________________ पत्त 363 - अभिधानराजेन्द्रः - भाग 5 पत्त रित्तए वा, परिहरित्तए वा / तं जहा-लाउयपाए वा, दारुपाएवा, मट्टियापाए वा / स्था० 3 ठा०३ उ०। अत्र पुनर्भावपात्रोपयोगिना द्रव्यपात्रेणाऽधिकारः, तदपि त्रिविधम्लाउय दारुअमहिय, तिविहं उक्कोस-मज्झिम-जहन्नं / एक्के कं पुण तिविहं, अहागडऽप्पं सपरिकम्मं / / 657 / / अलावुमयम्, दारुमयम, मृत्तिकामयं च। पुनरेकैकं त्रिविधम्-उत्कृष्टम्, मध्यमम्, जघन्यं वा / उत्कृष्ट प्रतिग्रहः, मध्यम मात्रकम्, जघन्यं टोप्परिकाऽऽदि। एकैकं पुनस्त्रिधायथाकृतम्-अल्पपरिकर्म, सपरिकर्म च। बृ०१3०१ प्रक०। (2) पात्रस्य गणना-प्रमाणाऽऽदीनि द्वाराणि, पात्रैषणाएगं पायं जिणक-प्पियाण थेराण मत्तओ बीओ। एयं गणणपमाणं, पमाणपमाणं अओ वोच्छं // 1000 / / एकमेव पात्रकं जिनकल्पिकानां भवति, स्थविरकल्पि कानां तु मात्रको द्वितीयो भवति। इदं तावदेकह्यादिकं गणनाप्रमाणम्, इत ऊर्ध्वं प्रमाणप्रमाणं वक्ष्ये। तत्र पात्रकस्य प्रमाणप्रमाणं प्रतिपादयन्नाहतिन्नि वितत्थी चउरं-गुलं तु भाणस्स मज्झिमपमाणं। इत्तो हीण जहन्नं, अइरेगयरं तु उक्कोसं // 1001 / / समवउरंसं वट्ट दोरएण मविज्जइ-तिरिच्छयं उड्डमहो य / सो दोरओ तिन्नि वितत्थी चत्तारि अंगुलाणि जइ होइ तओ एणं भाणस्स मज्झिम पमाण। इतः अस्मात्प्रमाणात यद्धीनंतदजघन्यं प्रमाण भवति, अथातिरिक्त प्रमाणं मध्यमप्रमाणाद्भवति तदुत्कृष्टम्, उत्कृष्टप्रमाणमित्यर्थः / तथा-इदमपरं प्रकारान्तरेण पात्रकस्य प्रमाणं भवतिइणमन्नं तु पमाणं, नियगाहाराउ होइ निप्फन्नं / कालप्पमाणसिद्धं, उदरपमाणेण य वयंति॥१००२॥ इदमन्यत्प्रमाणं निजेनाऽऽहारेण निष्पन्नं वेदितव्यम् / एतदुक्तं भवतिकाञ्जिकाऽऽदिद्रव्योपेतस्य चतुर्भिरङ्गुलैयूँनं पात्रकम्, तत्साधोक्षयतः यत्परिनिष्ठितं तत् तादृग्विधं मध्यभप्रमाणं पात्रम्, तथैवविध कालप्रमाणेन ग्रीष्मकालप्रमाणसिद्धं पात्रक भणन्ति, उदरप्रमाणेन च सिद्धम्। तदित्थं कालप्रमाणसिद्ध पात्रकम्, उदरप्रमाणसिद्धं च वदन्ति प्रतिपादयन्ति। कालप्रमाणसिद्धं पात्रकम्, उदरप्रमाणसिद्धं च पात्रकं प्रतिपादयन्नाहउकोसतिसामासे, दुगाउमद्धाणमागओ साहू। चउरंगुलूणभरियं, जं पञ्जत्तं तु साहुस्स / / 1003 / / उत्कृष्टा तृट् पिपासा यस्मिन् काले स उत्कृष्टतृण्मासः कालः, तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूतमात्रादागतः साधुश्चतुर्भिरङ्गुलैयूँन भृतं यत् सत पर्याप्त साधोर्भवति तदित्थं कालप्रमाणोदरप्रमाणसिद्धं पात्रक मध्यम भवति। एयं चेव पमाणं, सविसेसअरं अणुग्गहपवत्तं / कंतारे दुभिक्खे, रोहगमाईसु भइयव्वं / / 1004 / / एतदेव पूर्वोक्तं प्रमाणं यदा सविशेषतरम् अतिरिक्ततरं भवति, तदा तदनुग्रहार्थ प्रवृत्तं भवति-बृहत्तरेण पात्रेण अन्येभ्यो दानेनानुग्रह आत्मना क्रियते / तच्च कान्तारे महतीमटवीमुत्तीर्य अन्येभ्योऽप्यर्थमनुग्रहाय भवति, येन बहूनां भवति / तथा दुर्भिक्षे अलभ्यमानायां भिक्षायां बहु अटित्वा बालाऽऽदिभ्यो ददाति। तच्चातिमात्रे भाजने सति भवति दानम्। तथा रोधके कोट्टोपरोधे जाते सति कश्चिद्धोजनं श्रद्धया दद्यात् तत्र तत् नीयते, येन बहूनां भवति। एतेषु भजनीयं सेवनीयं तदतिमात्रं पात्रकम्। इदानीमेतदेव भाष्यकारो व्याख्यानयन्नाहवेयावच्चकरो वा, नंदीभाणं धरे उवगगहियं / सो खलु तस्स विसेसो, पमाणजुत्तं तु सेसाणं / / 1005 / / ओघ / (अत्र नन्दिभाजनसत्का सर्वा वक्तव्यता 'णंदिभायण' शब्दे चतुर्थभागे 1757 पृष्ठ गता) (3) अथपात्रविषयं तमेवाऽभिधित्सुराहदव्वपमाणं अतिरे-गें हीणे दोसा तहेव अववाए। लक्खणमलक्खणं वा, तिविहं वुच्छेय आणाऽऽदी॥३१३|| को पोरुसी य कालो, आगर चाउल जहण्णजयणाए। चोदग असती असिव-प्पमाणउवओगछेयण मुहे या।।३१४।। द्रव्यमिह पात्रं, तस्य यद्वक्ष्यमाणं प्रमाणम् 1 / अतिरिक्ते,हीने च पात्रे दोषा वक्तव्याः। तथैवाऽपवादे कारणे हीनाऽतिरिक्तधारणलक्षणे 2 / पात्रस्य किं लक्षणम्, किं वा अलक्षणम् 3 / त्रिविध उत्कृष्टाऽऽदिभेदाद्, तथा कृताऽऽदिभेदाद्वा त्रिप्रकार उपधिर्यथा गृह्यते / यथोक्तक्रमाच विषय॑स्तेन ग्रहणे प्रायश्चित्तम्, आज्ञाऽऽदयश्च दोषाः 5 // 313 / / तथा(को त्ति) कः पात्रं गृह्णाति 6 (पोरिसि त्ति) बहुबन्धनबद्ध पात्रं धारयता सूत्राऽर्थपौरुष्यौ द्वे अपि हापयित्वा अपरं पात्रं गवेषणीयम् / (कालो त्ति) तस्य च गवेषणा नुकूलक्रियाकाल इति 8 / आकरः कुत्रिकापणाऽऽदि, यत्र पात्रं गवेष्यमाणं लभ्यते / / (चाउल त्ति) तन्दुलधावनेन, उपलक्षणत्वादुल्लोटकाऽऽदिना भावितं किं कल्पते, न वा इति 10 / (जहन्नजयण त्ति) जघन्यं पञ्चकप्रायश्चित्तम्, जघन्यानि वा सर्षपाऽऽदीनि, तद्युक्तमपि पात्रं यतनया ग्रहीतव्यम् 11 / चोदकः प्रेरयतिकथं बीजभृतमपि पात्रमनुज्ञायते ? 12 / सूरिराह-यदेतद्गीजयुक्तपात्रग्रहणमनुज्ञातंतदसत्तायां पात्रकस्याऽभावे, यत्र वा भाजनानिलभ्यते तत्राऽपान्तराले वा अशिवम् 13 / (प्रमाणउवओगछेयण ति) यदि प्रमाणयुक्तपात्रं न लभ्यतेतत उपयोगपूर्वकं पात्रस्य छेदन विधाय प्रमाणं विधेयम् 14 / (मुहे य त्ति) अल्पसपरिकर्मकयोर्मुखकरणं भवति, न यथाकृते 15 / एवमेतानि द्वाराणि प्ररूपणीयानि / इति द्वार गाथाद्वयसंक्षेपार्थः। साम्प्रतमेतदेव विवरीषुराहपमाणऽतिरेगधरणे, चउरो मासा हवंति उग्घाया। आणाऽऽइणो य दोसा, विराहणा संजमाऽऽयाए।।३१५।। प्रमाणाऽतिरिक्तपात्रस्य धारणे चत्वारो मासा उद्घातिका भवन्ति, आज्ञाऽऽदयश्च दाषाः विराधना च संयमाऽऽत्मविषया।