________________ पण्णवणा 386 - अमिधानराजेन्द्रः - भाग 5 पण्णवणा (तिविहा इत्यादि) परं प्रज्ञापनाभेदाद्यभिधानम् / तत्र ज्ञानप्रज्ञापना आभिनिबोधिकादिपञ्चधा ज्ञानम्। एवं दर्शनं क्षायिकादि त्रिधा इत्यादि। स्था० 3 ठा०४ उ०। सूत्र० / 'पन्नत्ति वा, पन्नवण त्ति वा,विण्णत्ति वा, परूवण ति वा एगट्ठा।" नि०चू०१ उ० / भ० / नि०। नंगा फलकथने, कल्प० 3 अधि०६ क्षण / निदर्शनायाम्, सम्म०१ काण्ड / प्रकर्षण निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते शिष्यबुद्धावा-ऽऽरोप्यन्ते जीवाऽजीवादयः पदार्था अनयेति प्रज्ञापना हिताऽहितप्रवृत्ति निवृत्त्युपदेशयथावस्थितजीवादिपदार्थज्ञापनात्प्रज्ञापना। प्रज्ञा०१पद। अनु०। "जयति नमदमरमुकुट-प्रतिबिम्वच्छभविहितबहुरूपः। उद्धर्तुमिव समस्तं, विश्वं भवपङ्कतो वीरः / / 1 / / जिनवचनामृतजलधि, वन्दे यद्विन्दुमात्रमादाय। अभवन्नून सत्त्वा, जन्मजराव्याधिपरिहीणा // 2 // प्रणमत गुरुपदपङ्कज-मधरीकृतकामधेनु कल्पलतम्। यदुपास्तिवशान्निरुपम-मश्नुवते ब्रह्म तनुभाजः // 3 // जडमतिरपि गुरुचरणो-पास्तिसमुद्भूतविपुलमतिविभवः। समयानुसारतोऽहं, विदधे प्रज्ञापनाविवृतिम् // 4 // अथ प्रज्ञापनेतिक शब्दार्थः? उच्यते-प्रकर्षण निःशेषकुतीर्थितीर्थकराऽसाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते शिष्यबुद्धावाऽऽरोप्यन्ते जीवाऽजीवादयः पदार्था अथयेति प्रज्ञापना / इयं च समवायाख्यस्य चतुर्थाङ्गस्योपाड्न तदुक्तार्थप्रतिपादनार्थम् / उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाऽभिधानस्य मन्दमतिविनेयजनानुग्रहार्थतया सार्थकत्वात् / इयं चोपाङ्गमपि प्रायः सकलजीवाऽजीवादिपदार्थशासनात् शास्त्रम्, शास्त्रस्य चादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयम्, मङ्गलं च वक्तव्यम् / उक्तं च"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् / मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये // 1 // " इति। प्रज्ञा०। ववगयजरमरणभए, सिद्धे अभिवंदिऊण तिविहेणं / वंदामि जिणवरिंद, तेलोक्कगुरुं महावीरं / / 1 / / सुयरयणनिहाणं जिण-वरेणं भवियजणणिव्वुइकरेणं। उवदंसिया भगवया, पन्नवणा सव्वभावाणं // 2 // वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेणं / दुद्धरधरेण मुणिणा, पुव्वसयसमिद्धबुद्धीण ||3|| सुयसागरा विणेऊ-ण जेण सुयरयणमुत्तमं दिण्णं / सीसगणस्स भगवओ, तस्स णमो अज्जसामस्स // 4 // अज्झयणमिणं चित्तं, सुयरयणं दिट्ठिवायणीसंदं। जह वणियं भगवया, अहमवि तह वण्णइस्सामि।।५।। सिद्धाश्च नामादिभेदतोऽनेकधा, ततो यथोक्तसिद्ध प्रतिपत्त्यर्थ विशेषणमाह व्यपगतजरामरणभयान / जरा वयोहानिलक्षणा, मरणं प्राणत्यागरूपम्, भयमिहलोकादिभेदात्सप्तप्रकारम्, उक्तं च- "इहपरलोगा-ऽऽदाण-मकम्हा आजीव-मरण मसिलोए" इति। विशेषतोऽपुनर्भावरूपतया अपगतानि भ्रष्टानि जराभरण-भयानि येभ्यस्ते तथा तान, त्रिविधेन मनसा, वाचा, कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह। अभिवन्द्य अभिमुखंवन्दित्वा प्रणम्येत्यर्थः / अनेन समानकर्तृकतया पूर्वकाले च क्त्वाप्रत्ययविधानाद् नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे क्त्वाप्रत्ययस्याऽसम्भवात्। तथाहि अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथ भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ? आकालमेकस्वभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्। अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्याऽपि भिन्नकालक्रियाद्वयकर्तृत्वाऽयोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात्। क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह (वंदामि जिणवरिदि इत्यादि) 'शूर' 'वीर विक्रान्तौ / वीरयति स्म कषायादिशत्रून प्रति विक्रामति स्मेति वीरः / महाश्वासौ वीरश्च महावीरः। इदं च महावीर इति नाम न यादृच्छिकम्, किंतु यथावस्थितमनन्यसाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तंच-"अयले भयभेरवाणं, खतिखमे परीसहोवसग्माणं देवेहि कए महावीरे" इति। अनेनाऽपायापगमातिशयो ध्वन्यते / तं कथं-भूतम् ? इत्याह जिनवरेन्द्रम्-जयन्ति रागादिश नभिभवन्ति जिनास्तेच चतुर्विधास्तद्यथा-श्रुताजिनाः, अवधिजिनाः, मनः पर्यायजिनाः, केवलजिनाः। तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम् / जिनाना वरा उत्तमा भूत भवद्-भाविभाषस्वभावावभासि-के वलज्ञानकलितत्वाद् जिनवराः। ते चाऽतीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति, ततस्तीर्थङ्करत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम् / जिनवराणामिन्द्रो जिनवरेन्द्रः प्रकृष्टपुण्यस्कन्धरूपतीर्थकर नाम कर्मोदया तीर्थकर इत्यर्थः / अनेन ज्ञानातिशयम, पूजातिशयं चाह / ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तमत्वस्य, पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्याऽयोगात्।तं पुनः किम्भूतम्? इत्याह-त्रैलोक्यगुरुमगृणाति यथावस्थितं प्रवचनार्थमिति गुरुः, त्रैलोक्यस्य गुरुस्त्रैलोक्यगुयः, तथा च भगवान् अधोलोकनिवासिभवनपतिदेवेभ्यः, तिर्यग्लोकनिवासिव्यन्तनरपशु-विद्याधर-ज्योतिष्केभ्यः, ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्म दिदेश, तम्, अनेन वागतिशयमाह / एते चाऽपायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम् तानन्तरेणैतेषामसम्भवात्। ततश्चतुस्त्रिंशदतिशयोये भगवन्तं महावीरं वन्दे इत्युक्तं दृष्टव्यम्। आह-ननु ऋषभादीन व्युदस्य किमर्थं भगवतो महावीरस्य वन्दनम् ? उच्यते वर्तमानतीर्थाधिपतित्वेनाऽऽसन्नोपकारित्वात्। तदेव आसन्नोपकारित्वं दर्शयति पसुयरयणं इत्यादिब अत्र प्रज्ञापनेति विशेष्यम्। शेषं सामानाधिकरण्येन, वैयधिकरण्येन च विशेषणम्। पजिणवरेणं तिब जिनाः सामान्यकेवलिनरतेषामपि वर उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्याद् महावीरेण अन्यस्य वर्तमानतीर्थाधिपतित्वाभावात् / इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते, ततस्तत्कल्पमा ज्ञासीद्विनेयजन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-भगवताभगः समगैश्वर्यादिरूपः। उक्तंच- 'ऐश्वर्यस्यसमग्रस्य, रूपस्ययशसः श्रियः। धर्मस्याऽर्थप्रयत्नस्य, षण्णा भग इतीङ्गना' ||1|| भगोऽस्याऽस्तीति भगवान्, अतिशयने