________________ पत्त 412 - अभिधानराजेन्द्रः - भाग 5 पत्त आयरियाई चत्ता, वारत्तथलीऍ दिटुंतो // 230 / / यदि येनैव पतद्ग्रहेण भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति, तर्हि लोके जुगुप्सा जायते, तथा च सति भवति प्रवचनस्योड्डाहः, आचार्याऽऽदयश्च मात्रकापरिभोगे त्यक्ताः / अत्रार्थ वारत्रस्थल्या दृष्टान्तः। उपसंहारमाहतम्हा उ धरेयव्वो, मत्तो य पडिग्गहो य दोण्णेते। गणणाएँ पमाणेण य, एवं दोसान होतेए।।२३१।। यत एवं पात्रस्य मात्रकस्य वाऽधारणे दोषास्तस्मान्मात्रकं पतद्ग्रहश्च द्वावप्येतो धारयितव्यो। कथमित्याह-गणनामधिकृत्य एकैकः प्रमाणत ओघनियुक्त्यभिहितप्रमाणेन एवं चैते अनन्तरोदिता दोषा न भवन्ति। (25) नवपुराण्णपात्रग्रहणम्जइ दोण्ह चेव गहणं, अइरेगपरिग्गहो न संभवति।। अह देइ तत्थ एगं, हाणी उड्डाहमादीया // 232|| यदि द्वयोरेव पात्रकमात्रकयोहणं ततोऽतिरिक्तः पतद्ग्रहो न संभवति, तदभावाच कथमध्वनिर्गताऽऽदीनां पतद्ग्रहं ददाति, देयस्याभावात्। अथाऽऽत्मीय तमेकं पतद्ग्रहमध्वगाऽऽदीना प्रयच्छति, स्वयं तु केवलेन मात्रकेण सारयति / तत आह-अथ तयोः पात्रकमात्रकयोमध्ये एक पतदग्रहं ददाति, तदा द्वितीयस्य हानिरिति, येनैव भिक्षामटति तेनैव विचारभूमावपि गच्छतीति लोके जुगुप्साप्रसङ्गतः प्रवचनस्योड्डाहः, आदिशब्दादाचार्याऽऽदयश्च तेन परित्यक्ता इति परिग्रहः / तस्मादफलं सूत्रमनवकाशादिति। आचार्यों ब्रवीति-सूत्रनिपातः खल्वयं कारणिकः। किं तत्कारणमिति चेदत आहअतिरेग दुविह कारण, अभिणवगहणे पुराणगहणे य। अभिणवगहणे दुविहे, वावरिऍ अप्पच्छंदे य / / 233|| द्विविधेन प्रकारेण द्वाभ्यां कारणाभ्यामतरेकस्यातिरिक्तस्य पतद्ग्रहस्य संभवः / तद्यथा- अभिनवग्रहणेन पुराणग्रहणेन च। तत्र यत्तदभिनवग्रहण तत् द्विविधं द्विपकारम् / तद्यथा-व्यापारिताश्च गृह्णन्ति, आत्मछन्दसा च / गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात्। तच द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवतिभिन्ने व झामिए वा, पडिणीए तेणसाणमादिहडे / सेहोवसंपयासु य, अभिनवगहणं तु पायस्स / / 234|| प्रमादतो भिन्न वाऽग्रेतनं पात्रमग्निना वा ध्यामित दग्धं प्रत्यनीकेन हुतमभिन्नं वा स्तेनैः श्वाऽऽदिभिर्वा हृतम्, आदिशब्देनात्र शृगालाऽऽदिपरिग्रहः, शैक्षका वा केचिदुपपन्नास्तेषु भाजतानि दातव्यानि, एतैः कारणैरभिनवस्य पात्रस्य ग्रहणं भवति। देसे सव्वुहिम्मि य,अभिग्गही तत्थ होंति सच्छंदा। तेसिं सति निज्जोए, जा जोग्गा दुविह उवहिम्मि।२३५॥ तत्र तेषां व्यापारितानां स्वच्छन्दसां च मध्ये स्वच्छन्छसो भवन्ति अभिग्राहिण अभिग्राहिकास्ते चाभिग्रहिका। द्विविधा भवन्ति। तद्यथादेशे सर्वस्मिश्नोप छावुत्पाद्ये किमुक्तं भवतीतिएक एवम-भिग्रह प्रतिपन्नाः यथा उपधिदेश, पात्राऽऽदिकंवयमुत्पादयिष्यामिः।अपरे चैवं प्रतिपन्नाः / सर्वमुपधिमुत्पादयिष्यामः। ते चाभिग्रहिका भाजनैः कार्यमन्येन चोपधिः कार्यमिति कृत्वा तदुत्पादाय अब्यापारिता एव गच्छन्ति, अत एव ते आत्मछन्दस उच्यन्ते, आत्मनैव परप्रेरणाभावेनैव उपधेरानयनाय छन्दोऽभिप्रायो विद्यते येषां ते आत्मच्छन्दस इति व्युत्पत्तेः, तेषामसत्यभावे ये योग्याः समर्था द्विविधे औधिके औपग्रहिके चोपधावुत्पाद्ये, तनाचार्यो निर्युक्ते व्यापारयति।। दुविहा छिन्नमछिन्ना, भणंति लघुको य पडिसुणंते य। गुरुवयण दूरे तत्थ तु, गहिते गहणे य ज वुत्तं / / 236 / / अभिग्रहिका अपि आचार्यभापृच्छ्य पात्राणामानयनाय गच्छन्तिा ये वा नियुक्ताः ते द्विविधाः / तद्यथा-छिन्नाश्चाऽछिन्नाः / छिन्ना नाम-ये आचार्येण संदिष्टा यथा विशतिः पात्राण्यानेतव्यानि। अच्छिन्ना येषां न परिणामनिरोधः, तत्र ये तावन्नियुक्तास्तेषां छिन्नानां विधिरुच्यते-तत्र छिन्नेषु त्रिभिः प्रकारैरतिरिक्तपतद्ग्रहसंभवः, ताऽऽद्येऽपि प्रकारे त्रयः प्रकाराः। तद्यथा एकः साधुःच्छिन्नानां संदेशं श्रुत्वा तत्रैवं समक्षमाचार्यस्य ब्रूतेक्षमाश्रमणाः! अनुजानीत युष्माकं योग्येषु परिपूर्णषु पतद्ग्रहेषु लब्धेषु यद्यन्येऽपि लभेरन् ततस्यान्यपि मम योग्यानि गृह्णन्तु एवं ब्रूवाणः शुद्धः। अत्रैवमाचार्य नानुज्ञापयति, किंत्वेवमेव तान बजतो व्रते, तर्हि तस्मिन्नेवं भणति प्रायश्चित्तं लघुको मासः, ते चेत् व्रजन्तः प्रति-शृण्वन्ति ग्रहीष्याम इति तदा तेषामपि प्रायश्चित्तं प्रत्येक लघुको मासः, द्वितीयो व्रजतस्तान संभोगिकान दृष्ट्वा ब्रवीति क्व यूयं संप्रस्थितास्तैरवाचिपात्राणामानयनायाऽऽचार्येण प्रेषिताः। ततस्तान्स बूते-यावन्ति युष्माकं संदिष्टानि तावत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं कारणेन तान्यपि प्रतिगृह्णीत एवं भणति प्रायश्चित्तं लघुको मासः, तेऽपि यदि प्रतिशृण्वन्ति तदा तेषामपि प्रत्येक प्रायश्चित्तं लघुको मासः / तृतीयो लजालुतया न शक्नोति स्वयमाचार्यान् विज्ञापयतुम् / अथवा कोऽपि शठत्वेन अन्येन भाणयति। यथा-कैते प्रेष्यन्ते, तान् ब्रुवते-यूयमाचार्यान् भणत युष्माकं परिपूर्णेषु लब्धेषु यद्यन्यान्यपि लभध्वं तदा मम कारणेन प्रतिगृहीत, एवं भणतितस्मिन् प्रायश्चित्तं लघुको मासः। सोऽपि यदिशठत्वेन भाणयति तस्य यदीच्छन्ति तर्हि तेषां प्रायश्चित्तं मासलधु, तस्मात तैर्नेष्टव्यम्, यथा न भणामीति लज्जालोर्वचनेन पुनराचार्या भणन्ति तत्र यदा तत्समक्षमाचार्यो भणितः, आचार्येण च समनुज्ञात, तदा यल्लभ्यते अतिरिक्त लक्षणं युक्तमयुक्तं वा तत्तस्यैव दातव्यम्। द्वितीयप्रकारमाह- (गुरुवयणत्यादि) कोऽपि पथि गच्छतो दृष्टा ब्रूते, यथा-ममापि योग्यानि भाजनानि गृह्णीत, तत्र यदि प्रत्यासन्नस्तदा तद्वचमं प्रतिग्राह्यम् / किमुक्तं भवति? आसन्न प्रदेशात्प्रतिनिवृत्त्य गुरुः पृच्छति यो-यथा अमुकः साधुरेवं ब्रवीति-ममाप्यर्थाय भाजनानि प्रतिगृह्णीता अथवा-तमेव प्रेषयन्ति, त्वमेवाऽऽचार्य विज्ञपय, एवं कुर्वत्सु तेषु प्रायश्चित्तं लघुको मासः / अथ दूरे गतास्तान सांभोगिकान् दृष्ट्वा ब्रूयुरस्माकमपि योग्यानि भाजनानि गृहीत। ते ब्रूयुः प्रतिगृहीष्यामः, परंतत्र प्रमाणं गुरुवचः। तथा चाऽऽह-तत्र दूरागताना प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुरवः प्रमाणीकर्तव्याः तृतीयोविंशतेरधिकंलक्षणयुक्तंपात्रं दृष्ट्वा स्वयं गृह्णाति, एवं स्वयं ग्रहणवदुक्तसूत्रे तत्संभवति, अतिरिक्तंपात्रं सम्भवतीति गाथार्थः।