________________ पत्त 411 - अभिधानराजेन्द्रः - भाग 5 पत्त कपात्राऽऽनीतमेकस्यात्मनो भवति, आचार्याऽऽदीनां किं ददातु, कुत्र च तेषा प्रायोग्यं गृहातु ततस्ते एवं परित्यक्ताः। अत्र पूर्वार्द्धव्याख्यानार्थमाहदेंते तेसिं अप्पा, जढो उ आदाणे ते जढा जंच। कुज्जा कुलालगहणं, वया जढा पाणगहणम्मि।२२०॥ तेषामध्वनिर्गतानांग्लानानां च ददति आत्मा परित्यक्तो भवति, अदाने ते अध्वनिर्गताऽऽदयः परित्यक्ताः, यच्च तेषां पात्रं दत्त्वा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषाः, ते च प्रागेव भाविताः, व्रतानि परित्यक्तानि भवन्ति / पानग्रहणे, पानग्रहणं भक्तोपलक्षणं, संक्तभक्तपानग्रहणे इत्यर्थः / भावना सर्वत्र प्रागेव कृता। पुनरपि परः प्रश्नययतिजइ होंति दोस एवं, तम्हा एकेक धारए पत्तं / सुत्ते य एगभणिय, मत्तयउवदेसणा चेम्हि / / 221 // दिन्नऽज्जरक्खिएहिं, दसपुरनगरम्मि उच्छुघरनामे। वासावासठितेहिं, गुणनिप्फत्ती बहुं नाउं।।२२२!! एवमुक्तप्रकारेण बहूनामेकपात्राभ्यनुज्ञायां भवन्ति दोषाः, तस्मात् एकैकः, एक पात्रं धारयेत्, न मात्रकं युक्तं पात्रमनुज्ञातम्। तथा चोक्तम्"जे निग्गंथे तरुणे बलवं से एगंपायं धरेज, नो वीयं' इति। ततो ज्ञायते नानुज्ञातं तीर्थकरैत्रिकग्रहणं केवलमिदानीमार्यरक्षितैराचार्यैर्दशपुरनगर इक्षुगृहनाम्नि उद्याने वर्षावासस्थितैर्बह्रीं गुणनिष्पत्तिं ज्ञात्वा मात्रकस्योपदेशना दत्ता कृता। सा च यैः कारणैः कृता, तान्युपदर्शयतिदूरे चिक्खल्लो बु-ट्टिकायसज्झायझाणपलिमंथो। तातेहिं एस दिन्नो, एस भणंतस्स चउ गुरुगा।।२२३।। ते आर्यरक्षिता आचार्या दशपुरनगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षा रात्र स्थिताः, मार्गे च कर्दमोऽतिप्रभूतो वृष्टिवर्ष, तदप्यतिशयेन प्रभूतं पतति, ततः प्रायोग्ये आचार्याऽऽदीनां लभ्यमाने यदिन गृह्यतेतदातेपरित्यक्ता भवति / अथ गृह्यते तर्हि कुत्र पानीयं भैक्षं वा गृह्यताम् / अथ नीत्वा प्रत्यागम्यते तदा कायानामप्काय-हरितकायानां विराधना स्वाध्या यध्यानानां च परिमन्थो व्याघातः, ततस्तैरेतैः कारणैरेष मात्रकस्योपदेशो दत्तः / सूरिराह-यथोक्तकारणवशादर्यरक्षितैरेष मात्रकोऽनुज्ञातो न तीर्थकरैरिति। एवं भणतो वदतस्तत् प्रायश्चित्तं चत्वारो गुरुकाः, तीर्थकरेरप्यनुज्ञानात् / एतचाऽग्रे दर्शयिष्यते / यदपि चोक्तम्- "जे निगथे तरुणे बलव से एगे पाय धरेज्जा नो वीय।'' इत्यादि सूत्र, तदपि गच्छनिर्गतविषयं, न स्थविरकल्पाऽऽश्रितं, न च तेन कारणे जातेनाऽऽयंरक्षितैत्रिकानुज्ञा कृता. तदेवैकं केवलं, किं त्वन्यदपि मात्रकानुज्ञायां कारणकदम्बकमस्ति। तदेवाऽऽहपाणदयखमणकरणे, संघाडासतिविकप्पपरिहारी। खमणासहु एगागी, गेण्हति ऊमत्तए भत्तं / / 224 / / थेराणेस विदिन्नो, ओहोवहिमत्तगो जिणवरेहिं। आयरियादीणऽट्ठा, तस्सुवभोगो नइहरा उ॥२२५।। प्राणिदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात् तस्य यः संघाटकः स क्षपणं कुर्त न शक्नोति, न च तस्याऽन्यः संघाटकः विद्यते, ततो यदि त्रयो जनाः संभूय भिक्षामटन्ति तदा जनानां विकल्पो भवति, तस्य परिहरणाय एकाकी हिण्डते, सद्वितीयस्य संघाटकवतः साधोः प्राणिदयार्थ क्षपणकरणे संघाटाभावे विकल्पपरिहारी क्षपणकरणासमर्थो भिक्षामेकाकी हिण्डमानः पतदग्रहे पानकं गृह्णाति, मात्रके भक्तम्। अनेन कारणेन स्थविराणामोघोपधिरूपो मात्रको जिनवरैर्वितीर्णोऽनुज्ञातः, ओघनिर्युक्तौ तथाऽभिधानात्। एतेन यदुक्तं तीर्थकरैर्नानुज्ञातो मात्रक इति तन्मिथ्येत्याविदितम्, अत एतस्यैवं ब्रुवतश्चतुर्गुरुकं प्रायश्चित्तम्। तथा तस्य मात्रस्योपभोगे आचार्याऽऽदीनामाचार्यग्लानप्राघूर्णकबालवृद्धाऽऽदीनामर्थाय तत्प्रायोग्यग्रहणाय, उपलक्षणमेतत्-संसक्तभक्तपानशोधिकरणाय च प्रागुक्तकारणव्यतिरेकेण प्रायेणानु-ज्ञातः, इतरथा तूक्तकारणव्यतिरेकेण नानुज्ञातः, एतच्च परिभाव्य तत आर्यरक्षितश्चिन्तितं प्रायः प्राणरक्षणाय संसक्तभक्तपानविशोधिकरणाय च मात्रक एकपरिभोगोऽनुज्ञातः, शेषकालं त्वलोभाऽऽद्यसङ्गनिवारणाय प्रतिषिद्धः। तथाऽऽहगुणनिप्फत्ती बहुगी, दगमासे होहिति त्ति वियरंति ! लोभे पसञ्जमाणे, वारे ति ततो पुणो मत्तं / / 226|| गुणनिष्पत्तिर्बही दकमासे वर्षारात्रे भवष्यितीति ततप्रारम्भ समये भगवन्त आर्यरक्षिता मात्रकपरिभोगवन्त आर्यरक्षिता मात्रकपरिभोगं वितरन्त्यानुजानन्ति, ऋतुबद्धे तु काले आचार्याऽऽदि-प्रायोग्यग्रहणलक्षणं कारणमतिरिच्यान्यत्कारण न समस्ति, केवल लोभ एव प्रसञ्जते। तथाहि-यत् यत् उत्कृष्ट तत्तत् लोभेन मात्रके गृह्णाति, तत इत्थं लोभे प्रसञ्जति तन्निवारणायाऽऽ-चार्याऽऽदिप्रायोग्यग्रहणाभावे पुनर्मात्रकं तदा वारयन्ति। एवं सिद्धं गहणं, आयरियाईण कारणे भोगो। पाणदयठ्ठपभोगो, वितिओ पुण रक्खिअज्जाओ॥२२७।। एवमुक्तप्रकारेण मात्रस्य ग्रहण सिद्ध, यतः सूत्रे ओघनिर्युक्त्यादी आचार्याऽऽदीनां कारणे आचार्याऽऽदिप्रायोग्यग्रहणलक्षणे मात्रकस्याभोगोऽनुज्ञातः, द्वितीयः पुनरुपभोग आर्यरक्षितात् प्राणदयाऽर्थ प्रवृत्तः / कारणाभावे तु मात्रकपरिभोगे प्रायश्चित्तम् / तदेवाऽऽहजत्तियमित्ता वारा, दिणेण आणेइ तत्तिया लहुगा। अट्ठहिँ दिणेहि सपयं, निक्कारेण मत्तपरिभोगे // 228|| निष्कारणे कारणाऽभावे मात्रकस्य परिभोगे यावन्मात्रान् वारान् दिवसेनैकेन तेन मात्रेणाऽऽनयति भावतो लघुका मासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदं पुनव्रताऽऽरोपणं, मूललक्षणमष्टम, प्रायश्चितमिति भावः। जे वेंति न घेतव्यो, मत्तओंजे वा य तं न धारेंति। चउगुरुगा तेसि भवे, आणाऽऽदिविराहणा चेव।२२६। जे ब्रवते-न ग्रहीतव्यो मात्रको, ये च तन्मात्रकं न धारयन्ति, तेषां प्रत्येक प्रयश्चितं भवति चत्यारो गुरुकाः, आज्ञाऽऽदयश्च दोषाः, प्राणविपत्तेः संयमविराधना वा।। अन्यच्चलोए होइ दुगुंछा, वियारपडिग्गहेण उड्डाहो।