________________ पत्त 413 - अभिधानराजेन्द्रः - भाग 5 पत्त साम्प्रतमेनामेव विवरीषुराहगिण्हह वीसं पाते, तिण्णि पगाराउ तत्थ अतिरेगे। तत्थेव भणइ एगो, मज्झ वि गेण्हे जहा अञ्जो / / 237|| गृह्णीत विंशतिः पात्राणि इत्युक्ते तत्रातिरेके त्रयः प्रकारा भवन्ति, एकरतत्रैवाऽऽचार्यमनुज्ञाप्य बूतेममापि योग्यान्यार्थ भाजनानि गृहीत। आयरिऍ भणाहि तुमं, लज्जालुस्स न भणंति आयरिए। नाऊण व सढभावं, नेच्छंतिहरा भवे लहुगो / / 238 // अपरोऽन्यं ब्रूते-त्वमाचार्यान् भण, यथा-अमी आचार्येणानुज्ञाता अधिकान्यपि भाजनानि प्रतिगृह्णति, तत्र यो लण्णालुतया आचार्यान् विज्ञापयितुं न शक्नोति, तस्य कारणे न भणन्ति वाऽऽचार्यान, यदि च शठभावं तस्य ज्ञात्वाऽऽचार्यान् विज्ञपयितुं नेच्छन्ति, इतरथा शटभावे विज्ञः यदि विज्ञपयति लघुको मासः। जइ पुण आयरिएहिं, सयमेव पडिस्सुयं भवति तस्स। लक्खणमलक्खणजुयं, अतिरेगं जं तु तं तस्स // 236|| यदि पुनस्तस्य लज्जालोः कारणेनाऽऽचार्यास्तस्य समक्षं विज्ञप्ता आचार्यश्च स्वयमेव तस्य लज्जालोरतिरिक्तपात्रग्रहणं त्रतिश्रुतमगीकृतं, तदा वल्लभ्यते अतिरिक्त पात्रं लक्षणयुक्तमलक्षणयुक्तं वा तत्तस्य दातव्यम् / गत एकः प्रकारः। द्वितीयप्रकारमाहवितिओ पंथे भणती, आसन्नागं तु विन्नवेंति गुरुं। तं चेव पेसवंती, दूरगयाणं इमा मेरा / / 240 / / द्वितीयस्तान पथि दृष्ट्वा भणति-ममाऽपि योग्यानि भाजनानि प्रतिगृह्णीत। अथवा आसमस्थं गुरुं विक्षपयन्ति / अथवा-तमेव साधुमभ्यर्थमानं प्रेषयन्ति, यथा-त्वमाचार्य विज्ञापयेति तेषामेवं कुर्वतांतदा तेषां प्रायश्चित्तं मासलघु, दूरगतानां पुनरियं वक्ष्यमाणा मर्यादा सामाचारी। तामेवाऽऽहगोण्हामो अतिरेगं, तत्थ पुण वियाणगा गुरू अम्ह। देंति तदेवण्णं वा, साहारणमेव ठावेंति // 241 / / दूरगतान् सांभोगिकः साधुवलोक्य ब्रूते-अस्माकमपि योग्यं पात्रमाददध्वं, ततस्तैर्वक्तव्यम्-अतिरिक्त पात्रं ग्रहीष्यामस्तत्र पुनर्विज्ञायका अस्माक गुरवस्तदेव वा अतिरिक्त पात्रं दास्यामि, अन्यद्वा को जानाति, कदाचिदतिरिक्त पात्र सुन्दरमिति कृत्वा स्वयं प्रतिगृहन्ति, यस्य वा इष्ट तस्मै ददाते, एवं साधारण स्थापयन्तिा उक्तो द्वितीयः प्रकारः। तृतीयमाहतइओ लक्खणजुत्तं, अहियं वीसाऍ ते सयं गेण्हे। एण् तिण्णि विगप्पा, होंततिरेगस्स नायव्वा // 242 / / तृतीयः प्रकारः पुनरयम्-ते प्रेषिताः साधवो विशतेरधिकं पात्रं स्वयमेव गृह्णन्ति / एते त्रयो विकल्पा अतिरिक्तस्य पात्रस्य संभवाय ज्ञातव्याः। तदेवं व्यापारितानां छिन्नानि गतानि। साम्प्रतमभिग्रहिकाणां छिन्नानि प्रतिपादयितुमाहसच्छंद पडिन्नवणा, गहिते गहणे य तारिसं भणियं / अलथिरधुवधारणियं सो वा अन्नो व णं धरए // 243 // स्वच्छन्दा नाम-अभिमाहिकास्ते अव्यापारिता एवाऽऽचार्यानापृच्छय गतास्ते यदि छिन्नाः संदिष्टास्ततस्तेषामपि सैव सामाचारी या प्राक व्यापारितानां छिन्नानामुक्ता / (पडिन्नवण त्ति) प्रतिज्ञापना नामविधिना पात्राऽऽदीनां मार्गणा कर्त्तव्येत्युपदेशदानम्, उद्गमाऽऽदिशुद्धानि पात्राऽऽदीनि प्रतिग्राह्याणीत्युपदेशदानमिति भावः / तदा गृहीते ग्रहणे च यादृशं कल्पाध्ययनपीठिकाया भणितं तादृशं कर्त्तव्यं, तत्र यावन्ति संदिष्टान्याचार्येण तावन्ति गृहीतानि, यदि न केनचित् भणितपूर्व, यथा ममापि योग्यं पात्रं ग्राह्यमिति तदा अलं समर्थ स्थिरं दृढं ध्रुवं चिरकालावस्थायि पात्रं धारणीयमितिन्यायमनुसृत्य, ते चिन्तयन्तिप्रायोग्यमेतत्प्रात्रं तस्मात् गृह्णीमो, गृहीतेस एव ग्राहकश्चिन्तयति-अहमाचार्यानुज्ञातं धारयिष्यामि. यदि वा स एवाऽऽचार्यो धारयिष्यति, अन्यो वा साधुर्धारयिष्यति, एवमतिरिक्तपतदग्रहसम्भवः। सम्प्रति ग्रहणे गृहीत च यद्भणितं कल्पपीठिकायां तदेव विनयजनानुग्रहाय दर्शयतिओमंथणमादीणं, गहणे उ विहिं तहिं पउंजंति। गहिए य पगासमुहे, करेति पडिलेह दो काले // 244 // अवमन्थनमधोमुखं कृत्वा प्राणाऽऽदीन खोटनेन भूमौ यतनया पातयन्ति। अमु विधिं तत्र ग्रहणे प्रयुञ्जन्ति। गृहीते चतानि पावाणि प्रकाशमुखानि करोति, तथा द्वौ कालौ प्रातरपराहे च प्रत्युपेक्षते। संप्रति तेषु पात्रेष्वानीतेषु विधिमाहआणीतेसु उगुरुणा, दोसुंगहिएसु गया जहवुद्धं / गेण्हति उग्गहे खलु, ओमादी मत्त सेसेवं / / 245 / / आनीतेषु तु भाजनेषु आचार्येण प्रधानं सुलक्षणं पात्रं मात्रक च परिग्रहीतव्यं ततो गुरुणा द्वयोहीतयोः शेषाणि भाजनानि यावतां दातव्यनि तावन्तो भागाः क्रियन्ते, ततो ये गतास्ते यथावृद्ध यथारत्राधिकतया पतद्ग्रहान् गृह्णन्ति, तदनन्तरं ये गतानामेवा-वमरल्लाधिकास्ते यथारत्नाधिकृतया मात्रकाणि गृह्णन्ति, तदनन्तरं यैः पतद्ग्रहा नगृहीतास्ते अवमरत्नाधिकाः, शेषाश्च साधवो यथारत्नाधिकतया पतद्ग्रहान् मात्रकाणि च गृह्णन्ति। तदेव व्यापारितानां स्वच्छन्दसां च छिन्नानि। साम्प्रतमेषामेव द्वयानामच्छिन्नानि विभणिषुरिदमाहएमेव अछिन्नेसु वि, गहिए गहणे य मोत्तु अतिरेगं / एत्तो पुराणगहणं, वोच्छामि इमेहि उपदेहिं // 246|| एवमेव पूर्वोक्तेनैव प्रकारेणा छिन्नेषु अपि ग्रहीतव्येषु गृहीते च ग्रहणे च विधिरनुसरणीयो, मुक्त्वा अतिरेकं भवति, अतिरिक्तः पतद्ग्रह एव न सम्भवति, परिमाणकारणादिति तत्सम्भवविधिर्न वक्तव्यः। सम्प्रति पुराणग्रहणमेभिर्वक्ष्यमाणैः पदैर्वक्ष्यामि। तान्येव पदान्याहआगमगमकालगते, दुल्लभ तहिँ कारणेहिँ एएहिं। दुविहा एगमणेगा, अणेग णिद्दिद्वऽनिद्दिट्ठा।।२४७।। आगमद्वारं गमद्वार, कालगतद्वारं दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसम्भवः। तत्र ये पात्राणि ददति ते द्विविधाःएको वा, अनेके वा; येषामपि ददाति तेऽपि द्विविधा:-एको