________________ पण्णवणा 387 - अभिधानराजेन्द्रः - भाग 5 पण्णवणा वतुप्रत्ययः / अतिशायी च भगो वर्द्धमानस्वामिनः शेषप्राणिगणापेक्षया लोक्याधिपतित्वात्। तेन भगवता परमार्हन्त्यमाहेमोपेतेनेत्यर्थः / पुनः कथंभूतेन ? इत्याह भव्यजननिर्वृतिकरण भव्यस्तथाविधाऽनादिपारिणामिकभावात सिद्धिगमनयोग्यः, सचाऽसौ जनश्च भव्यजनः, निर्वृतिर्नेणिं सकलकर्ममलापगमनेन स्वस्वरूपलाभतः परमस्वास्थ्यम्, तद्धेतुः सम्यग्दर्शनाद्यपि 'कारणे कार्योपचारात' निर्वृतिस्तत्करणशीलो निर्वृतिकरः, भव्यजनस्य निर्वृतिकरो भव्यजननिर्वृतिकरस्तेन। आह-भव्यग्रहणमभव्यव्यवच्छेदार्थम अन्यथा तस्य नैरर्थक्यप्रसङ्गात्। तत इदमापतितं भव्यानामेव सम्यग्दर्शनादिक करोति, नाऽभव्यानाम् / न चैतदुपपन्नं भगवतो वीतरागत्वेन पक्षपातासम्भवात् / नैतत्सारं सम्यग्वस्तुतत्त्वाऽपरिज्ञानात् / भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथा-स्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति / तथा चाह वादिमुख्यः- "सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवाऽपि खिलान्यभूवन् / तन्नाद्भूतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः" ||1 // ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरणेत्युक्तम्। किम् ? इत्याह- ('उवदंसिय' त्ति) उप सामीप्येन यथा श्रोतृणां झटिति यथावस्थितवस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः। दर्शिता श्रवणगोचरं नीता उपदिष्टा इत्यर्थः / काऽसौ ? प्रज्ञापना, प्रज्ञाप्यन्ते प्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टा? इत्यत आह-श्रुतरत्ननिधानम्, इह रत्नानि द्विविधानि भवन्ति, तद्यथाद्रव्यरत्नानि, भावरत्नानि। तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्नानि श्रुतव्रतादीनि। तत्र द्रव्यरत्नानि नतात्त्विकानीति भावरत्नरिहाऽधिकारः, तत एवं समासः श्रुतान्येव रत्नानि श्रुतरत्नानि, न तु श्रुतानि च रत्नानि च, नाऽपि श्रुतानि रत्नानीवेति, कुतः? इति चेत् उच्यते प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरत्नरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात् शेषरत्नैरुपमाया अयोगात्। निधानमिव निधानं श्रुतरत्नानां निधानं श्रुतरत्ननिधानम्। केषां प्रज्ञापना ? इत्यत आह-सर्वभावानाम्, सर्वे च ते भावाश्च सर्वभावा जीवा ऽजीवाऽऽश्रवबन्ध-संवर-निर्जरा-मोक्षाः। तथाहि-अस्यां प्रज्ञापनायां षट्त्रिंशत्पदानि; तत्र प्रज्ञापना-बहुवक्तव्य-विशेष-चरम-परिणाम-संज्ञेषु पञ्चसु पदेषु जीवा-ऽजीवानां प्रज्ञापना / प्रयोग-पदे क्रियापदे चाऽऽश्रवस्य "काय वाङ्मनःकर्मयोग आश्रवः" इतिवचनात्।कर्मप्रकृतिपदे बन्धस्य प्ररूपणा / समुद्घातपदे केवलिसमुद्धातप्ररूपणायां संवर-निर्जरामोक्षाणां त्रयाणाम् / शेषेषु तु स्थानादिषु पदेषु क्वचित् कस्यचिदिति। अथवा-सर्व-भावानामिति द्रव्य-क्षेत्र-काल-भावानाम्। एतद्व्यतिरेके- / णाऽन्यस्य प्रज्ञापनीयस्याऽभावात् / तत्र प्रज्ञापनापदे जीवा ऽजीवद्रव्याणां प्रज्ञापना / स्थानपदे जीवाऽऽधारस्य क्षेत्रस्या स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य / शेषपदेषु संख्या-ज्ञानादिपर्यायव्युत्क्रान्त्यु-च्छासादीनां भावानामिति / अस्याश्च गाथायाः "अज्झयणमिदं चित्तं " इत्यनया सहाभिसम्बन्धः / केवल येनेयं सत्त्वानुग्रहाय श्रुतसागरादुद्भुता असावप्यासन्नतरोपकारित्वादस्मद्विधाना नमस्कारार्ह इतितन्नमस्कारविषयमिदमपान्तराल एवान्यकर्तृकं गाथाद्वयम्-(वायगवरवंसाओ इत्यादि) वाचकाः पूर्वविदः वाचकाच ते वराश्व वाचकवराः वाचकप्रधानाः, तेषां वंशः प्रवाहो वाचकवरवंशस्तरिमन, सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात्। प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्तन्ते। तथा चाह-पाणिनिः स्वप्राकृतव्याकरणे- "ध्यत्ययोऽप्यासाम्" इति / त्रयोविंशतितमेन तथा च सुधर्मस्वामिन आरभ्य भगवानार्यश्यामस्त्रयोविंशतितम एव, किम्भूतेन ? धीरपुरुषेण, धीर्बुद्धिस्तया राजत इति धीरः, धीरश्चासौ पुरुषश्च धीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महावतानि धारयतीति दुर्द्धरधरस्तेन, तथा मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तेन, विशिष्टसंवितसमन्वितेनेत्यर्थः / पुनः कथंभूतेन ? इत्याह-पूर्वश्रुतसमृद्ध-बुद्धिनापूर्वाणि चतत् श्रुतंच पूर्वश्रुतम, तेन समृद्धा वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन आह-यो वाचकवरवंशान्तर्गतः स पूर्वश्रुतसमृद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन? सत्यमेतत् / किन्तु पूर्वविदोऽपि षट्स्थानकपतिता भवन्ति, तथा च चतुर्दशपूर्वमिदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति। तत आधिक्य - प्रदर्शनार्थमिदं विशेषणमित्यदोषः समिद्धबुद्धीण इत्यत्र ‘णा' शब्दस्य हस्वत्वम्, 'शि' शब्दस्य च दीर्घता आर्षत्वात्। तथा श्रुतमनर्वाक्पारत्वात् सुभाषितरत्नयुक्तत्वाच्च सागर इव श्रुतसागरः 'व्याघ्रादिभिगर्गाणिस्तद्गुणानुक्तौ' इति समासः। तस्मात् 'विणेऊण' ति। देशीवचनमेतत्। साम्प्रतकालीनपुरुषयोग्यं वीनयित्वा इत्यर्थः / येनेदं प्रज्ञापनारूपं श्रुतरत्नमुत्तमं प्रधानम्, प्राधान्यं च न शेषश्रुतरत्नापेक्षया किंतु स्वरूपतः / दत्त शिष्यगणाय तस्मै भगवते ज्ञानेश्वर्यधर्मादिमते, आरात् सर्वहयधर्मेम्यो यातः प्राप्तो गुणैरित्यार्यः, सचासौ श्यामश्च आर्यश्यामस्तरमै, सूत्रे च षष्ठी चतुर्थ्यर्थे द्रष्टव्या- 'छडिवि भत्तीए भन्नइ चउत्थी'' इति वचनात् / अधुनोक्तसंबन्धैवेय गाथा / (अज्झयणं इत्यादि) अध्ययनमिद प्रज्ञापनाख्यम्, ननु यदीयमध्ययनं कि-मित्यस्याऽऽदावनुयोगादिद्वारोपन्यासोन क्रियते? उच्यते-नाय नियमो यदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियत इति / अनियमोऽपि कुतोऽवसीयते ? इति चेत् उच्यते-नन्द्यध्ययना-दिष्वदर्शनात् / तथा चित्रार्थधिकारयुक्तत्वाच्चित्रम्, श्रुतमेव रत्नं श्रुतरत्नम्, दृष्टिवादस्य द्वादशस्याङ्गस्य निःष्यन्द इव दृष्टिवादनिःष्यन्दः, सूत्रे नपुंसकतानिर्देशः प्राकृतत्वात्। यथा वर्णित भगवता श्रीमन्महावीरवर्द्धमानस्वामिना इन्द्रभूतिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात्: अध्ययनं वर्णितमित्युक्तम्, अहमपि तथा वर्ण-यिष्यामि। आह कथमस्य छद्मस्थस्य तथा वर्णयितुं शक्तिः? नैष दोषः; सामान्येनाभिधेयपदार्थवर्णनमात्रमधिकृत्यैवमभिधानात् / तथा च अहमपि तथा वर्णयिष्यामीति / किमुक्तं भवति-तदनुसारेण वर्णयिष्यामि, न स्वमनीषिकयेति। षट्त्रिंशत् पदानिपण्णवणा 1 ठाणाई 2, बहुवत्तव्वं 3 ठिई 4 विसेसा य 5 /