________________ पउमलया 15 - अभिधानराजेन्द्रः - भाग 5 पउमरवेइया ताश्च पद्मलतास्तद्रूपाभिर्विच्छित्तिमिश्चित्रो यस्य स तथा / भ०१४ श० 6 उ०॥ पउमवडिंसय न० (पद्मावतंसक) पद्मावतीदेवीनिवासभूत सुधर्मायां सभायां स्वनामख्याते विभाने, ज्ञा०२ श्रु०५ वर्ग 1 अ०। पउमवरवेइया स्त्री० (पद्मवरवेदिका) देवभोगभूमौ, जं० 1 वक्षः। पावरवेदिकावर्णकःतीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ ण एगा महं पउभवरवेदिका पण्णत्ता सा णं पउमवरवेदिया अद्धजोयणाई उड्डे उचत्तेणं, पंच धणुसयाई विक्खंभेणं सव्वरयणामई जगतीसमिया परिक्खेवेणं। (तीसे णं जगतीए इत्यादि) तस्या यथोक्तस्वरूपाया जगत्या उपरि उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता मागध-भाषालक्षणानुरोधात् / तथा "कयरे आगच्छइ दित्तरूवे" इत्यत्र / (एत्थ णमिति) अत्र एतस्मिन् बहुमध्यदेशभागे, णमिति पूर्ववत् / महती एका पद्मवरवेदिका प्रज्ञप्ता, मया शेषैश्च तीर्थकृद्भिः। सा च ऊर्द्धमुच्चस्त्वेना योजन द्रे गव्यूते पञ्चधनुःशतानि विष्कम्भेण (जगती-समिया इति) जगत्या समा समाना जगतीसमा, सैव जगतीसमिका, परिक्षेपेण परिरयेज, थावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः। सर्वरत्नमयी सामस्त्येन रत्नाऽऽत्मिका।"अच्छा सण्हा" इत्यादि विशेषणकदम्बक पाठतोऽर्थतश्च प्राग्वत्। तीसे णं पउमवरवेदियाए अयमेतारूवे वण्णावासे पण्णत्ते / तं जहा-वयरामया नेमा, रिट्ठामया पतिट्ठाणा, वेरूलियामया खंभा, सुवण्णरुप्पमया फलगा, लोहितक्खमईओ सुईओ, वइरामया संधी, नाणामणिमया कलेवरा कलेवरसंघाडा, णाणामणिमया रूवा रूवसंधाडा, अंकामया पक्खा पक्खवाहओ, जोतीरसामया वंसा वंसक वेलुगाओ रययामयीओ पट्ठियाओ, जातरूवमयीओ ओहाडणीओ, वईरामयीओ उवरि पुंछणीओ, सव्वसेयरययामए छादणे। (तीसे णमित्यादि) तस्याः णमिति पूर्ववत् / पद्मवरवेदिकाया अयं वक्ष्यमाण एतद्रूपः स्वरूपा वर्णावासः वर्णः श्लायां यथाऽवस्थितस्वरूपकीर्तन, तस्याऽऽवासो निवासो ग्रन्थपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः / प्रज्ञप्तः प्ररूपितः / तदयथेत्यादिना तमेव दर्शयति(वइरामया नेमा इति) नेमा नाम पद्मवरवेदिकायां भूमिभागादूर्द्ध निष्क्रामन्तः प्रदेशाः, ते सर्व वज्रमया वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्व प्राकतत्वात् / एक्मन्यत्रापि द्रष्टव्यम् / रिष्टमयानि रिष्टरत्नभयानि प्रतिष्ठानानि मूलपादाः / (वेरुलियानया खंभा इति) वैडूर्यरत्नमयाः स्तम्भाः। सुवर्णरूप्यमयानि फलकानि। लोहिताऽऽख्यरत्नाऽऽत्मिकाः सूचयः फलकद्वयसंबन्धविघटनाभावहेतुपादुकास्थानीयाः (वइरामया संधी) वज्रमयाः सन्धयः संन्धिमेलाः फलकानाम् / किमुक्तं भवति?पद्धरत्नाऽऽपूरिताः फलकाना सन्धयः। (नाणामणिमया कलेवरा इति) नानामणिमयानि कलेवराणि मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटाः मनुष्यशरीरयुग्मानि, नानामणिमयाणि रूपाणि रूपकाणि, | नानामणिमयाः रूपसबाटाः रूपयुग्मानि। (अंकामया पक्खा पवखबाहतो य इति) अङ्को रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाकमयाः। आह च मूलटीकाकारः- अक्रमयाः पक्षास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टय्या इति। (जोईरसामया बसा बंसकवेल्लुया य इति) ज्योतीरसं नाम रत्न, तन्मया वंशा महान्तः पृष्ठवंशाः (वंशकवेल्लुया य इति) महतां पृष्ठवंशानामुभयतस्तिर्यक् स्माप्यमाना वंशाः, कवेल्लुकानि प्रतीतानि। (रययामईओ पट्टियाओ इति) रजतमय्यः पट्टिकाः वंशाना मुपरिकम्बास्थानीयाः (जावरूवमईओ ओहाङणीओ) जातरूपं सुवर्णविशेषः, तन्मय्यः (ओहाडणीओ) अवधाटिम्यः आच्छादनहेतुकं चोपरि स्थाप्यमानमहाप्रमाणकिलिम्बस्थानीयाः। (वईरामईओ उवरिपुछणीओ इति) वज्रमय्यो वज्ररत्नाऽऽत्मिका अवधाटनीनामुपरिपुञ्छन्यो निविडतरछादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः / उक्तं च मूलटीकाकारेण-"ओहाडणी हारग्रहण महत, क्षुल्लकं तु पुञ्छनी इति।" (सव्वसेयरययामए छादणे इति ) सर्वश्चत रजत रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम्। सा णं पउमवरवे दिया एगमेगेणं हेमजालेणं एगमे गेणं गवक्खजालेणं एगमेगेणं खिंखिणिजालेणं एवं घंटजालेणंजाव मणिजालेणं एगमेगेणं पउमवरजालेणं सव्वरय णामएणं सव्वतो समंता संपरिक्खित्ता तेणं जालतबणिज्जलंबूसगा सुवण्णपयरगमंडिया नाणामणिरयणविविधहारद्धहारउबसोहियसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदाय मंदायं एजिया वेपिया कंपिता खोभिया चालिया फंदिया घट्टिया उदीरिया, एतेसिं उरालेणं मणुन्नेणं कण्णमणनिव्वुतिकरणं सद्देणं सव्वतो समंता आपूरेमाणा आपूरेमाणा सिरीए अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिटुंति। (सा णमित्यादि) सा एवंस्वरूपा, णमिति वाक्यालङ्कारे। पद्मवरवेदिका, तत्रतत्र प्रदेशे एकैकेन, हेमजालेन सर्वाऽऽत्मना हेममयेन लम्बमानेन दामसमूहेन, एकैकेन गवाक्षजालेन गवाक्षा ऽऽकृतिरत्नविशेषदामसमूहेन, एकेकेन किङ्किणीजालेन किङ्किण्यः क्षुद्रघण्टिकाः, एकैकेन घण्टाजालेन किङ्किण्यपेक्षया किञ्चिन्महत्यो धण्टाः, तथैकैकेन मुक्ताजालेन मुक्ताफलमयेन दामसमूहेन, एकैकेन मणिजालेन मणिमयेन दामसमूहेन, एकैकेन कनकजालेन कनकं पीतरूपः सुवर्णविशेषः, तन्मयेत दामसमूहेन,एकैकेन रत्नजालेन एकैकेन पाजालेन सर्वत्र रत्नमयपदाऽऽत्मकेन दामसमूहेन, सर्वतः सर्वासु दिक्षु, समन्ततः सर्वासु विदिक्षु परिक्षिप्ता व्याप्ता / एतानि च दानसमूहरूपाणि हेमजालाऽऽदीनि जालानि लम्बमानानि वेदितव्यानि। तथा चाऽऽह(तेण जाला इत्यादि) तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गमनियतमिति। णमिति पूर्ववत्। हेमजालाऽऽदीनि, जालानि, क्वचित दामा इति पाठः / तत्र त हेमजालाऽऽदिरूपा दामान इति व्याख्येयम् / (तवणिज्ज लंबूसगा) तपनीयमारक्तं सुवर्ण तन्मयो लम्बूसगो दाम्नामग्निमभागे मण्डनविशेषो येषां तानि तपनीयलम्यूसकानि। (सुवण्णपयरगमंडिया इति) पाश्वतः सामस्त्येन सुवर्णप्रतर