते तदा तस्य प्रायश्चित्तवृद्धिः। अथ तेन न व्यपरोपितस्तत इतरस्याभ्याख्यान निकाचयतः प्रायश्चित्तं वर्द्धते। इदमेव भावयतिएक्कस्स मुसावादो, काउंनिण्हाइणो दुवे दोसा। तत्थ विय अप्पसंगी, भवति एक्को व अन्नो वा / / 81 // एकस्याभ्याख्यानदातुरेक एव मृषावादलक्षणो दोषः, यस्तु दर्दुरखधं कृत्वा निहतेतस्य द्वौ दोषौ / एकः प्राणातिपातदोषो, द्वितीयो मृषावाददोष इति। तत्राऽपि चाभ्याख्याने, प्राणातिपाते च कृतेऽप्येकोऽन्यो वाऽवमरात्निको यद्यप्रसंगी भवति तदा न प्रायश्चित्तवृद्धिः / किमुक्तं भवति ? यद्यवमरात्निकोऽभ्याख्यानं दत्त्वा न निकाचयति, यो वा अभ्याख्यातः सोऽपि न रुष्यति, तदा न प्रायश्चित्तवृद्धिः। अथाभ्याख्यातो भूयो भूयः समर्थयति, इतरोऽपि भूयो रुष्यति, तदा प्रायश्चित्तवृद्धिः। एवंद१रविषयः प्रस्तारो भवति।शुनकसर्पमूषकविषया अपि प्रस्तारा एवमेव भावनीयाः। गतः प्राणातिपातप्रस्तारः। सम्प्रति मृषावादाऽदत्ताऽऽदानयोः प्रस्तारमाहमोसम्मि संखडीए, मोयगगहणं अदत्तदाणम्मि। आरोवणपत्थारो, तं चेव इमं तु णाणत्तं / / 2 / / मृषावादे संखडीविषयं दर्शनम्, अदत्तादाने मोदकग्रहणम्, एतयोयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः। इदं तु नानात्वं विशेषःदीणकलुणेहि जायति, पडिसिद्धो विसति एसणं वहति। जंपति मुहप्पियाणि य, जोगतिगिच्छानिमित्ताई॥८३।। कस्यामपि संखड्यामकालत्वात्प्रतिसिद्धः साधू अन्यत्र गतैः, ततो मुहुर्तान्तरे रत्नाधिकेनोक्तम्- व्रजाभः संखड्यामिदानी भोजनकालः सम्भाव्यते। अवमो भणति-प्रतिषिद्धोऽहं न व्रजामि। ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति-यथाऽयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां वहति प्रेरयति / अथवा एष गृहं प्रविष्टो मुखप्रियाणि योगचिकित्सानिमित्तानि जल्पति। एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति। सचाऽयम्वचइ भाणइ आलो-यय णिकाए पुच्छिए णिसिद्धे या साहु गिहिम्मि य सव्वे, पत्थारो जाव वदमाणे / / 4 / / मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य। छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च // 15 // गाथाद्वयमपि गताथम्। अथादत्ताऽऽदाने मोदकग्रहणदृष्टान्तं भावयतिजा फुसति भाणमेगो, वितिओ अण्णत्थ लड्डुए ताव। लखूण णीति इयरो, तद्दिस्स इमं कुणति कोइ।।८६|| एकत्र गृहे भिक्षा लब्धा, साऽवमेन गृहीता, यावदसौ एकोऽवमरत्निको भाजनं स्पृशति सम्यगादिष्टः तावत् द्वितीयो रत्नाधिकोऽन्यत्र संखड्यां लड्डुकान लब्ध्वा च निगच्छति, इतरः पुनरवमस्तान मोदकान दृष्ट्वा कश्चिदीर्ष्यालुरिदं करोति- "वच्चई" गाहा (84) "मासो लहुओ' गाहा (85) (वच्चइत्ति) सं निवृत्य गुरुसकाश व्रजति, आगम्य च भणति आलोचयेति, रत्नाधिकेनादत्ता मोदका गृहीता इति / शेषं प्राग्वत् / अथाऽविरतिवादे प्रस्तारमाहरातिणियवातितेणं, खलियमिलियपेल्लएण उदएणं। देवउले मेहुणम्मि य, अक्खाणं वा कुडंगे वा // 87 / / कश्चिदवमरात्निको रत्नाधिकेनाभीक्ष्ण शिष्यमाणः चिन्तयति-एष रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण मा दशविधचक्रबालसामाचार्यामस्खलितमपि कषायोदयेन तर्जयति / यथा हे दुष्ट! शिष्यक ! स्खलितोऽसीति तथा मां भिन्नतरमपि पदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं हा दुष्ट शैक्षा किमिति मिलितमुच्चारयसीति तर्जयति। तथा (पिल्लण त्ति) अन्यैःसाधुभिर्वार्यमाणोऽपि कषायोदयतो मा हस्तेन प्रेरयति / अथवेषा सामाचारी-रत्नाधि-कस्य सर्व क्षन्तव्यमिति, ततस्तथा करोमि, यथैष मरुलघुको भवति, ततोऽन्यदा द्वायपि भिक्षाचर्यायै गतौ तृषितौ वुभुक्षितौ चेत्येव चिन्तितवन्तौ यदस्मिन्नार्यादेवकुले कुडङ्गे वा वृक्षविषमे प्रथमालिका कृत्वा पानीयं पास्याम इति / एवं चिन्तयित्वा तौ सुख स्थितौ / अत्रान्तरे अवमरत्नाधिकः परिवाजिकामेकां तदभिमुखभागच्छन्तीं दृष्टा स्थितो, लब्ध एष इदानीमिति चिन्तयित्वा तं रत्नाधिक वदति-अहो ज्येष्ठाऽऽये ! कुरु त्वं प्रथमालिकां पानीय वा, अहं पुनः संज्ञा व्युत्सृक्ष्यामि। एवमुक्त्वा त्वरितं वसतावगत्य मैथुने अभ्याख्यातुं दातुं यथाऽऽलोचयति, तथा दर्शयतिजेट्ठजेण अकजं, सज्जं अजाघरे कयं अजं / उवजीवितोऽत्थ भंते!,मए वि संसट्ठकप्पोऽत्थ।।५५|| ज्येष्ठाऽऽर्वेणाद्य सद्य इदानीमागृहे कृतमकार्य मैथुनसेवालक्षणं, ततो यदव तत्संसर्गतो मयाऽपि संसृष्टकल्पो मैथुनप्रतिसेवनेऽस्मिन् प्रस्ठावे उपजीवितः / अत्राऽप्ययं प्रायश्चित्तप्रस्तार:-("वचति भणाति गाहा' (84) ('मासो लहुओ गाहा'' (85) अवमरात्निको निवृत्त्य गुरुसकाशं व्रजति लघुमासः / आगम्य च (गुरूत्तण त्ति) ज्येष्ठाऽऽर्येण मया वाऽकृत्यमासेवितमतो मम तावन्महाव्रतान्यारोपयत, एवं रत्ना