SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ पत्त 406 - अभिधानराजेन्द्रः - भाग 5 पत्त त्रिकस्य जघन्याऽऽदित्रयस्यैकतरं यद् गुरुसमक्षं प्रतिज्ञातं तदेव याच्यमानमुद्दिष्टपात्रमिति प्रथमा, प्रेक्षापात्रं पुनर्दृष्ट्वा अवलोक्य यदीदृशं प्रयच्छति भणति तत्प्रेक्षापूर्वकं याच्यमानत्वात् प्रेक्षापात्रमिति द्वितीया। अथ तृतीयातस्याश्च स्वरूपमाचाराने द्वितीयश्रुतस्कन्धे षष्ठाऽध्ययने प्रथमाद्देशके इत्थमभिहितम्-"अहा-वरातच्चा पडिमा-से भिक्खू वा भिक्खुणी वा से जं पुण पायं जाणेज्जा / तं जहा-संगइयं वा वेजयंतियं वा।'' अथ किमिदं सङ्गतिकं, किं वा वैजयन्तिकमित्याह-(दोण्हेगयरमित्यादि) इह कस्यचिदगारिणो द्वे पात्रे, स च तयोरेकतरदिने 2 वारकेन वायति, तत्र यस्मिन् दिवसे यद्वाह्यते तत् संगतिकमभिधीयते, इतरत् वैजयन्तिकं, तयोरेकतर यदभिग्रहविशेषेण गवेष्यते, सा तृतीया प्रतिमा / चतुर्थी प्रतिपादयतिदव्वाऽऽइ दव्वहीणा-हियं तु अमुगं च मे न घेत्तव्वं / दोहि वि भावनिसिटुं, तमुज्झिउं भट्ठ णोभट्ठ // 661 / / उज्झितं चतुर्दा-दिव्यक्षेत्रकालभावोज्झितभेदात्। तत्र द्रष्योज्झितं यथा-केनचिदगारिणा प्रतिज्ञातम्-इयत्प्रमाणात् हीनाधिकं पात्रममुकं वा कमठप्रतिग्रहाऽऽदिकपात्रं मया न ग्रहीतव्यं, तदेव केनचिदुपनीतं, ततः प्रागुक्तयुक्त्या द्वाभ्यामपि भावतो निसृष्ट तदवभाषितमनवभाषितं वा दीयमानं द्रव्योज्झितम्। क्षेत्रोज्झितमाहअमुइच्चगं न धारे, उवणीयं तं च केणई तस्स। जं तुज्झे भरहाई, सदेस बहुपत्तदेसे वा // 662 / / अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचिदुपनीतं तदुभा- | भ्यामपि पूर्वोक्तहेतोः परित्यक्त क्षेत्रोज्झितम्, यद्वा-पात्रमुज्झेयुर्भरताऽऽदयः, भरतो नटः, आदिशब्दाचारणाऽऽदिपरिग्रहः। स्वेदशं गताः सन्तो, बहुपात्रदेशे वा, तदपि क्षेत्रोज्झितम्। कालोज्झितमाहदगदोछिगाऽऽइ जं पु-व्वकालजुग्गं तदन्नहिं उज्झे। होहि तहेस्सइ काले, अजोग्गयमणागयं उज्झे / / 663 / / "दोछिग" तुम्बकं, दकस्य जलस्य यद्भियते तुम्बक, तदादिशब्दात्तक्रतुम्बकाऽऽदिक च यत्पूर्वस्मिन् ग्रीष्माऽऽदी काले योग्यं तदन्यस्मिन् वर्षाकालाऽऽदावुज्झेत, भविष्यति वा एष्यति कालेऽयोग्यमतोऽनागतमेव यदुज्झेत्, तदुभयथाऽपि कालोज्झितं ज्ञातव्यम्। भावोज्झितमाहलक्षूण अण्णपाए, स देइ अन्नस्स कस्सइ गिही वि। सो वि अनिच्छइ ताई, भावुज्झिय एवमाईयं / / 664 / / लब्ध्वा अन्यान्यभिनवानि पात्राणि पुराणानि स गृही अन्यस्य कस्यचिददाति, अपि च तानि दीयमानानि यदा नेच्छति तदा एवमादिक भावोज्झितं द्रष्टव्यम्। बृ०१ उ०१प्रक०। (20) तच पात्रक लक्षणोपेतं ग्राह्य, नालक्षणोपेतम्, एतदेवाऽऽहपायस्स लक्खणमल-क्खणं च भुजो इमं वियाणित्ता। लक्खणजुत्तस्य गुणा, दोसा य अलक्खणस्सेमे 1007 पात्रस्य लक्षणां ज्ञात्वा विज्ञाय अलक्षणं च बुद्धा भूयः पुनः लक्षणोपेतं ग्राह्य, यतो लक्षणोपेतस्याऽमी गुणाः, अलक्षणस्य चैवं दोषा वक्ष्यमाणा भवन्ति, तस्माल्लक्षणोपेतं ग्राह्यम्। तचेदम् वट्ट समचउरंसं, होइ थिरं थावरं च वण्णं च। हुंडं वाताइद्धं, भिन्नं च अधारणिज्जाई / / 1008 // वृत्तं वर्तुलं, तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवतीत्यत आहसमचतुरस्त्रं सर्वतः, तथा स्थिरंच यद्भवति सुप्रतिष्ठान तत् गृह्यते नान्यत्, तथा स्थावरं च यद्भवति नपरकीयं परवत्याचितं कतिपयदिनस्थायि, तथा वर्ण्य स्निग्धवर्णोपेतं यद्भवति गद्ग्रा , नेतरत्। उक्त लक्षणोपेतम्। इदानीमलक्षणोपेतमुच्यते-हुण्ड क्वचिन्निम्नं क्वचिदुन्नतं यत्तदधारणीयम् (वाताइद्धत्ति) अकालेनैव शुष्कं संकुचितं बलिभृतं तदधारणीयं, तथा भिन्नराजियुक्तं सछिद्र वा, एतानि न धार्यन्ते, परित्यज्यन्त इत्यर्थः / _इदानी लक्षणयुक्तस्य फलं प्रदर्शयन्नाहसंठियम्मि भवे लाभो, पइट्टा सुपइहिए। निव्वणे कित्तिमारुग्गं, वन्नड्डे नाणसंयया // 1006 / / संस्थिते पात्रके वृत्तचतुरस्र ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिस्थिते स्थिरे पत्रके, निम्रणे क्षताऽऽदिरहिते कीर्तिः आरोग्यं भवति, वर्णाढ्ये ज्ञानसंपद्भवति। इदानीमलक्षणयुक्तफलप्रदर्शनायाऽऽहहुंडे चरित्तभेओ, सबलम्मि य चित्तविन्ममं जाणे। दुप्फए खीलसंठाणे, गणे व चरणे च णो ठाणं / 1010 / हुण्डे चारित्रस्य भेदो विनाशो भवति / शवले चित्रले विभ्रमो चित्तविप्लुतिर्भवति, दुष्पात्रे अधोभाग अप्रतिष्ठिते प्रतिष्ठिते प्रतिष्ठानरहिते, तथा कीलसंस्थाने कीलकं दीर्घमुचं गतं तस्मिश्च एवंविधे गणे स्वगच्छे चरणे चरित्रे वा न प्रतिष्ठान भवति। . पउमुप्पले अकुसलं, सव्वणे वणमाइसे। अंतो बहिं व दड्डे, मरणं तत्थ निद्दिसे // 1011|| पद्मोत्पलहेटेस्थासगागारे पात्रके अकुशलं भवति, सव्रणे भवति पत्रकस्थायिनः। तथा-अन्तः अभ्यन्तरे, बहिर्बादग्धेसति मरणंतत्र निर्दिशेत्। इदानीं मुखलक्षणं प्रतिपादयन्नाहअकरंडगम्मि भाणे, हत्थो उड्ढे जहा न घट्टेइ। एयं जहन्नयमुहं, वत्थु पप्पा विसालं तु / / 1012|| करण्डकः वसनग्रन्थितः समतलकः करण्डकस्येवाऽऽकारो यस्य तत्करण्डकं, न करण्डकमकरण्डकं वृत्तासमचतुरसमित्यर्थः। तस्मिन् एवविधे भाजने पात्रके मुखं कियन्माचं क्रियते ? अत-आह - हस्तः प्रविशन ऊर्द्ध करणे यथा न ? घट्टयति न स्पृशति एतज्जधन्यमुखं पात्रकं भवति वस्तु प्राप्य वस्त्वाश्रित्य मुखनैव गृहस्थो ददाति इत्येवमाद्याश्रित्य विशालतरं मुखं क्रियत इति / ओघ०। दाता वदेत् तैलाऽऽदिना म्रक्षयेत्से ण एताए एसणाए एसमाणं पासित्ता परो वइज्जा-आ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy