________________ पत्तकप्पिय 425 - अभिधानराजेन्द्रः - भाग 5 पत्तकप्पिय प्रायश्चित्तं चत्वारो गुरुकाः / द्वाभ्यामपि गुरवः- तपसा, कालेन च। अथ सूत्र प्राप्तः परं नाद्यापि तस्यार्थः कथितः तदा चत्वारो लघुकाः, तपसा गुरवः / अथ कथितोऽर्थः परं नाद्यापि सम्यगधिगतः तदाऽपि चत्वारो लघुकाः, कालेन गुरवः / अथाऽप्यधिगतोऽर्थः, श्रद्धानविषयीकृतश्च, परं नाद्यापि परीक्षितः तदाऽपि चतुर्लघवः, तपसा कालेन च लघुकाः / अतः सूत्रं पाठयित्वा तस्यार्थ कथयित्वा सम्यगधिगते चार्थे पात्राय परीक्ष्य प्रेषणीय इति। बृ०१०। (पात्रनिक्षेपः 'पत्त' शब्देऽनुपदमेवगतः) अत्र वैपरीत्यकरणे प्रायश्चित्तमाहवोच्चत्थे चउ लहुआ, आणाइविराहणा य दुविहा उ। छेयणभेयणकरणे, जा जहिं आरोवणा भणिया।६६३। विपर्यस्तेन ग्रहणे करणे वा चतुर्लघुकाः, उपलक्षणत्वाल्लघुमासरात्रिन्दिवपञ्चके अपि / इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्यापात्रे पात्रस्योत्पादनाय निर्गतः, तस्य योगमकृत्वाऽल्पपरि-कर्मोत्कृष्टमेव गृह्णाति चतुर्लघु, परिकर्मवा प्रथमतयाऽवगृह्णाति चतुर्लधु; यदा यथाकृत योगे कृतेऽपि न लभ्यते तदाऽल्पपरिकर्म गवेषणीयम्, तस्योत्पादनाय निर्गतः प्रथमत एव सपरिकर्म गृह्णाति चतुर्लघु इति त्रीणि चतुर्लघुकानि। एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि / जघन्यस्य स्थानक त्रयेऽपि त्रीणि रात्रिन्दिवपञ्चकानि। यथा यथाकृताऽऽदिविपर्यस्तग्रहणे प्रायश्चित्तमुक्तं, तथोत्कृष्टाऽऽदीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तभवसातव्यम्। तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यम मात्रक गृह्णाति मासिक, जघन्यं टोप्परिकाऽऽदि गृह्णाति पञ्चकं, मध्यमस्य निर्गत तूत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकं, जघन्यस्य निर्गत उत्कृष्ट गृह्णाति चतुलघु, मध्यमं गृह्णाति मासिकम् / तदेवं विपर्यस्तग्रहणे प्रायश्चित्तमुक्तम्। सम्प्रति विपर्यस्तकरणेऽभिधीयते-उत्कृष्टं भक्त्वा मध्यमं करोति पञ्चकं, मध्ये संयोज्योत्कृष्टं करोति चतुर्लघु, तदेव भक्त्वा जघन्य करोति पञ्चक, जघन्ये संयोज्योत्कृष्ट करोति चतुर्लधु, मध्यमं करोति मासिकम्, आज्ञाऽऽदयश्च दोषाः, विराधना च / विराधना च द्विविधासंयमे, आत्मनि च / तथा चाऽऽह-पात्रस्य छेदनं भेदन वा कुर्वत आत्मविराधना परिताप-महादुःखाऽऽदिका, संयमविराधना तु तद्गता घुणाऽऽदयो विनाशमश्नुवते, ततो या यस्यां संयमविराधनायामात्मविराधनायां वा आत्मव्यपरोपणा भणिता सा तस्यामभिधातव्या, तत्राऽऽत्मविराधनायां वा सामान्यतश्चतुर्गुरु, संयमविराधनायां 'छक्कायचउसलहुगा'' इत्यादिका कायनिष्पन्ना / यत एवं ततो न विधेय विपर्यस्तकरणम्। बृ० 1 उ०१ प्रक०। अथ पात्रस्यैव विशेषविधिं विभणिषुराहओभासणा य पुच्छा, दिद्वे रित्ते मुहे वहंते य ! संसट्टे उक्खित्ते, सुक्के अपगास दठूणं // 66 // पात्रस्योत्पादनायामवभाषणं कर्त्तव्यं, तत्र पृच्छति शिष्यः-किं दृष्ट पात्रं | प्रशस्तमुताऽदृष्टम् ? एवं रिक्तम्, अरिक्तवा? कृतमुखमकृतमुखं वा? वहमानकमवहमानकं वा? संसृष्टमसंसृष्ट वा? उत्क्षिप्तं निक्षिप्त वा? | शुष्कमार्द वा? प्रकाशमुखमप्रकाशमुखं वा? इत्यष्टौ पृच्छाः / आसां निर्वचनं स्वयमेव सूरिरभिधास्यति। तथा-(दटूणं ति) दृष्ट्वा चक्षुषा निरीक्ष्य पात्र यदि निर्दोषं तदा गृह्णाति। अथैनामेव गाथा विवरीषुः प्रथमद्वितीय पृच्छयोरेकगाथया परिहारमाहदिट्ठमदिह्र दिटुं, खमतरमियरे न दीसए काया। दहिमाईहिं अरिकं, वरं तु इयरे सिया पाणा / / 666 / / दृष्टादृष्टयोः पात्रयोर्मध्ये दृष्ट क्षमतरं क्षमशब्द इह युक्तार्थः, ततश्च क्षमरतमदृष्टादतिशयेन गृहीतुयुक्तम्। कुत इत्याहइतरस्मिन्नदृष्टे (नदी सयत्ति) प्राकृतत्वादेकवचनम् , न दृष्यन्त, कायाः पृथि-वीकायाऽऽदयः, तथा दध्यादिभिरित्यादि ग्रहणोन्मोदकाऽऽदिपरिग्रहः / तैरतिरिक्तं पूर्ण वरम् इतरस्मिन् रिक्ते स्युर्भवेयुः कदाचित् प्राणाः कुन्थुप्रभृतयो जीवाः। यदि पुनर्न तत्र प्राणसंभवस्तदाऽपि सम्यगुपयुज्य गृह्णतां न दोषः। अथ कृतमुखाऽकृतमुख्योः किं कृतमुख ग्राह्यमुताकृतमुखम् ? उच्यतेअकयमुहे दुप्पस्सा, वीयाई छेयणाऽऽइ दोसा वा। कुंथूभादवहंते, फासुवहतं अओ धन्नं / / 667 / / अकृतमुखे भाजने दुर्दृश्या अप्रत्युपेक्ष्या बीजाऽऽदयो जीवाः, तत्र बीजानि तत दुत्थानि, आदिशब्दात्त्रसाऽऽदिपरिग्रहः छदनभेदनयो दोषास्तत्र भवेयुः, यत एवं ततोऽकृतमुख परिहर्तव्यम्। अथ वहमानकावहमानकयोः कतरत् श्रेष्ठमित्याहकुन्थ्वादयः सत्त्वा अवहमानके प्रायः सम्भवन्ति, अत प्रासुकेन वस्त्रऽऽदिना वहमानकं व्याप्रियमाणं यत्तत्पात्रंधनाय हितमिति धन्यं, संयम-धनोपकारकमित्यर्थः / अथ संसृष्टाऽऽदिपृच्छात्रयं प्रतिविधत्तेएमेव य संसटुं, फासुएण पसत्थ नाह पडिकुटुं / उक्खितं च खमतरं, जंचोल्लं फासुगदवेणं // 66 // एवमेव यथा वहमानक तथा संसृष्टमपि यत्प्रासुकेन भक्ताऽऽदिना संसृष्टं खरण्टितं तत्प्रशस्यमप्राशुके न पुनः संसृष्ट प्रतिकुष्ट निक्षिप्तम्, उत्क्षिप्तनिक्षियोर्मध्ये यदा प्रयोगेणैव गृहिणा पात्रमुत्क्षिप्तं तन्निक्षिप्तात् क्षमतरं युक्तरम् / यचा प्रासुकं द्रव्येण तक्राऽऽदिना तत्पात्रं श्रेयः, अर्थादापन्नमप्राशुकेनार्द्र परिहार्यम्। अथ किं प्रकाशमुखं गृह्यतामप्रकाशमुखं वाजं होइ पगासमुहं, जोग्गयरं तं तु अप्पगासा तु। तसबीयाइ अदलु इमं तु जयणं पुणो कुणइ // 666 / / यद्भवति प्रकाशमुखम्, तत्तु योग्यतरं, संयमाऽऽत्मविराधनाया अभावाद्विशेषेण योग्यमप्रकाशमुखभाजनात्, इत्थं पात्रस्य प्रशस्याप्रशस्यरूपतामुपवर्ण्य तस्यैव विधिशेषमभिधातुमुपक्रमते- "तसवीया" इत्यादि पश्चार्द्धमा / तत्पात्रं चक्षुषा प्रत्युपेक्ष्य यदि त्रसजीवाऽऽदिकं जन्तुजातं किञ्चित् न पश्यति तद् दृष्ट्वा इमां वक्ष्यमाणां यतना पुनः करोति। तामेवाऽऽहओमंथपाणमाई, पुच्छा मूलगुण उत्तरगुणे य।