________________ पणिहि 383 - अभिधानराजेन्द्रः - भाग 5 पणोल्लय सुप्रणिहितयोगी पुनः सुप्रणिहितः प्रव्रजितो न लिप्यते पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्। निर्दहति च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन / दृष्टान्तमाह-शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः। तम्हाओ अपसत्थं, पणिहाणं उज्झिऊण समणेणं। पणिहाणम्मि पसत्थे, भणिओ आयारपणिहि त्ति / 74|| यस्मादेवमप्रशस्तप्रणिधिर्दुःखदः, इतरस्तु सुखदः। तस्माद-प्रशस्तं प्रणिधानमप्रशस्तं प्रणिधिमुज्झित्वा परित्यज्य, श्रमणेन साधुना, प्रणिधाने प्रणिधौ, प्रशस्ते कल्याणे यत्नः कार्य इति वाक्यशेषः / निगमयन्नाह भणित आचारप्रणिधिरिति गाथार्थः / दश० 8 अ०। (आचारप्रणिधिः 'आयारपणिहि' शब्दे द्वितीयभागे 358 पृष्ठ उक्तः) व्यवस्थापने, उत्त०२३ अ०। मायायाम, सा च द्विधा-द्रव्यप्रणिधिः, भावप्रणिधिश्च / तत्र द्रव्यप्रणिधौ उदाहरणम्भरुअच्छे जिणदेवो, भयंतमित्ते कुणालभिक्खू अ। पइट्ठाण सालवाहण, गुग्गुल भगवं च नहवाणे // 203|| भरुकच्छपुरेऽत्राऽऽसीद, भूपतिर्नरवाहनः। स समृद्ध्याऽऽत्मकोशस्य, श्रीदमप्यवमन्यते / / 1 / / इतः प्रतिष्ठानपुरे पार्थिवः शालवाहनः। बलेनाऽपि समृद्धः स, रुरोध नरवाहनम्॥सा आनयत्यरिशीर्षाणि यस्तस्याऽदान्महर्द्धिकः / लक्ष विपक्षं तत्तस्य, नित्यं निघ्नन्ति तद्भटाः।।३।। हा! तस्याऽपि भटाः केप्याऽऽ-निन्युः सोऽदान्न किंचन। सोऽथ क्षीणजनो नष्ट्वा पुनरेति समांतरे / / 4 / / पुनर्नष्ट्वा तथैवैति, नाभूत्तद्ग्रहणक्षमः / अथैको मायया हालं, सचिवो निरवास्यत॥५॥ स परंपरयाऽज्ञासीद्रुकच्छनराधिपः। अपास्तोऽल्पापराधोऽपि, निजामात्यस्ततः कृतः / / 6 / / ज्ञात्वा विश्वस्तं सोऽवक् तं, राज्यं पुण्येन लभ्यते। तदन्यस्य भवस्यार्थे, पाथेयं कुरु पार्थिव ! ||7|| धर्मस्थानविधानाद्यैर्द्रव्यमव्याययत्ततः। आगामन्त्रिगिरा हालः-पार्थिवोऽथाऽऽह मन्त्रिणम् / / 8 / / मिलितोऽसि किमस्य त्वं, सोऽवदन्न मिलाम्यहम्। अथान्तःपुरभूषादि-द्रविणैस्तं तदाऽक्षिपत्।।६।। हालेऽथ पुनरायाते, निद्रव्यत्वान्ननाश सः। नगरं जगृहे हालो, द्रव्यप्रणधिरेषिका / / 10 / / आचार्यो जिनदेवोऽभू-दत्रैव भृगुपत्तने। वादिनौ भ्रातरौ भिक्षु, भदन्तक कुणालकौ / / 11 / / वादितः पटहस्ताभ्यां, जिनदेवगुरुस्तदा। गतोऽभूद्वन्दितुं चैत्यं, श्रुत्वा तेन स वारितः॥१२॥ जातो राजकुले वाद-स्तौ द्वावपि विनिजितौ। दध्यतुस्तावमीषां न. सिद्धान्तावगमं विना // 13 // उत्तरं शक्यते दातुं, शाठ्याद्गोविन्दवत्ततः। व्रतं जगहतुः पश्चात्पठतां भावतोऽभवत् ||14|| आक०४ अ०। आ००। आव०। मायाशल्ये, तन्न कार्यमिति योगसंग्रहत्वमस्या स० 32 सम० दश०। पणिहिय त्रि० (प्रणिहित) संवृते, प्रश्न०५ सम्ब० द्वार / व्यवस्थिते, आव०४ अ०। पणीय त्रि० (प्रणीत) प्ररूपिते, अनु०। आख्याते, आव० 4 अ०। सूत्र०। प्रज्ञप्ते, आव० 3 अ०।अर्थकथनद्वारेण, प्ररूपिते, नं०। सम्यगाचीर्ण सूत्र० 1 श्रु० 11 अ०। शुभतया प्रकृष्ट, भ०५ श० 4 उ०) स्निग्धे, औ० / गलत्रनेहबिन्दुके भोक्तव्ये, प्रति० / आव० / भ० / दश० / स्था० / प्रणीतं नाम गूढस्नेहं घृतपूरादिकमाईखज्जकम्, यद्दा बहिः स्नेहेन मेक्षितमण्डकादि, अपरं वा स्नेहावगाढ कृशराऽऽदि प्रणीतमुच्यते। तथा चाह-'गूढसिणेहं उल्लं तु खज्जगं मक्खियं च जं बाहिं। नेहागाढं कुसरं तु एवमाई पणीयं तु" ||बृ०५ उ०। पणीयभत्त न० (प्रणीतभक्त) घृतदुग्धादिके, बृ०५ उ०। पणीयभोयण न० (प्रणीतभोजन) गलत्स्नेहभोजने, 'जं पुण गलंतनेह पणीयमितितं बुहा बेंति'' यत्पुनर्गलत्नेह भोजनं तत्प्रणीतं बुधास्तीर्थकृदादयो ब्रुवते। पिं०॥ पणीयमाहार पुं० (प्रणीताहार) गलत्स्नेहे आहार्यवस्तुनि, “आहार उद्भवो पुण, पणीयमाहारभोयणा होति। वाईकरणाहरणं कल्लाणपुरोहउज्जाणे'' उदाहरणमिदं 'हत्थकम्म' शब्दे वक्ष्यते। नि००१ उ०। पणीयरसपरिच्चाइ त्रि० (प्रणीतरसपरित्यागिन्) गलघृत-दुग्धादि बिन्दुभक्तपरित्यागाभिग्राहिणि, औ०। पणीयरसभोइ-त्रि० (प्रणीतरसभोगिन) गलत्स्नेहबिन्दुभोक्तरि, स्था० 6 ठा0। “एगे पणीअरसभोई सिया'' इति चतुर्थे ब्रह्मचर्ये, आचा०२ श्रु०३ चू०१ अ०। * प्रणीतरसभोजिन् त्रि० गलत्स्नेहबिन्दुभोक्तरि, स्था०६ ठा०) पणीयरसभोयण न० (प्रणीतरसभोजन) गलत्स्नेहरसाभ्यवहारे, "विभूसा इत्थीसंसग्गो, पणीअं रसभोअणं / नरस्सऽत्तगवेसिस्स, विसं तालउड़ जहा॥५७॥"द०८ अ०। पणुल्ल धा० (प्रक्षिप्) प्रकर्षण क्षेपणे, "क्षिपेर्गलत्थाऽडुक्ख-सोल्लपेल-जोल-छुह-हुल्ल-परी घत्ताः" ||8/4/143 / / इत्यनेन क्षिपेोल्लादेशः / पणुल्लइ / पणोल्लइ पणुल्ली। पणुल्लिस्सइ। पणुल्लंतो। पणुल्लिअं। प्रा०४ पाद। "कम्माइं पणुल्लयामो' प्रकर्षण स्फेटयामः। उत्त०१२अ०। पणेज्जय पुं० (प्रणीयक) चन्द्रं गृह्णतो राहोरेकादशकृत्स्ने, कृष्णपुद्गले चं० प्र०२० पाहु०॥ पणोल अव्य० (प्रक्षिप्य) 'प्रेर्य' इत्यर्थे , सूत्र०१ श्रु०८ अ०। प्रणुद्य अव्य० 'प्रेर्य' इत्यर्थे, सूत्र०१ श्रु०८ अ01 पणोल्लणगइस्त्री० (प्रक्षेपणगति) बाणादीनामिव परप्रेरणाद् गती, स्था० ८टा०1 * प्रणोदनगति स्त्री० बाणादीनामिव परप्रेरणाद् गतौ, स्था०८ ठान पणोल्लय त्रि० (प्रक्षेपक) प्रेरके, "परिसहाणं पणोल्लए'' आचा० 1 श्रु०५ अ०२ उ०।