________________ पत्त 364 ~ अभिधानराजेन्द्रः - भाग 5 पत्त इदमेव भावयतिगणणाएँ पमाणेण य, गणणाएँ समत्तओ पडिग्गहओ। पलिमंथ भरुव्वहरा, अतिप्पमाणे इमे दोसा / / 316 / / गणनया, प्रमाणेन च, पात्रस्य प्रमाणं द्विविधम्-तत्र गणनायां समात्रको मात्रकसहितः प्रतिग्रहो मन्तव्यः / अथेत ऊर्ध्व तृतीयाऽऽदिकं पात्रं धारयति, ततः कर्मणि रङ्गनाऽऽदी, प्रत्युपेक्षणाऽऽदिषु च महान् परिमन्थो भवति। अध्वनि बहूनि पात्राणि वहमानस्य भारः , बहूपकरणश्चो द्वहको जनोपहास्यो भवति-अहो ! भारवाहकोऽयमिति / अत्र चाऽतिप्रमाणे प्रमाणद्वयातिरिक्ते पात्रे एते दोषाः। तद्यथाभारेण वेयणा वा, अमिहणमाई ण पेहए दोसा। इरियादि संजमम्मि य, छक्काया भाणभेओ य / / 317 / प्रभूतपात्रवहने भारेणाऽऽक्रान्तस्य वेदना (अभिहण ति) हस्तितुरङ्ग माऽऽदीनि अभिघातं प्रहारं प्रयच्छन्ति, तं न पश्यति, आदिशब्दात् स्थाणुकण्टकाऽऽदीनि न प्रेक्षते, एवमात्मविराधनायामीर्याऽऽदिकं न शोधयति, ततश्च षट्कायविराधना / अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदध्यात्, एते गणनाति-रिक्ते दोषा उक्ताः। प्रमाणातिरिक्ते तु पात्रे इमे दोषाःभाणऽप्पमाणगहणे भुंजणे गेलण्णऽभुंजे उन्ममिगा। एसणपेलण भेदे, हाणि अडते दुविह दोसा // 318 / / (भाणऽप्पमाण त्ति) अकारप्रश्लेषादप्रमाणस्याऽतिबृहत्तरप्रमा-णस्य भाजनस्य ग्रहणे इमे दोषाः, तदतिबृहत्तर भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि भुङ्क्ते ततो ज्वराऽऽदिक ग्लानत्वं भवेत्, अथ न भुङ्क्ते तत उद्घामिका भवति। अतिबृहत्तरं च पात्रं यदा गृहिणाऽपि न पूर्यते तदा एषणाप्रेरणम् / पीडनं, कृत्वाऽपि विभृयात्, भरितं वाऽतिभारेण प्रतिस्खल्य भेदमुपगच्छेत, ततो भाजनेन विरहिते आत्मनः कार्यपरिहाणिः, तन्निष्पन्नं प्रायश्चित्तम् / गुरुत्वेन वाऽऽत्मसंयमविराधनालक्षणा द्विविधा दोषा भवन्ति / तथाऽत्र आत्मविराधना ईयाँ पर्यटतोऽतिभारेण कटीस्कन्धाऽऽदिकं परिताप्यते, संयमविराधनायामीर्यामशोधयन षट्कायान् विराधयेत्। गतमतिरिक्तद्वारम्। (4) अथ हीनद्वारमाहहीणप्पमाणधरणे, चउरो मासा हवंति उग्घाया। आणाऽऽदिणो य दोसा, विराहणा संजमाऽऽताए / / 316 / / यत्प्रतिग्रहस्य, मात्रकस्य वा प्रमाणं वक्ष्यते, ततो हीनं यदि धारयति तदा चत्वारोमासा उद्घातिमा भवन्ति। एतच्च प्रतिग्रहे मन्तव्यम्, मात्रके तु मासलघु / आह च निशीथचूर्णिकृत्- 'पडिग्गहणे चउलहु मत्तगे मासलहुँ।' आज्ञाऽऽदयश्च दोषाः, विराधना च संयमाऽऽत्मविषया। इदमेव भावयतिऊणेण न पूरिस्सं, आकंठा तेण गिण्हते उभयं / मा लेवकडं ति पुणो, तत्थुवओगो न भूमीए // 320 // ऊनेन प्रमाणहीनेन, नोनेनाऽभरितेनाऽहमात्मानं पूरयिष्ये, तत आकण्ठात्तत्र भाजने उभयमपि कूण, कुसणं च गृह्णाति, ततोमा पात्रबन्धो लेपकृतो भवेत, तत्रैव पात्रकबन्धखरण्टने उपयोगो भवति, न पुनभूमौ। अनुपयुक्तस्य चेमे दोषाःखाणूकंटगविसमे, अभिहणमादी ण पेहए दोसा। इरियाएँ गलियतेणग-भायणभेए य छक्काया // 321 / / ईर्यायाभनुपयुक्तः स्थाणुना कण्टकेन वा विध्यते, विषम वा भूभागे निपतेत, गवादिकृताभिघाताऽऽदींश्च दोषन्न प्रेक्षते, इयमात्मविराधना। संयमविराधना त्वेवम्-अनुपयुक्त ईयाँ न शोधयेत्, भाजनाच भक्तं पानकं वा परिगलेत, तच प्रगलितं विलोक्य स्तेना : प्ररिपूर्ण भृतमिदं भाजनमस्तीति परिभाव्य प्रहरेयुः। अथ कुत्रापि प्रखलितस्ततो भाजनभेदः, षट्कायविराधना वा भवेत्।। गुरुपाहुणखमदुब्बले, बाले वुड्ढे गिलाणें सेहे य। लाभालाभऽद्धाणे, अणुकंपा लाभवोच्छेदो॥३२२।। प्रमाणहीन भाजनं धारयता गुरुप्राघूर्णकक्षपकदुर्बलाः, बालः, वृद्धः, ग्लानः, शैक्षश्च परित्यक्ता मन्तव्याः। तथा क्षेत्रप्रत्युपेक्षणार्थ प्रेषितस्तेनाऽल्पीयसा भाजनेन कथं लाभाऽलाभपरीक्षा करोतु / अध्वनि प्रपन्नाना संखडिर्भवेत, तत्र पर्याप्त लभ्यमाने लघौ भाजने किं नाम गृह्णातु, विधिनाऽध्वनि वा कश्चिदानश्रद्धालुरनुकम्पया प्रायच्छदुपस्थाप्यते तत्तद्भाजन भरति / तत्र गच्छसाधारणं भाजनमुपस्थापयितव्यम्। हीनभाजने पुनरूपस्थाप्यमाने तस्य लाभस्य व्यवच्छेदो भवति, निर्जरायाश्च लाभो न भवतीति संग्रहणथासमासार्थः / / 322 / / अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाहगुरुगा य गुरुगिलाणे, पाहुणखमए य चउलहु हों ति। सेहस्स होइ गुरुओ, दुब्बलजुगले य मासलहू // 323 / / गुरूणा, ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः,प्राघूर्णकस्य, क्षपकस्य चोपष्टम्भाऽकरणे चतुर्लघवो भवन्ति, शैक्षस्याऽदाने मासगुरुकः, दुर्बलयुगलस्य च बालवृद्धलक्षणस्याऽदाने मासलधुः।।३२३॥ अप्पपरपरिचाओ,गुरुभाईणं अदितदितस्स। अपरिच्छिए य दोसा, वोच्छेओ निजरालाभे / / 324 // लघुतरभाजनं गृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः, अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादिना परेषां परित्यागः कृतो भवति / तथा प्रमाणहीनं भाजनं गृहीत्वा क्षेत्रप्रत्युपेक्षणार्थं गतः कथं लाभाऽलाभ परीक्षेत? ततोऽपरीक्षित क्षेत्रे ये दोषास्ते मन्दपरीक्षितेमन्तव्याः अध्वनि प्रपन्नानां च संखडिर्भवेत्। दानश्राद्धो वा कश्चिदनुकम्पया प्रभूतं भक्तपानं दद्यात्। यद्वा-स्वस्थानेऽपि धृताऽऽदिसाधारणद्रव्यं लभेत, तत्र लघुतरभाजने भक्तपानलाभस्य,निर्जरायाश्च व्यवच्छेदो भवति / / 324 / / अथ क्षुलकभाजनस्यैव दोषान्तराभिधानायाऽऽहलेवकडे वोसट्टे, सुक्खे लग्गे य कोडिते सिहरे / एए हवंति दोसा, डहरे भाणे य उड्डाहे // 325|| तक ।ऽऽदिना तदवमप्रमाणं भाजनमाकण्ठमापूरितं , ततः (वोस? त्ति) प्रलठिते तक्रे चैतद्भाजनं ले पकृतं क्रियते अथ