________________ पत्त 365 - अभिधानराजेन्द्रः - भाग 5 पत्त पात्रलेपनभयात् तत्र शुष्कमेव भक्तं गृह्णाति, ततस्तद्भक्तं भुजा-नस्य गलके, उदरे वा लगेत, लग्ने च तत्राऽजीर्णे भवेत् (कोडियं ति) गाढं चम्पितं चम्प्यमानं वा पात्रक भज्येत, शिखर वा पात्रस्योपरि भक्तस्य शिख कुर्वन्तं दृष्ट्वा लोको ब्रूयात्-अहो असंतुष्टा बहुभक्षका अमी, एवमुड्डाहो भवेत्। एते डहरे भाजने दोषाः / / 325|| अथैनामेव भावयतिधुवणा-ऽधुवणे दोसा, वोसटुंते य काय आयुसिणे। सुक्के लग्गाऽजीरणे, कोडिएँ सिहरे य उड्डाहो / / 326 / / अतिभृतत्वेन तक्र-तीमनाऽदीनि प्रलोठयतो यत्पात्रक लेपकृतं, तस्य धावनाऽधावनयोरुभयोरपि दोषाः। तत्र धावने प्लावनाऽऽदयः, अधावने तु रात्रिभोजनव्रतभङ्गः। (वोसटुंते य त्ति) परिगलति भक्तपाने षण्णां कायानां विराधना / अथवा-तेनोष्णेन परिगलता दग्धशरीरस्याऽऽत्मविराधना / शुष्के च भक्ते अतिमात्रं भुज्यमाने गलके उदरे वा लग्ने अजीर्ण भवेत्। तत्र च ग्लानाऽऽरोपणा। कोडितं गाढ चम्पितं सत् पात्रक भज्येत, शिखरे च भक्तस्योपरि शिखायां विधीयमानामुड्डाहो भवति। यत एवम-दयो दोषाः, ततः प्रमाणयुक्तमेव ग्रहीतव्यम्॥३२६।। क्रीदृशं पुनस्तत्प्रमाणम्? इत्याशङ्कय प्रमाणमाहतिन्नि वितत्थी चउरं-गुलं च भाणस्स मज्झिमपमाणं / एत्तो हीण जहन्नं, अतिरेगयरंतु उक्कोसं (एता नियुक्तिगाथा ओघ नियुक्त्या मिलन्ति 363 पृष्ठे) // 327 / / पात्रस्य परिधि दवरकेण मीयते, यदा समानदवरकस्तिस्रो वितस्तयश्चत्वारि अड्गुलानि च भवन्ति, तदा भाजनस्य पात्रकस्य तद् मध्यमप्रमाणम् / इतो मध्यमप्रमाणहीन यत् पात्रं तद् जघन्यम्। अतिरिक्ततरं तु मध्यमप्रमाणाद् बृहत्तरमुत्कृष्टम् // 327|| अथवाउकोसतिसामासे, दुगाउअद्धाणमागओ साहू। चउरंगुलवजं भ-त्तपाणपज्जित्तयं हेट्ठा*॥३२५|| उत्कृष्टस्तृडमासः स उच्यते यस्मिन्नतीव प्रबला पिपासा समुल्लसति, सच जेष्ठः, आषाढो वा; तस्मिन्काले द्विगव्यूतप्रमाणादध्वन आगतो यः साधुः, तस्य ईदृशकालाध्वखिन्नस्य यच्च-तुरङ्गुलवर्जमुपरितनैश्चतुर्भिरङ्गुलैन्यूनमधस्ताद् भक्तपानस्य भृतं सत्पर्याप्तं भवति, तदित्थंभूतं पात्रकस्य प्रमाण मन्तव्यम्॥३२८|| एयं चेव पमाणं, सविसेसयरं अणुग्गहपवत्तं / / कंतारे दुभिक्खे, रोहगमाईसु भइयव्वं * // 326 // एतदेव प्रमाणं सविशेषतरं समधिकतरं यस्य भाजनस्य भवति तदनुग्रहप्रवृत्तं गच्छरयाऽनुग्रहार्थ प्रवर्तते / कथम् ? इत्याह-(कंतारे) महत्यामटव्यां वर्तमानस्य, तदुत्तीर्णस्य वा गच्छस्यानुग्रहार्थ तद् गृहीत्वा वैयावृत्यकरः पर्यटति। दुर्भिक्षेऽप्यलभ्यमानायां भिक्षायां तद् ग्रहीत्वा चिरमटित्वा बालाऽऽदिभ्यो ददाति / एवं नगरस्य रोधके संजाते, आदिशब्दाद् अपरेषुवा भयविशेषेषु कश्चिदानश्रद्धालुर्यावदेकस्मिन् भाजने माति, तात्प्रचुरमपि भक्तपानं दद्यात्, तत्र तदतिरिक्तभाजनं भक्तव्यं सेवनीयम्॥३२६॥ अथाऽपवादद्वारमभिधित्सुर्यः कारणैरधिकं हीनं वा धारयति तानि ताव दर्शयतिअन्नाणे गारवे लु-द्धे असंपत्तीऐं धारओ चेव। लहुओ लहुआ गुरुगा, चउत्थो सुद्धो उ जाणओ // 330 / / यद्यज्ञानेन हीनधिकप्रमाणं भाजनं धारयति ततो लघुमासः, गौरवेन धारयतश्चत्वारों लघवः लोभनं लुब्ध, लोभ इत्यर्थः / तेन धारयतश्चत्वारो गुरवः / असंप्राप्ति मप्रमाणयुक्तस्य पात्रस्याऽप्राप्तिस्तस्या यो हीनाऽतिरिक्तं धारयति स चतुर्थोऽप्राप्तिधारकः शुद्धः / तथा ज्ञायको नामपात्रलक्षणाऽलक्षणवेदी स लक्षणयुक्तं हीनाधिक प्रमाणमपि धारयति, ततः शुद्ध इति द्वार-श्लोकसमासार्थः / / 330 // अथैनामेव विवृणोतिहीणाऽतिरेगदोसे, अजाणओ सो धरिज हीणऽहियं / पगईऍ थोवभोई,सति लाभे वा करे तोसं // 331 / / पात्रस्य ये हीनाऽतिरिक्तविषया दोषाः पूर्वक्तास्तान्यो यर्तिन जानीते स हीनाधिकप्रमाणं धारयेत् / तथा कश्चिद् ऋद्धिगौरवयुक्तः सत्यपि भक्तपानलाभे प्रकृत्यैव स्तोकभोजी स्वल्पाहारोऽयं महात्मेतिख्यापनार्थमवम हीनप्रमाणं भोजनं करोति, सति पर्याप्त लाभे संतोषं वा कुर्यात् // 331 / / किं पुनस्तस्य ऋद्धिगौरवम् ? इत्याहईसरनिक्खंतो वा, आयरिओ वा वि एस डहरेणं / इति गारवेण ओमं, अतिप्पमाणं विमेहिं तु // 332 / / ईश्वरनिष्क्रान्ता वा राजाऽऽदिमहर्द्धिकः प्रव्रजितः, आचार्यो वा एष साधुः, यदेव डहरेण लघुना भाजनेन भिक्षा पर्यटति, इत्येवं गौरवेण यशःप्रवादलिप्सालक्षणेनाऽवमं भाजनं करोति / अतिप्रमाणं पुनः पात्रममुना कारणेन करोति / / 332 // अणिगूहियबलविरिओ, वेयावच्चं करेति अह समणो। मम तुल्लो न य कोई, पसंसकामी महल्लेणं // 333 / / अथेत्युपन्यासे / अहो अयं श्रमणः पुण्याऽऽत्मा अनिगूहितबलवीर्यो महता भाजनेन सकलस्याऽपि गच्छस्य वैयावृत्त्यं करोति, एवं प्रशंसाकामी नास्ति कोऽपि मम बाहुबलमङ्गीकृत्य तुल्यः सदृश इति ख्यापनार्थमतिरिक्तं भाजनं करोति // 333 // अथ लुब्धपदं व्याचष्टेअंतं न होइ देयं, थोवासी एस देह से सुद्धं / उक्कोसस्स व लंभे, कहि घेत्थं महल्ललाभेणं / / 334|| क्षुल्लकभाजनेन गृहाङ्गणस्थितं साधुं दृष्ट्वा गृहस्वामी भणति-स्तोकाऽऽशी स्तोकाऽऽहारोऽयं मुनिः, अतोऽस्य अन्तप्रान्तभक्तं न देयम्, किं तु शुद्धमुत्कृष्ट द्रव्यम अस्य प्रयच्छ, य एवं विचिन्त्य लुब्धतया हीनप्रमाणं करोति।तथा उत्कृष्टस्य शालिमुद्गदाल्यादेव्यस्य प्रभूतस्य लाभे सति चिन्तयति-अनेन प्रमाणोपेतभाजनेन पूर्व सामान्यमक्तस्य भृतेन पश्चादुत्कृष्टद्रव्यं लभ्यमानं कुत्र ग्रहीष्यामीति विचिन्त्य लोभेन महत्तर भाजनं गृह्णाति / / 334|| अथासंप्राप्तिज्ञायकपदे व्याख्यातिजुत्तपमाणस्सऽसती, हीणऽतिरित्तं चउत्थों धारेति।