SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ पत्त 368 - अमिधानराजेन्द्रः - भाग 5 पत्त तसेंबीयम्मि वि दिढे, न गेण्हती गेण्हती तु अधिटे। गहणम्मि उ परिसुद्धे, कप्पति दिडेहि वी बहुहिं // 356 / / एताश्चतस्रोऽपि गाथाः पीठिकायां सविस्तरं व्याख्याता इति नेह भूयो व्याख्यायन्ते / गतं चाउलद्वारम्। (10) अथ जघन्ययतनाद्वारमाहपच्छित्तपण जहण्णं, तेण उ तव्बुड्डिए य जयणाए। जहन्ना व सस्सवादी, तेहि उजयणेयर कलादी॥३५७|| जघन्यं प्रायश्चित्तपञ्चकं तेन यतना जघन्ययतना। कथम् ? इत्याह-ते वृद्धाः पञ्चकाऽऽदिवृद्धिरूपया यतनया पात्रकाऽसत्तायां यतन्ते। अथवासर्षपाऽऽदीनि बीजानि जघन्यानि, सूक्ष्माणीत्यर्थः / तैर्युक्तं पात्रक वक्ष्यमाणया षट्भागकरवृद्धियतनया गृह्णन्ति, इतराणि तु बादराणि बीजानि, कला (या) क्षणकास्तदादीनि, आदिशब्दाद् मसूराऽऽदीनि च / / 357 // अमुमेवार्थ विवरीषुराहछन्भागकते हत्थे, सुहमेसु पढमपव्वें पणगं तु। दस बितिए रायदिणा, अंगुलिमूलेसु पन्नरस // 358|| इह हस्तः षड्भागः क्रियते, तत्र प्रथमपर्वण्येको भागः, द्वितीय-पर्वणि द्वितीयः, अड्गुलिमूलानि तृतीयः, आयुषो रेखा चतुर्थः अङ्गुष्ठबन्धः पञ्चमः अड्गुष्ठमतिक्रम्य शेषः सर्वोऽपि षष्ठो भागः। एवं षड्भागीकृतेहस्ते प्रथमपर्वमात्रे सूक्ष्मबीजे, पञ्चकं पञ्चरात्रिन्दिवानि प्रायश्चित्तम्। द्वितीयपर्वमात्रेषु दश रात्रिन्दिवानि प्रायश्चित्तम्,अड्गुलिमूलेषु पक्ष दश रात्रिन्दिवानि प्रायश्चित्तम् // 358 / / वीसं तु आउलेहा, अगुटुंतो य होति पणवीसा। पसइम्मि होइ मासो, चाउम्मासो भवे चउसु // 356 / / आयूरेखामात्रेषु विंशतिरात्रिन्दिवानि, अङ्गुष्ठान्तमात्रेषु पञ्चविंशती रात्रिन्दिवानि, प्रसृतिप्रमाणेषु मासलघु,चतुष्प्रसृतिप्रमाणेषु चत्वारो मासा लघवः। एवं सूक्ष्मबीजेषु प्रायश्चित्तमुक्तम्॥ 356 / / अथ बादरबीजेषु तदेवाऽतिदिशन्नाहएसेव कमो नियमा, मूलेसु वितियपव्वमारद्घो। अंजलिचउक्क लहुगा, तचिय लहुगा अणंतेसु॥३६०|| एष एव क्रमो नियमाद् मूलेष्वपि चणकाऽऽदिबीजेषु मन्तव्यः। नवरम्द्वितीयपर्वाण्यादी कृत्वाऽत्र प्रायश्चित्तकमः प्रारभ्यते-द्वितीयपर्वमात्रेषु बादरषीजेषु पञ्चकम्, अड्गुलिमूलमात्रेषु दशकम्, आयूरेखामात्रेषु पञ्चदशकम् अङ्गुष्ठमूलमात्रेषु विंशतिः, प्रसृतिप्रमाणेषु भिन्नमासः, अङ्गुलिमात्रेषु मासलघु, अञ्जलि चतुष्कपरिमाणेषु चतुर्लघु।। एतत्प्रत्येकबीजविषयं भणितम् अनन्तबीजेषु सूक्ष्प्रस्थूलेषु यथाक्रममेतान्येव प्रायश्चित्तानि गुरुकानि कर्त्तव्यानि॥३६०।। निक्कारणम्मि एए, पच्छित्ता वन्निया उ बीएसु / नायव्वा आणुपुव्वी, एसेव उ कारणे जयणा // 361 / / एतानि प्रायश्चितानि निष्कारणे बीजेषु बीजयुक्ते पात्रे गृह्यमाणे वर्णितानि, कारणे तु पात्रकस्याऽसत्तालक्षणे आनुपूा प्रथमपर्वाऽऽयदिरूपया एषैव पञ्चकाऽऽदिका यतना कर्त्तव्या। अथ यथाकृते प्रथमपर्वप्रमाणानि बीजानि, अल्पपरिकर्मकं च शुद्ध प्राप्यते, अनयोरेक- / तरत गृहीतमुच्यते, यथाकृतं ग्राह्यम्, नाऽल्पपरिकर्म। एवं द्वितीयपर्वाऽऽदिष्वपि वक्तव्यम्, यावदीजैराकण्ठभृतमपि यथाकृतं ग्राह्यम॥३६१।। तथा चाऽऽहवोसर्ट पि हु कप्पइ, बीयाईणं अहाकडं पायं। नय अप्पसपरिकम्मा, तहेव अप्प सपरिकम्मा।।३६२।। आगन्तुकानां बीजाऽऽदीना (वोसहमपि) आकण्ठभृतमपि यथा-कृतं पात्रं कल्पते, न चाऽल्पपरिकर्म शुद्धमपि, तथैवमेवाल्पपरिकर्मकमागन्तुकबीजानां भृतमपि कल्पते, न च सपरिकर्मकं शुद्धमपि // 362 / / अत्रैवैदम्पर्यमाहथूला वा सुहमा वा, अवहंते वा असंथरंतम्मि। आगंतुअसंकामिय, अप्पबहु असंथरंतम्मि।।३६३।। यथाकृते स्थूलानि वा चणकाऽऽदीनि बीजानि भवन्तु, सूक्ष्माणि वा सर्षपाऽऽदीनि, यदि तस्य प्राक्तनं भाजनं, नवरं गत्या तदवह-मानकं, तेन वा भाजनेन न संस्तरति, सर्वथा वा भाजनं तस्य नास्ति / एवमसंस्तरतोऽल्पे बहुत्वंतोलयित्वा बहुगुणकरमिति कृत्वा यथाकृतमागन्तुकबीजानां भृतमपि बीजानि यतनयाऽन्यत्र संक्रमय्य ग्रहीतुं कल्पते // 363 / / गतं जघन्ययतनाद्वारम्। अथ"असई,""असिव ति" द्वारद्वयमाहथूलसुहूमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि। जं कप्पइत्ति भणियं, ण जुञ्जई पुव्वमवरेणं / / 464 / / स्थूलसूक्ष्मेषु बीजेषु पूर्व सप्रपा प्रायश्चित्तमुक्तम् संप्रति तैरेव बीजै तोऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, इत्येवं यद्भणितं, तदेतद् युष्माकं पूर्वमपरेण न युज्यते // 364 / / गुरुराहचोयग ! दुविहा असई, संताऽसंताय संत असिवाऽऽदी। इयरा उ झामिताऽऽई, संते भणियाउ सा सोही // 365 / / हे नोदक ! द्विविधा असत्-सदसत्ता, असदसत्ता च। तत्र सत्ता नामयत्र ग्रामे नगरे वा भाजनानि सन्ति तत्राऽपान्तराले वा अशिवं, स्वनामे वा येषु कुलेषु लभ्यन्ते तेषु अशिवम्, आदिशब्दादवमौदर्याऽऽदीनि तत्राऽपान्तराले, वा विद्यन्ते, अथ चाऽस्ति भाजनं, परं नवरं गत्या न तावद्द्वहति / यद्वातद्भाजनमतिलधुतरमतो न तेन संस्तीर्थते / इतराअसदसत्ता। सा पुनरियम्-पात्रंध्यामितं प्रदीपनकेन दग्धम,आदिशब्दात् स्तेनैर्वाऽपहृतं, भग्नं वा। एवंविधयोरप्यसत्तयोर्यशाकृतमागन्तुकबीजाना भृतमपि कल्पते, न पुनः शुद्धमल्पपरिकर्म, यत्पुनरस्माभिः शोधिः प्रायश्चित्तमुक्तम्, सा द्विविधाया असत्ताया अभावे सति पात्रं यो गृह्णाति, तद्विषया मन्तव्या॥३६॥ किं च - जो उ गुणो दोसकरो, ण सो गुणो दोसमेव तं जाणे / अगुणो वि होति उ गुणो, विणिच्छओ सुंदरो जस्स // 366 / / यस्तु यः पुनः गुणो दोषकर आत्मोपघाताऽऽदिदोषजनकः, स परमार्थतो गुण एव न भवति, किन्तु दोषमेव तं जानीयात, दोषकारणत्वात्। यस्य तु विनिश्चयः सुन्दरः, स कथञ्चिदगुणोऽपि परिणामसुन्दरतया गुण एव भवति, गुणकारणत्वात्। एवमिहापि यथाकृते यत्स्थापितान्यागन्तुकबीजानि यतनयाऽन्यत्र संक्रामयतः स्वल्पसंघट्टनदो माता
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy