SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ पणिहि 382 - अभिधानराजेन्द्रः - भाग 5 पणिहि आइयइ अणाउत्तो, सहगुणसमुट्ठिए दोसे // 62 / / श्रोतेन्द्रियरश्मिभिः श्रोत्रेन्द्रियरज्जुभिः मुक्ताभिरुच्छृङ्खलाभिः। किमित्याह शब्दमूर्छितः शब्दगृद्धो जीवः, आदत्ते गृह्णाति अनुपयुक्तः सन्, कान् ? इत्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणस्तत्समुत्थितान् दोषान् बन्ध-वधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः। शेषेन्द्रियातिदेशमाहजह एसो सद्देसुं, एसेव कमो उ सेसएहिं पि। चउहिं पि इंदिएहिं, रूवे, गंधे, रसे, फासे // 63 / / यथैष शब्देषु शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने दृष्टव्यस्तद्यथा"चविखदियरस्सीहि उ" इत्यादि / अत एवाऽऽह-रूपे, गन्धे, रसे, स्पर्श, रूपादिविषयः / इति गाथार्थः / अमुमेवार्थ दृष्टान्ताभिधानेनाऽऽहजस्स खलु दुप्पणिहिया-णिंदियाइं तवं चरंतस्स। सो हीरइ असहीणेहिं सारही वा तुरंगेहिं / / 64|| यस्य खल्विति-यस्याऽपि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि, तपश्चरत इतितपोऽपि कुर्वतः। सतथाभूतो व्हियते अपनीयते, इन्द्रियैरेव निर्वाणहेतोश्वरणात् / दृष्टान्तमाह-अस्वाधीनरस्ववशैः, सारथिरिव रथनेतेव, तुरङ्गमैरश्वैरिति गाथार्थः / उक्त इन्द्रियप्रणिधिः। नोइन्द्रियप्रणिधिमाहकोहं,माणं,मायं, लोभ, च महन्मयाणि चत्तारि। जो रुंभइ सुद्धप्पा, एसोनोइंदिअप्पणिही।।६।। क्रोधम्, मानम्, मायाम्, लोभं चेति; एषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत् / एत एव महाभयानि चत्वारि,सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् / एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना; एष निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वाद् नोइन्द्रियप्रणिधिः कुशलपरिणामत्वात् / इति गाथार्थः / एतदनिरोधे दोषमाहजस्स वि य दुप्पणिहिआ, होंति कसाया तवं चरंतस्सा सो बालतवस्सी विव, गयण्हाणपरिस्समं कुणइ।।६६।। यस्याऽपि कस्यचिद्व्यवहारतपस्विनः दुष्प्रणिहिता अनिरुद्धा भवन्ति कषायाः क्रोधादयस्तपश्चरतः तपः कुर्वत इत्यर्थः / स बालतपस्वीव उपवासपारणकप्रभूततरारम्भको जीवो गजनानपरिश्रमं करोति; चतुर्थषष्ठादिनिमित्ताऽभिधानतः प्रभूततरकर्मबन्धोपपत्तेः / इति गाथार्थः / अमुमेवार्थ स्पष्टतरमाहसामण्णमणुचरंत-स्स कसाया जस्स उक्कडा होति। मन्नामि उच्छुफुलं, व निप्फलं तस्स सामन्नं / / 67|| श्रामण्यमनुचरतः श्रमणभावमपि द्रव्यतः पालयतःइत्यर्थः कषाया यस्योत्कटा भवन्ति क्रोधाऽऽदयः, मन्ये इक्षुपुष्यमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यम्। इति गाथार्थः / उपसंहरन्नाह एसो दुविहो पणिही, सुद्धो जइ दोसु तस्स तेसिंच। एत्थो पसत्थमपसत्थ-लक्खणमज्झप्पनिप्फन्नं / / 6 / / एषोऽनन्तरोदितो द्विविधः प्रणिधिः इन्द्रिय-नोइन्द्रियलक्षणः शुद्धइति निर्दोषो भवति / यदि द्वयोर्बाह्याऽभ्यन्तरचेष्टयोः तस्येन्द्रियकषायवतस्तेषां चेन्द्रिय कषायाणां सम्यग योगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य प्रणिधिमतः इन्द्रियाणां कषायाणां च निग्रहो भवति, ततः शुद्धः प्रणिधिः, इतरथा त्वशुद्धः; एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टह गरीयसी इत्याह-अत एवमपि तत्त्वे प्रशस्त चारु, तथाऽप्रशस्तमचारुलक्षणं प्रणिधेरध्यात्मनिष्पन्नमध्यवसानोद्रतम् / इति गाथार्थः। एतदेवाऽऽहमाया-गारवसिहिओ, इंदिय-नोइंदिएहिं अपसत्थो। धम्मत्था अपसत्थो, इंदिअ-नोइंदिअप्पणिही॥६६।। माया-गौरवसहितः मातृस्थानयुक्तः, ऋद्ध्यादिगौरवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रह करोति; मातृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवनम् तथा ऋद्ध्यादिगौरवाद्वेत्यप्रशस्त इत्ययमप्रशस्तः प्रणिधिः / तथा धर्मार्थ प्रशस्त इति मायागौरवरहितो धर्मार्थमवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् प्रशस्तः सुन्दरः इन्द्रियनोइन्द्रियप्रणिधिनिर्जरा-फलत्वाद इति गाथार्थः। साम्प्रतमप्रशस्ते-तरप्रणिधेर्दोष-गुणावाहअट्ठविहं कम्मरयं, बंधइ अपसत्थपणिहिमाउत्तो। तं चेव खवेइ पुणो, पसत्थपणिहीसमाउत्तो // 70 / / अष्टविध ज्ञानावरणीयादिभेदात्कर्मरजो बध्नाति आदत्ते / कः? इत्याह-अप्रशस्तप्रणिधिसमायुक्तः अप्रशस्त-प्रणिधौ व्यवस्थित इत्यर्थः / तदेवाष्टविधं कर्मरजःक्षपयति पुनः। कदा? इत्याह-प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः। , संयमाद्यर्थं च प्रणिधिः प्रयोक्तव्य इत्याहदसण-नाण-चरित्ताणि संजमो तस्स साहणट्ठाए। पणिही पउंजिअव्वो, अणाययणाइंच वजाइं॥७१।। दर्शन-ज्ञान-चारित्राणि संयमःसम्पूर्णः / तस्य सम्पूर्णसंयमस्य साधनार्थ प्रणिधिः प्रशस्तः प्रयोक्तव्यः / तथा अनायतनानि च विरुद्धस्थानानि वर्जनीयानि। इति गाथार्थः / एवमकरणे दोषमाहदुप्पणिहिअजोगी, पुण लञ्छिज्जइ संजमं अयाणंतो। विट्ठद्धो निसटुंगो-व्व कंटइल्ले जह पडं तो / / 72 / / दुष्प्रणिहितयोगी पुनः सुप्रणिधिरहितः प्रव्रजित इत्यर्थः / लक्छ्यते खण्ड्यते संयममजानानः-संयत एवेति। दृष्टान्तमाह-विष्टब्धो निसृष्टाङ्गस्तथा अयत्नपरः कण्टकवति श्वभ्राद्रौ यथा पतन् कश्चिल्लञ्छ्यते तद्वदसौ संयमे। इति गाथार्थः।। व्यतिरेकमाहसुप्पणिहिअजोगी पुण, न लिप्पइ पुव्वभणिअदोसेहिं। निद्दहइ अ कम्माइं, सुक्कतणाई जहा अग्गी // 73 //
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy