________________ पत्त 367 - अभिधानराजेन्द्रः - भाग 5 सूत्रार्थपौरुष्यौ द्वे अपि वर्जयेत्, सूर्योदयादारभ्यैवाऽपरं पात्रक मार्गयतीति / / 344 / / (7) अथ कालद्वारमाहचत्तारि अहाकडए, दो मासा हाँति अप्पपरिकम्मे / तेण पर मग्गियम्मि य, असती गहणं सपरिकम्मे // 34 // हुण्डशबलताऽऽद्यपलक्षणयुक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गयितव्यम्, चतुर्षु मासेषु पूर्णेष्वपि यदा यथाकृतं न प्राप्यते तदा द्वो मासावल्पपरिकर्मगवेषणे भवतः, ततः परं मार्गितऽप्यल्पपरिकर्मण्य - प्राप्ते पण्मास्यां पूर्णायां सपरिकर्मणो ग्रहणं करोति / / 345 / / तच्च कियन्तं कालं गवेषणीयम् ? इत्याहपणयालीसं दिवसे, मग्गित्ता जो न लब्मए ततियं / तेण परेण न गिण्हइ, मा तं पक्खेण रज्जेजा // 346|| पञ्चचत्वारिंशतं दिवसान तृतीयं बहुपरिकर्म मार्गयित्वा यदि न लभ्यते, ततः किम्? इत्याह-(तण पर त्ति) प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पशचत्वारिंशतो दिवसेभ्यः परं बहुपरिकर्म गृह्णाति, कुत इति चेत? इत्युच्यते-यथाकृतगवेषणकालादारभ्य सार्द्धसप्तसु मासेषु गतेषु पञ्चदशभिर्दिवसैवर्षारात्रो भवति। तेन च पक्षमात्रेण कालेन मा तत्पात्रक रज्येत, मा लिप्तं सत् प्रगुणीभवेत्। किमुक्तं भवति? -वर्षाकाले पात्रस्य परिकर्म कर्तुं न लभ्यते, बहुपरिकर्मणि च पात्रे छेदनभेदनाऽऽदि प्रभूतं परिकर्म विधेयम्। तच्च पक्षमात्रेण न कुर्त पार्यते, अतः पञ्चचत्वारिंशदिवसेभ्यः परतो न ग्रहीतव्यमिति // 346 / / गतं कालद्वारम्। (8) अथाऽऽकरद्वारमाहकुत्तियसिद्धगनिण्हव-पवंचपडिमाउवासगाईसु। कुत्तियवज्जं वितियं, आगरमाईसु वा दो वि॥३४७।। यथाकृतं पात्रकं कुत्रिकाऽऽपणे मार्गयितं सिद्धपुत्रकस्य वा, निह्नवस्य वा, प्रपञ्चश्रमणस्य वा, एकादशी प्रतिमा पूरयित्वा वा श्रमणोपासको गृहं प्रत्यागतस्तदादेर्वा पार्श्वे यथाकृत पात्रं प्राप्यते, कुत्रिकाऽऽपणवर्ज शेषेषु सिद्धपुत्रकाऽऽदिषु द्वितीयमल्पपरिकर्म प्राप्यते / अथवाआकराऽऽदिषु हि अल्पपरिकर्मणी प्राप्येते // 347 / / तद्यथाआगर नई कुडंगे, बाहे तेणे य भिक्खं जंत विही। कय कारियं च कीतं, जइ कप्पइ धेप्पिउं अञ्जो ! / / 348|| आकरो भिल्लपल्ल्यादिर्यत्राऽलाबूनि प्राप्यन्ते, नद्या, यास्तुम्बकैरतीयन्ते, कुडङ्गं नाम-यत्र च खण्डतुम्बकानि ज्ञायन्ते। (बाहे तेणय त्ति) व्याधपल्ल्यां, स्तेनपल्ल्यां वाऽलाबूनि लभ्यन्ते। (भिक्ख त्ति) ये भिक्षाचरा अलाबुकानि गृहीत्वा भिक्षा पर्यटन्ति। (जंत त्ति) यन्त्रशालासु गुडाऽऽदीनामुत्सेवनार्थमलाबूनि धार्यन्ते। एतेषु स्थानेषु (विहि ति) विधिना पात्रकं ग्रहीतव्यम् / कः पुनर्विधरिति चेत् ? उच्यतेतत्राऽऽकराऽऽदिषु गत्वा च भाषणे कृते दायकेन दर्शिते प्रष्टव्यम्कस्यार्थमेतत् कृतम् ? ततस्तेऽभिदध्यु-युष्माकमर्थे कृतम् कारितम, क्रीत वा, यदि कल्पते ततः आर्य ! गृह्यताम् / एवमुक्ते सति न गृह्णातीति संग्रहगाथासमासार्थः // 348 / / अथेनामेव गाथाद्वयेन विवृणोतिआगर पल्लीमाई, निच्चुदग नदी कुडंगमुस्सरणं / बाहे तेणे भिक्खे, जंते परिभोग संसत्तं // 34 // तुम्हट्ठाएँ कयमिणं, अन्नेसऽट्ठाएँ अहवण सयट्ठा। जो घेप्पइ च तदट्ठा, एमेव य कीयपामिचे // 350 / / आकरो नाम-भिल्लपल्ली, भिल्लकोट्टं वा / तत्र प्रायोऽलाबूनि प्रभुतानि प्राप्यन्ते / तथा नित्योदका अगाधजला महानद्यो यत्र ग्रामाऽऽदी अलाबुभिस्तीर्यन्ते, तत्र पात्राणि प्राप्यन्ते / कुडङ्गं वृक्षगहनम्, तत्र तुम्बिकानामुत्सरणं वापनं क्रियते, यथा तासामेव नदीनां कूलेषु ये वृक्षकुडङ्गास्तेषु तुम्बिका अवाप्यन्ते। व्याघपल्ल्या, स्तेनपल्ल्यां च तुम्बकेषु काञ्जिकपानीयाऽऽदीनि प्रक्षिप्यन्ते, तत्र कौलालभाजनाभावात् / भिक्षाचरा भिक्षार्थमलाबूनि गृह्णन्ति / यन्त्रशालाऽऽदिषु च गुडोत्सेचनाहेतोरलाबूनि गृह्यन्ते / एतेष्वाकराऽऽदिषु यस्य प्रतिदिवसं परिभोगः क्रियमाणो विद्यते, तत्पात्रक जन्तुभिरसंसक्तं भवतीति कृत्वा ग्रहीतव्यम॥३४६।। पात्रे च दर्शित कस्यार्थमेतत् कृ तम् ? इति पृष्टो दाता श्रूयात्युष्प्राकमर्थाय कृतमिदम् कारितं वा / अथवा-अन्येषां साधूनामर्थाय कृतम्। "अहवण त्ति" निपातः यथार्थे स्वार्थमात्मनोऽर्थाय कृतमिदमस्माभिः / यद्वा-य एव भिक्षाचरो ग्रहीष्यति तस्यार्थाय कृतमिदंयावतिकमित्यर्थः। एवमेव च क्रीतप्रायमित्यादिकमपि वक्तव्यम् / यचाऽऽमार्थ कृताऽऽदिकं तत्कल्पते, आधाकर्मिमकाऽऽदिक तु न कल्पते // 350 गतमाकरद्वारम्। (6) अथ चाउलद्वारमाहचाउल उण्होदग तू-यरे य कुसणे तहेव तक्के य। जं होइ भावियं तं, कप्पति भइयव्वगं सेसं // 351 / / उण्हजलभावियं तं, अविगते सीओदगेण गेण्हंति। मज्जवसतेल्लसप्पी-मधुमादी भावियं भतियं / / 352 / / (चाउलं ति) तन्दुलधावनम्, उष्णोदकं प्रतीतम्, तुवरं कुसुम्भो दकाऽऽदिकम्, कुसणं मुद्गदाल्यादि, तस्य यदुदकं तदपि कुसणम्, तर्क प्रतीतम् / एतैर्यद्भावितं तत्कल्पते। शेषमेतद्विपरीतजलभावितं यत्पात्रम्, तदविगतेऽपरिणते शीतोदकेन गृह्णन्ति / मज्जावसातैलसर्पिर्मध्वादिभिस्तु भावितं भक्तं विकल्पितम्। तथा-हि-यदि तेषां मजाऽऽदीनामवयवा निःशेषा अप्यपनेतुं शक्यन्ते, ततो गृह्यते। अथवा-विकटाऽऽदिभावित यत्र युगपदुज्झितं तत्र न गृह्यते, अनुज्झितं तु गुह्यते।।३५२।। पात्रग्रहण एवं विधिमाहओभासणा य पुच्छा, दिट्ठी रिक्के सुहं वहते य। संसट्टे निक्खित्ते, सुक्खे य पगासें दठूण ||353|| ओसत्थ पाणमाई, पुच्छा मूलगुण-उत्तरगुणे य / तिट्ठाणे तिक्खुत्तो, मुट्ठो ससिणिद्धमादीसु॥३५४|| दाहिणकरेण कोणं,घेत्तुं भाणण वाम मणिबंधे। घट्टेइ तिन्नि वारे, तिन्नि तले तिन्नि भूमीए // 355||