________________ पत्त 417- अभिधानराजेन्द्रः - भाग 5 पत्त तस्तस्याऽऽगतस्य प्रायश्चित्तं चत्वारो लघवः। उपकरणं च तस्योपहन्यते यदा छन्दस्य सकाशे उषितस्य चतुर्गुरुकम्। साम्प्रतमागमनद्वारमाहसंविग्गाऽऽदणुसिट्ठो, तदिवस नियत्तो जइ विन मिलेज्जा। न य सज्जइ वइयादिसु, चिरेण वि हु तो न उवहम्मे / / 274 / / संविग्नैः, आदिशब्दादसंविग्नैश्वानुशिष्टो यदि तत्र नोषितः, किं तु तस्मिन्नेव दिने न मिलति, न च जिकाऽऽदिषु सजति, ततश्चिरेणाप्यागच्छतो (हु) निश्चितंतस्योपकरणं नोपहन्यते, आनीयमानस्य तूपहन्यते। एतदेवाऽऽहएगागियस्स सुविणे, मासो उवहम्मते य से उवही। तेण परं चउलहुगो, आवज्जइ जं च तं सव्वं / / 275 / / बलादानीयमान एकाकी समागच्छन् यदि रात्रौ स्वपिति, तदा तस्यैकाकिनः स्वप्ने प्रायश्चित्तं लघुको मासः, उपधिश्च तस्यो पहन्यते। अथ तस्मादिवसात्परमपि लगति, तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः / अथ जिकाऽऽदिष्वपान्तराले सजति, यच तत्र प्राप्नोति, तन्निष्पन्नं सर्व तस्य प्रायश्त्तिमापघते। सम्प्रति "ते वा घेत्तु नेच्छंतीति" द्वारव्याख्यानार्थमाहसंविग्गेरणुसिहो, भणेज जइ अहं इहेव अत्थामि / भण्णति ते आपुच्छसु, अणिच्छ तेसिं निवेयंति / / 276|| सो पुण पडिच्छतो वा, सीसे वा तस्स निग्गतो हुजा। सीसं समणुन्नायं, गेहतियरम्मि भयणा उ॥२७७।। संविग्नैरनुशिष्टो यदि बूते-अहमिहैव युष्माकं समीपे तिष्ठामि, तदा स प्रष्टव्यो, येषां समीपात्त्वमागतस्तस्यशिष्यो वा त्वं भवसि, प्रातीच्छिको वा? तत्र यदि शिष्यस्तर्हि भण्यतेतान् आत्मीयान् आचार्यानापृच्छस्व, मुत्कलापय। अथ स आपृच्छनं नेच्छति, तर्हि तेषां निवेदयन्ति / यथायौष्माकीणस्याऽस्माकं पायें समागतो वर्तते, सबहुधाऽनुशिष्टः परं प्रतिनिवर्तितुं नेच्छति, किं तु ब्रूते-अहं युष्माकं पार्श्वे स्थास्यामि, एवं निवेदने कृते यदि ते समनुजानन्ति ततः प्रतीच्छन्ति, अथ नानुजानन्ति ततो न प्रतीच्छन्ति / इतरो नाम-प्रतीच्छिकस्तस्मिन् भजना। तामेव प्रतिपादयतिउद्विट्ठमणुद्दिढे, उद्दिट्ट समाणियम्मि पेसंति। वायंति समणुनायं, कड़े पडिच्छंति उ पडिच्छं // 278|| तस्य प्रातीच्छकस्य प्रथमतः प्रश्रेन परिभाव्यते-किमेतस्य श्रुतस्कन्याऽऽदिकमुद्दिष्टमस्ति, किं वा नेति। तत्र यधुद्दिष्ट तदपि वा परिसमापित तदान प्रतीच्छन्ति, किंतु तेषामेव समीपे प्रेषयन्ति, तत्र यदि समनुजानन्ति यूयमेवैनं वाचयत तदा तैः समनु-ज्ञातं वाचयन्ति, अन्यथा न प्रतीच्छन्ति / अथोद्दिष्ट श्रुतस्कन्धाऽऽदि परं कृतं समाप्तिं नीतं तदा कृते श्रुतस्कन्धाऽऽदौ त प्रतीच्छकं प्रतीच्छन्ति / अथ न किमप्युद्दिष्टमस्ति तदाऽऽपि तमागतं प्रतीच्छन्ति / एष विहारेणावधावी भणितः। संप्रति लिङ्गावधाविनमाह एवं ताव विहारे, लिंगोहावी वि होइ एमेव / सो किमु संकमसंकी, संकि विहारे य एगगमो // 276 / / एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तो, लिङ्गावधाची अन्योऽप्येवमेव भवति, स पुनर्लिङ्गावधावी द्विधा-शङ्कीअशङ्की च। शङ्की नामयस्यैव संकल्पः यदि मम स्वजना जीविष्यन्ति, यदि वा तत्साधारण धनमविनष्ट स्यात्, यदि च मां ते वदिष्यन्ति, उनिष्क्रामेति तदा उन्निष्क्रमामि। यदि पुनस्ते स्वजना मृता भवेयुस्तद्वा साधारणं विनष्ट, न वा कश्चिन्मा वदेत उन्निष्क्रामेति, तदा पार्श्वस्थाऽऽदिविहारमभ्युत्थास्यामि, एवं सङ्कल्प कुर्वन् शङ्की। एवं रूपसङ्कल्पविकलोऽशङ्की। तत्र शङ्किनि लिङ्गावधाविनि विहारे च विहारावधाविनि एक एव गमः। किमुक्तं भवति? यत् विहारावधाविन्युक्तं तत् लिङ्गावधाविन्यपि शङ्किनि वक्तव्यमिति। संविग्गमसंविग्गे, संकमसंकीऍ परिणइ विवेगो। पडिलेहण निक्खिवणं, अप्पणों अट्ठाऐं अन्नेसिं // 280 / / सशङ्की अशङ्की वा पथि अनुशिष्यमाणो यदि संविग्ने असंविग्ने वा परिणतो भवति, वसतिवा, तदा तस्योपकरणमुपहतमिति तस्य विवेकः कर्तव्यः / अथ स गतश्चिन्तयति-एतदुपकरणं तेषामेव दास्यते, मम वा भविष्यति, तदा निष्क्रामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपस्तदुपकरणं नोपहन्यते, प्रत्यागच्छन्पुनर्यदि व्रजिकाऽऽदिषु सजति तत उपहन्यते, अथ न सजति नोपहन्यते। इतिगाथासंक्षेपार्थः / __ संप्रत्यस्या एव विवरणमाहघेत्तूणऽगारलिंग, वती व अवती व जो उ ओहावी। तस्स कडिपट्टदाणं, वत्थु वाऽऽसज्ज जं जोग्गं / / 281 / / यो लिङ्गे नावधावी स द्विधा अगारलिङ्ग वा गृहीत्वा व्रजति, स्वलिङ्गसहितो वा अत्र योऽगारलिङ्गं गृहीत्वा अवधावति तस्यैव विधिः। पथि व्रजन केनाप्यनुशिष्टो यदि निवर्तते, उपतिष्ठते च, मां प्रव्राजयेति तदा तस्य मूलं दीयते, स पुनरगारलिङ्गं गृहीत्वा संप्रस्थितो व्रती वा स्यादव्रती वा। अणुव्रतानि वा गृहीत्वा व्रजति, अव्रती वा सन इत्यर्थः / तस्योभयस्यापि कटीपट्टको दातव्यो वस्तुवाऽऽसाद्य यद्योग्यं तद्दातव्यम्। किमुक्त भवति ? मा प्रद्वेषं यायात् दारुणस्वभावो वा, तत उपरि प्रावरणमपि दीयते / अथवा राजाऽऽदिः प्रव्रजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये / तदेवमगारलिङ्गावधावी भणितः। - सम्प्रति स्वलिङ्गावधाविनमधिकृत्याऽऽहजइ जीविहिंति जइ वा, वितं धणं धरति जइव वोच्छति। लिंग मोच्छिति संका, पविट्ठ वुच्छे व उवहम्मे // 282 / / स्वलिङ्गेन योऽवधावति स द्विधा-शङ्की, अशङ्की च / तत्र शङ्की एवं सङ्कल्पयतियदि मम ते स्वजना जीविष्यन्ति, यदि वापि तत्साधारण धनं धरते, विद्यते वा, मां वक्ष्यन्ति लिङ्गं मुश्चेति, उन्निष्क्रामेति, तदा उन्निष्क्रमिष्यामि इत्येव शङ्कावान् पथि केनाप्यनुशिष्टः सन् संविनानामसंविनानां वा उपाश्रये प्रविशति तदा तस्योपकरणमुपहन्यते, तदेवं सशङ्कलिङ्गावधावी उक्तः।