SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ पत्थार 431 - अभिधानराजेन्द्रः - भाग 5 पत्थार ददुर सूणए सप्पे, मूसग पाणातिवादुदाहरणा। एतेसिं पत्थारं, वोच्छामि अहाणुपुवीए।।७४।। प्राणातिपाते एतान्युदाहरणानि निदर्शनानि भवन्ति-दर्दुरः, शुनकः, सर्पो, मूषकश्चेति। एतेषामेतद्विषयमित्यर्थः / प्रस्तार प्रायश्चित्तरचनाविशेष यथानुपूया वक्ष्यामि। तत्र दर्दुर विषयं तावदाहओमो चोदिजंतो, दुपहियाऽऽदीसु संपसारेति। अहमवि णं चोदिस्सं, ण य लब्भति तारिसं छिदं // 75|| अवमोऽवमरात्निको रात्निकेन दुःप्रत्युपेक्षिताऽऽदिषुस्खलि तेषु भूयो भूयो चोद्यमानः संप्रसारयति मनसि पर्यालोचयति। (अहमविणं) एनं रात्निक नोदयिष्यामि, एवं पर्यालोच्य प्रयत्नेन गवेषयतोऽपि तादृशं छिद्र रात्निकस्य न लभते। अन्नेण घातिए द-दरम्मि दल चलणं कतं ओमो। उद्दवितो एस तुमे-ण वत्ति वितियं पिते णत्थि // 76|| अन्यदा च भिक्षाऽऽदिपर्यटते अन्येन केनाऽपि ददुर घातिते रात्निकेन तस्योपरि चरण पादं कृतं दृष्ट्वा अवमो प्रवीति-एष दर्दुरस्त्वया अपद्राविः / रात्निको वक्ति-न मया अपद्रावित, द्वितीयमपि मृषावादव्रतं ते तव नास्ति। री च दण्डनीयो भवेदिति भावः / अथवा प्रस्तारान् प्रस्तीर्य चिरन्तनस्याचाऽऽर्येणाभ्याख्यानदाता अप्रतिपूरयन अपरापरप्रत्ययवचने समर्थ सत्यमकुर्वन् तत्थानप्राप्तः, कर्तव्य इति शेषः। यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते, न यदीतरमारभते, तत्पदं प्रापणीय इति भावः / एष सूत्रार्थः। अथ भाष्यकारो विषमपदव्याख्यामाहपत्थारो उ विरचणा, स जोतिसछंदगणितपच्छित्ते। पच्छित्तेण तु पगयं, तस्स तु भेदा बहुविगप्पा / / 7 / / प्रस्तारो नाम-विरचना, स्थापना इत्यर्थः / स च चतुर्झज्योतिषप्रस्तारः, छन्दःप्रस्तारो, गणितप्रस्तारः, प्रायश्चित्तप्रस्तारश्चेति। अत्र प्रायश्चित्तप्रस्तारेण प्रकृत, तस्य च प्रायश्चित्तस्यामी बहुविकल्पा अनेकप्रकारा भेदा भवन्ति। तद्यथाउग्घातमणुग्घाते, मीसे य पसंगि अप्पसंगी य। आवजणदाणाई, पडुच वत्थु दुपक्खे वि // 71 / / इह प्रायश्चित्तं द्विधा-उद्घातम्, अनुरात था। उद्घातं लघुकं, तब लघुभासाऽऽदि। अनुद्घातिकं गुरुकं, तच्च गुरुमासाऽऽदि। तदुभयमपि द्विधा-मिश्र, चशब्दादमिश्रं च / मिश्रं नाम-लघुमा-साऽऽदिकं, तपःकालयोरकतरेण द्वाभ्यां वा गुरुक, गुरुमासाऽऽदिक वा, तपसा कालेन वा द्वाभ्यां वा लघुकम् / अमिरं तु लघुमासाऽऽदिकं तपःकालाभ्यां द्वाभ्यामपि लघुकं गुरुमासाऽऽदिकम्, द्वाभ्यामपि गुरुकम्। उभयमपि च तपःकालविशेषरहितं पुनरपि द्विधा-प्रसङ्गि अप्रसङ्गि च। प्रसङ्गि नामयदभीक्षा प्रतिसेवरूपेण शङ्काभोजिकाघाटिकाऽऽदिपरम्परारूपेण वा प्रसङ्गेनयुक्तम् तद्विपरीतमप्रसभि / भूयोऽप्येतदेकैक द्विधा-आपत्तिप्रायश्चितं, दानप्रायश्चित्तं च / एतत्सर्वमपि प्रायश्चित्तं च द्विपक्षेऽपिश्रवणपक्षे, श्रमणपक्षे च वस्तु प्रतीत्य मन्तव्यः। वस्तुनाम-आचार्याऽsदिकं, प्रवर्तिनीप्रभृतिकं च / ततो यस्य वस्तुनो यत्प्रायश्चित्तं योग्यं तत्तस्य भवतीति भावः / एष प्रायश्चित्तप्रस्तार उच्यते। "सम्म अपडिपूरेमाणे ति" पदं व्याचष्टेजारिसएणऽभिसत्ती, सचाधिकारीण तस्स सगणस्स। सम्मं अपूरयंतो, पच्चंगिरमप्पणो कुणति // 72 / / यादृशेन दर्दुरमारणाऽऽदिना अभ्याख्यानेन स साधुरभिशप्तोऽभ्याख्यातः स तस्य स्थानस्य नाधिकारी न योग्यः, अप्रमत्तत्वात्। अतोऽभ्याख्यानं दत्त्वा सम्यगप्रतिपूरयन् अनिर्वाहयन् आत्मनः प्रत्यङ्गिरा करोति, तं दोषमात्मनो लगयतीत्यर्थः / कृता विषभपदव्याख्या भाष्यकृता। सम्प्रति नियुक्तिविस्तरःछच्चेव य पत्थारा, पाणवहे मुसें अदत्तदाणे अ। अविरति अपुरिसवादे, दासे वादं व वदमाणे / / 73|| षडेव प्रस्तारा भवन्ति / तद्यथा-प्राणवधवादं, मृषावादवादमदत्ताऽऽदानवादमविरतिकावादमपुरुषवादं, दासवादं च वदन्निति / इति। तत्र प्राणबधवादे प्रस्तारं तावदभिधित्सुराह एवं भणतस्यस्येयं प्रायश्चित्तरचनावचति भणाति आलो-य निकाए पुच्छिते णिसिद्धे या साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणो 77 / मासो लहुओ गुरुओ, चउरो लहुगा य हॉति गुरुगा या छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च / / 78|| स एव मुक्त्वा ततो निवृत्त्याऽऽचार्यसकाशं व्रजति मासलघु, आगत्य भणति-यथा तेन दर्दुरो मारितः, एवं भणतो मासगुरु।योऽवमाभ्याख्याता स गुरूणां सकाशमागतः,आचार्य श्चोक्तम्-(आलोय त्ति) सम्यगालोचय किमयं भवता दर्दरो मारितः। स प्राह-नमारयामि। एवमुक्ते प्रत्याख्यानदातुश्चतुर्लधु (निकाय त्ति) इतरो निकाचयति। रात्निकस्तु भूयोऽपि तावदेव भणति, तदा चतुर्गुरुा अवमरात्निको भणति-यदिन प्रत्ययस्ततः तत्र गृहस्थाः सन्ति, ते पृच्छयन्ता, ततो वृषभा गत्वा पृच्छन्ति, पृष्टे च सति षट् लघु / गृहस्थाः पृष्टाः सन्तः (निसिद्धे त्ति) निषेधं कुर्वन्ति, नास्माभिर्द१रख्यपरोपणं कुर्वन् दृष्ट इति षट्गुरु। (साहु त्ति) ते साधवः समागताः आलोचयन्ति नापद्रावित इति तदा च्छेदः / (गिहि त्ति) अथैवमभ्याख्यानदाता भणति-गृहस्था असंयता यत्प्रतिनाम चैतदलीकं सत्यं वा ब्रुवते. एवं भणतो मूलम्। अथासौ भणति (मिलिय त्ति) गृहस्थाश्च यूयं चैकत्र मिलिता अहं पुनरेक इति ब्रुवते अनवस्थाप्यम्। सर्वेऽपि यूयं प्रवचनस्य बाह्या इति भणतः पाराञ्चिकम्। एवमुत्तरोत्तरं वदतः पाराश्चिक यावत्प्रायश्चित्तप्रास्तरो भवति। अथेदमेव भावयतिकिं आगओऽसि णाह, अडामि पाणवहकारिणा सद्धि। सम्म आलोएत्ति य, जा तिण्णि तमेव वियडेति / / 7 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy