________________ पत्त 416 - अभिधानराजेन्द्रः - भाग 5 पत्त निष्क्रमणाऽऽदिपरिग्रहः / तेषां वन्दनाय गच्छन्त एकाकिनः निष्कारणिका ये आहिण्डकारते द्विविधा भवन्ति / तद्यथा-उपदेशतोऽनुपदेशतश्च / तत्रोपदेशेन ये ते द्वादश संवत्सराणि सूत्रं गृहीत्वा द्वादश संवत्सराणि तस्यैव सूत्रस्यार्थ गृहीत्वा य आचार्यकं कर्तुकामः सद्वादश संवत्सराणि देशदर्शनं करोति, तस्य व्रजतो जघन्यो न संघाटको दातव्य उत्कर्षेणानियताः साधवो, ये अनुपदेशेन देशदर्शनं कुर्वन्ति, ते चैत्यानि वन्दिष्यामहे इत्यविधिं कृत्वा व्रजन्ति। ओहावेता दुविहा, लिंगे विहारे य होंति नायव्वा। एगागी छप्पेते, विहार तहिँ दोसु समणुन्ना // 26 // अवधाविनो द्विविधाः-लिङ्गेन, विहारेण च / लिङ्गेनोत्प्रव्रजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति ज्ञातव्याः / षड़प्येते कारणिकाः 1, निष्कारणिकाः 2, उपदेशिकाः 3, अनुपदेशकाः 4, लिङ्गेनावधाविनः 5, विहारेणावधाविनश्च 6 / प्रायेणैते एकाकिनो विहरन्ति, गच्छन्ति वा, उपदेशिका यद्यपि नियमतःससहायास्तथापि येन गच्छान्निर्गतास्तेन एकाकिनो भण्यन्ते। इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि गच्छान्नि-र्गता एकाकिनःप्रोच्यन्ते। तत उक्तं षडप्येते विहारिणः एकाकिनः (तहि त्ति) तेषु षट्सु मध्ये द्वयोः समनुज्ञातयोः सांभोगिकाः / तद्यथा-अशिवाऽऽदिकारणिका उपदेशा हिण्डकाच, तैरानीतानि भाजनानि ग्रहीतव्यानि, शेषैरानीतानां भजना, कारणे गृह्यन्ते निष्कारणेनेति। निकारिणिए तुवदे-सिए य आपुच्छिऊण वचंते। अणुसासंति उ ताहे, वसहा उ तहिं इमेहिं तु // 265 / / निष्कारणिकः अनौपदेशिकश्च यद्याचार्यमापृच्छ्य व्रजति तदा तत्र व्रजते एभिर्वक्ष्यमाणैर्वचनैर्वृषभा अनुशासति। कैर्वचनैरित्याहएसेव चेइयाणं, भत्तिगतो जो तवम्मि उज्जमती। इइ अणुसढे चिट्ठइ, असंभोगायारभंडं तु // 266|| एष एव चैत्यानां भक्तिगतो भक्तिमुपनतो यस्तपसि द्वादशप्रकारो यथाशक्ति उद्यच्छति, एवमनुशिष्यमाणे यदि तिष्ठति ततः सुन्दरम्, अथ नतिष्ठति यत्तस्य साम्भोगिकमुपकरणं तन्निवर्त्यते इतरदसाम्भोगिकमाचारभाण्डं समर्प्यते। अथ कथमसाम्भोगिकमाचारभाण्डमुपजातमत आहखग्गूढेणोवहयं, अमणुन्ने सागयस्स वा जं तु / असंभोगियउवगरणं, इहरा गच्छे तगं नत्थि / / 267 / / यत उपकरणं खगूढेनोपहतं, यदि वायत अमनोज्ञेभ्योऽसाम्भोगिकेभ्य आगतस्योपसंपन्नस्य संबन्धितत आसाम्भोगिकमुपकरणमाचारभाण्डमितरथा प्रकारद्वयव्यतिरिक्तेनान्येन प्रकारेण तकत् असाम्भोगिकमुपकरणं गच्छे नास्ति न सम्भवति। तिहाणे संवेगो, सावेक्खो नियत्तते दिवससुद्धो। मा सो रुट्ठ विवेचण, तं चेवऽणुसट्ठिमादीणि // 26 // तस्य गच्छान्निर्गतस्य कदाचित् त्रिभिः स्थानःसंवेगःस्यात् गाथायां सप्तमी प्राकृतत्वात्, एकवचनं समाहारत्वात्। तद्यथा ज्ञानेन, दर्शनेन, चारित्रेण च / ततः संवेगसमापन्नः सापेक्षः प्रतिनिवर्तते, स च यदि तस्मिन्नेव दिवसे गच्छं प्रत्यागत स्तर्हि रुषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमुन शिष्ट्यादीनि च क्रियन्ते, आदिशब्दादुपहणाऽऽदिपरिग्रहः। संप्रति स्थानत्रयेण संवेगभावनामाहअजेव पाडिपुच्छं, को दाहिइ संकियस्स मे उभए। दसणकं उववूहे, कं थिर करे कस्स वच्छल्लं // 266 / / सारेहिति सीयंतं, चरणे सोहिं च काहिती का मे। एव नियत्तणुलोम,णाउं उवहिं च तं दें ति // 270 / / अद्यैव उभयस्मिन सूत्रे अर्थे च शङ्कितस्य कः प्रतिपृच्छां दास्यति, एषा ज्ञाने चिन्ता। दर्शकमहमिदानीमुपबंहिस्यामि, कं वा स्थिरं करिष्यामि, कस्य वा वात्सल्यमधुना करिष्यामि, चारित्रे चिन्ता, सा चरणे सीदन्तमिदानी कः सारयिष्यति, को वा मे प्रायश्चित्तस्थानमापन्नस्य शोधिं करिष्यति / एवं चिन्तयन्संवेगमापन्नः सम्प्रति निवर्तते, तस्य प्रतिनिवृत्तस्य गच्छं प्रत्यागतस्यानुलोमता कर्तव्या धन्योऽसि त्वं येनाऽऽत्मा प्रत्यभिज्ञातः, एवमनुलोमतां कृत्वा तस्य तमेवोपधिं प्रयच्छन्ति। संप्रत्यविधाविनमधिकृत्य प्रतिपिपादयिषुराहदुविहा इहावि वसभा, सारेंति भयाणि वा सि साहेति। अट्ठारस ठाणाई, हयरस्सिगयंकुसनिभाई।।२७१।। द्विविधमप्यवधाविनमाचार्यमापृच्छ्य व्रजन्तं वृषभाः सारयन्ति, शिक्षयन्ति, भयानि वा (से) तस्य साधयन्ति कथयन्ति, रतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि हयरस्मिगजाङ्कुशनिभानि। एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरम्, अथन तिष्ठति तहि यत् खगूढेनोपहतमाचारभाण्डं, यद्वा असाम्भोगिकेभ्यः समागतस्योपसंपन्नस्य संबन्धि तस्य दीयते, अग्रेतनं तु साम्भोगिकमुपकरण निवर्त्यते। संविग्गमसविग्गे, सारूवियसिद्धपुत्तमणुसटे। आगमणं आणयणं, तं वा घेत्तुं न इच्छंति // 272 / / संविनाः साम्भोगिका असाम्भोगिका वा, उद्यतविहारिणः असंविनाः पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दाः, सारूपिकसिद्धपुत्रो नाममुण्डितशिररको रजोहरणरहितोऽलावुपात्रेण भिक्षामटन सभार्योऽभायो वा एतैरनुशिष्टस्य यदि आगमनं तत उपहतोपकरणस्य अनुपहतोपकरणस्य वा प्रायश्चित्तदानम्। ते वा संविग्नाऽऽदयो गृहीत्वा तस्याऽऽनयनं कुर्वन्ति, अथ स आनयन नेच्छति तदा वक्ष्यमाणो विधिः / एष गाथासंक्षेपार्थः। साम्प्रतमेनामेव व्याचिख्यासुराहसंविग्गाण सगासे वुत्थो तेहिं अणुसासियनियत्तो। लहुओ न चेव हम्मति, इयरे लहुगा उवहतो य / / 273 / / यदि संविनानां समीपे उषितः तैश्चानुशिष्टः प्रतिनिवृत्तो वसति समागतः तदा तस्य प्रायश्चित्तं लघुको मासः। न च तस्योपधिरुपहन्यते, यं चान्तरा लभते, गृह्णाति चोपधिं सोऽपि नोपहन्यते, संविग्नानां समीप उषितः संविग्नैः सहागमनाच, इतरे नाम असंविग्नाः पार्श्वस्थाऽऽदयः सारूपिकसिद्धपुत्राश्च, तेषां समीपे यद्युषितास्तैश्चानुशिष्टः प्रतिनिवृ