________________ पत्त 414 - अभिधानराजेन्द्रः - भाग 5 पत्त वा, अनेके वा, दानंच निर्देशपूर्वकं, यथा अमुकस्य दास्यामि, तत्र यदा एकस्यापि ददाति तदा तन्निर्दिशति-अमुकस्य दास्यामि / ये त्वनेके ऽनिर्दिष्टा वा, अपरिमितसंख्याकतया निर्देशाकरणात्। एष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव व्याचिख्यासुः प्रथमत आगमद्वारमाहभायणदेसा एंतो, पाए घेत्तूण एति दाहं ति। दाऊणऽवरो गच्छइ, भायणदेसं तहिं घेत्तुं // 248|| भाजनदेशा न यस्मिन् देशे भाजनानि संभवन्ति तस्मात् देशादानन्दपुराऽऽदावागच्छन् आगन्तुकामः पूर्वकृतानि गृहीत्वा समागच्छति, साधुभ्यो दास्यामीति बुद्ध्या / गतमागमद्वारम् / अधुना गमद्वारमाहअपरः साधुरानन्दपुराऽऽदिकात् देशात् भाजनदेशं गन्तुकामस्तत्रान्यान्यपि पात्राणि ग्रहीष्यामि, सुलभत्वादिति पुराणानि पात्राणि दत्त्वा गच्छति। गतं गमद्वारम्। इदानीं कालद्वारमाहकालगयम्मि सहाए, भग्गे वऽण्णस्स होइ अतिरेगं / पत्तो लंबतिरेगे, दुल्लभपाए विमे पंच / / 246 / / कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा, ततस्तस्य पात्रमतिरिक्त लम्बते, इत्यन्यस्य द्वितीयस्य साधोरतिरिक्त पुराणं पात्रं च भवति / गतं कालगतद्वारमाअधुना दुर्लभद्वारमाह-दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभपात्रस्तस्मिन्नपि इमानि वक्ष्यमाणानि पञ्च भाजनानि धारयेत् / देशे पात्राणि दुर्लभानि, तत्रेमान्यतिरिक्तानि ध्रियन्ते / तद्यथा''नन्दीपतद्ग्रहो 1, विपतद्ग्रहः 2, कमठकम् 3, विमात्रकं 4, प्रश्रवणमात्रकं ५च। तत्कार्यप्ररूपणा चैवं कार्यानन्दीपतद्ग्रहोऽतिशयितः महान् तद्ग्रहस्ते चाध्वनि अवमौदर्ये पर चक्रावरोधे च प्रयोजनम् / तथा च कश्चित् ब्रूयात्-दिने दिने युष्माकमहमेकं पात्रं भरिष्यामि, ततस्तत्र नन्दीपात्रं धार्यते, एतेन कारणेन गच्छोपग्रहनिमित्तं धार्यते। विपतद्ग्रहः पतद्ग्रहात्किश्चिदूनः। स एतदर्थ धार्यते, कदाचित्पतद्ग्रहो भिद्यते, अन्यच भाजनं तस्मिन् देशे दुर्लभं, तत एतेन कार्य भविष्यति। कमठकः सागारिकरक्षणाय ध्रियतेच, तथा कदाचिदेकाकी जायते, तत्र च भक्तं प पतद्ग्रहे गृहीतं, पानीयं मात्रके, यत्र च भोजनकरणार्थमवतीर्णस्तत्र सागारिकास्ततो यत्रैव भुङ्क्ते तत्र वसतिमहती। तैरतिजुगुप्सा क्रियेत, ततस्तद्रक्षणाय कमठके भोजनं करोति / तथा विमात्रकं मात्रकान् मनाक् समधिक ऊनतरो वा, तत्र मात्रकः कदाचित् भिद्येताऽन्यत्र देशे भोजनं दुर्लभं, तत एतेन प्रयोजनं भविष्यतीति स ध्रियते। प्रश्रवणमात्रकोऽपि सागारिकभयेन यतनाकरणाय ग्लानस्याऽऽचार्याणां वाऽर्थे ध्रियते / एषा कार्यप्ररूपणा। संप्रति "दुविहा एगमणेगा' इत्यदिव्याख्यानार्थमाहएगो निद्दिस एगं, एगे णेगा अणेग एग वा। णेगाऽणेगे ते पुण, गणि वसभे मिक्खु खुड्डे य / / 250 / / ये पात्राणि प्रयच्छन्ति ते द्विविधाः / तद्यथा-एको वा स्यादनेके वा, / येभ्योऽपि ददति पात्राणि तेऽपि द्विविधाः-एको वा स्यादनेके वा, तत्रैको नियमतोऽनेके विकल्पिता निर्देशा भवन्ति। अत्र चतुर्भगिका-एको दात्रा एक संप्रदानं निर्दिशति। आचार्यस्यामुकस्य वृषभस्य भिक्षोः क्षुल्लकस्य वा दास्यामि। एष प्रथमो भङ्ग / एकोऽनेकान्निदिशतीति द्वितीयः। अनेक एकमिति तृतीयः। अनेके अनेकानिति चतुर्थः / ते पुनर्निर्देश्याः / के इत्याह-गणी, वृषभो, भिक्षुः क्षुल्लक श्च / गणी द्विविध आचार्य उपाध्यायश्च / एवमेते पञ्च भवन्ति या अपि स्त्रियो निर्दिशति ता अपि पञ्च। तद्यथा-प्रवर्तिनी, अभिसेव्या, भिक्षुका, स्थविरा, क्षुल्लिका च। तथा चाऽऽहएमेव इथिवग्गे,पंच गमा अहव निद्दिसति मीसे। दाउं वचति पेसे, ति वावि नीते पुण विसेसो // 251 / / एवमेव अनेनैव संघातगतेन प्रकारेण स्त्रीवर्गे निर्दिश्यभाने पञ्च गमा भवन्ति। अथवा-यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशतिसंयतानपि निर्दिशति, संयतीरपि / तदेतदागमद्वारेऽभिहितम् / संप्रति गमद्वारे वक्तव्यं, तथापि तत्रैव नवरं दत्त्वा व्रजति, प्रेषयति च, अग्रे गतः, नीते पुनर्विशेषः / स चाऽयम्-नीतानि भाजनानि समाने निर्दिशति, असमाने वा। संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः / अत्र च एतएव चत्वारो भङ्गाः। तद्यथा-संयतः संयतं निर्दिशति, संयताः संयतम्, संयतः संयतान,संयताः संयतान् / एवं समाने निर्देशे चत्वारो भङ्गाः / एवमसमाननिर्देशेऽपि द्रष्टव्याः। तद्यथा-संयतः संयती निर्दिशति 1, संयतः संयतीः 2, संयताः संयतीम् 3. संयताः संयतीः 4 एवं कालगते प्रतिभग्ने वा सहाये दुर्लभद्वारे च द्रष्टव्यम्।। सच्छंदमणिद्दिडे, दावण निद्दिट्ठमंतरा दें ति। चतुलहु आदेसो वा, लहुगा य इमेसि अदाणे॥२५२|| तत्र यदि न निर्दिष्टममुकस्यामुकानां वा दातव्यमिति तदा स्वच्छन्दो यस्मै रोचतेतस्मै ददाति, यदि पुनर्निर्दिष्टः ततो यानिर्दिशति एकमनेकामिश्रत्वात्तेषां दातव्यम्। एतनिर्दिष्ट प्रायणम्। अथ यस्य निर्दिष्टः सोऽन्यत्र अन्तरा अपान्तराले अन्यस्य ददाति तदा तस्मिन् अन्यस्मै ददति प्रायश्चित्तं चत्वारो लघुकाः, आदेशो वा अत्र विद्यते, मतान्तरमप्यस्तीति भावः / तदिदं केषाञ्चिन्मतेनान्यस्य दाने अनवस्थाप्यं तेषां प्रायश्चित्तमिति / अमीषां वक्ष्यमाणानायदाने चत्वारो लधवः / केषामित्याहअद्धाण बालवुड्डे, गेलन्ने जंगिए सरीरेणं / पायंऽच्छिनासकरक-नसंजतीणं पि एमेव / / 253 / / अध्वनि वर्तमानानामध्वनिर्गतानामित्यर्थः, उपलक्षणमेतत्तेन चावमौदर्यनिर्गतानामशिवनिर्गतानामन्तरा विस्मरणतः पतितोपधीनां, तथा बालस्य शरीरेण जुङ्गितस्य हीनस्य, केनाङ्गेन हीनस्येत्यत आह-पादेन, ईक्षणेन, नासया, करण, कर्णेन वा, एवमेव संयतीनामप्यदाने प्रायश्चित्तम्, एष द्वारगाथासंक्षेपार्थ। संप्रति तामेव विवरीषुराहअद्धाण ओम असिवे, उढाणं वि न देंति जं पाए। बालस्सऽज्झुववातो,थेरस्सऽसतीए जं कुजा // 254 / / अध्वनिर्गतानामवमौदर्यनिर्गतानामशिवनिर्गतानामरूढानामन्तरा विस्मरणतः पतितस्तेनापहृतोपधीनां यदि न ददाति तदा प्रायश्चित्त चत्वारो लघवः / यच भाजनैर्विनामप्राप्स्यन्ति तन्निमित्तमपि तस्य प्रायश्चित्तम् / तथा बालस्य उत्कृष्टमात्रकं दृष्ट्वा तद्विषये अध्युपपात उत्कृष्टोऽभिलाषो भवति, ततः मात्रकं याचते स यत् याचते