________________ पडिसेवणा 363 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा हिताना सर्वप्रयत्नेन सर्वाऽऽत्मना स्वशक्त्यनतिक्रमेण / अपि शब्दो भिन्नक्रमः,स चैवं योजनीयःयतमानानामपि मध्ये कस्याऽपि कर्मोदयप्रत्ययिका कर्मोदयहेतुका विराधना भवेत् / आह-किमेकान्तेनैव प्रतिसेवना कर्मोदयप्रत्ययिका, उतान्योऽपि कश्चित्प्रकारः प्रतिसेवनाया अस्ति? उच्यते-अस्तीति ब्रूमः / तथा चाऽऽहअन्ना वि हु पडिसेवा, साउन कम्मोदएण जा जयतो। सा कम्मक्खयकरणी, दप्पाऽजयकम्मजणणी उ॥४२|| कर्मोदयहेतुका या प्रतिसेवना सा तावदेकाऽस्त्येव, किं त्वन्याऽपि कर्मोदयहेतुकाया व्यतिरिक्ताऽपि प्रतिसेवा प्रतिसेवनाऽस्ति। (साउन कम्मोदएणं ति ) तुशब्दोऽव्ययत्वेनानेकार्थत्वात् हेतौ / ततोऽयमर्थःयतः साऽन्या प्रतिसेवना न कर्मादयेन कर्मोदयहेतुका, कर्मादयहेतुकत्वे अन्यथा योगात। सा च कारणे, तत्राऽपि यतनया द्रष्टव्या। तत्र या कारणे (जयता ति) यतमानस्य प्रतिसेवना सा कर्मक्षयकरणी-कर्मक्षयः क्रियतेऽनयेति कर्मक्षयकरिणी, करणे अनट् / सा हि नावशस्य सतः कर्मोदयहेतुका, किं तु सूत्रोक्तनीत्या कारणे यतनया यतमानस्य ततस्तत्राऽऽज्ञाविराधनात् सा कर्मक्षयकारिणी / या पुनः प्रतिसेवना दर्पणः, या च कल्प्पेऽप्ययतनया सा कर्मजननी। तथा चाऽऽह- (दप्पा जयकम्मजणणी उ) या दर्पण कारणेऽपि चायतमानस्य प्रतिसेवा कर्म जन्यते अनया कर्मजननी / तदेवं यतो दर्पण कल्प्येऽपि चायतनया प्रतिसेवना कर्मजननी। तत इदं सिद्धम् - पडिसेवणा उ कम्मो-दएण कम्ममवि तन्निमित्तागं। अन्नोन्नहेउसिद्धी, के सिं वीयंकुराणं व / / 43 / / प्रतिसेवना कर्मोदयेन। किमुक्तं भवति? प्रतिसेवनाया हेतुः कमोदयः, कर्माऽपि च तन्निमित्तकं प्रतिसेवनानिमित्तकम्, कर्मणोऽपि हेतु: प्रतिसेवना इति भावः / एवं तेषां प्रतिसेवनाकर्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः / केषामिव परस्परं हेतुभावसिद्धिरित्यत आहवीजाडुकुरयोरिव, गाथायां द्वित्वेऽपि बहुवचनं प्राकृतत्वात्। तथा वीजमड्कुरस्य हेतुरड्डरोऽपिच वीजस्य हेतुरित्यनोंः परस्पर हेतुभावः, तथा कर्मप्रतिसेवनयोरपि। दिट्ठा खलु पडिसेवा, सा उ कहं हुज्ज पुच्छिए एवं / भण्णइ अंतोवस्सएँ, बाहिं व वियारमादीसुं॥४४|| परस्य चक्षुरादिप्रत्यक्षतः स्वस्यस्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा तु क्षेत्रतः क्व भवेत इति एवममुना प्रकारेण पृष्टे सति भण्यते उत्तरं दीयते / अन्तः मध्ये उपाश्रये उपाश्रयस्य, बहिर्वा विचाराऽऽदिषु विचाराऽऽदिनिमित्त बहिर्निर्गतस्य, उपलक्षणमेतत्। तेन कालतः प्रश्ने दिवा रात्री वा, भावतः प्रश्ने दर्पण कल्पेन इत्यपि वक्तव्यमिति। पडिसेविऍ दप्पेणं, कप्पेणं वा वि अजयणाए उ। नविणज्जइ वाधातो, कं वेलं होज जीवस्स // 45|| दर्पण कल्प्यनाप्ययतनया प्रतिसेविते मासिकाऽऽदिकमतीचारं प्राप्तेन संवगमुपगच्छता आलोचना प्रयोक्तव्या। एतच चिन्तयितव्यं, नाऽपि नैवं | ज्ञायते-कां वेलां कस्यां वेलायां व्याघातो, 'जीव' प्राणधारणे, जीवनं / जीवस्तस्य, जीवितस्येत्यर्थः / व्याघातो भवेत्। अनालोचिते यदि भियते ततो दीघसंसारी भवति। तत एव तद भण्यते - तं न खमं खुपमातो" मुहुत्तमाव आसिउं ससल्लेणं। आयरियपादमूले, गंतूण समुद्धरे सल्लं / / 46 / / यस्मादचिन्तितः पतति जीवितस्य व्याघातः, अनालोचिते च मृतस्य दीर्घसंसारिता, तस्मात् (पमातो इति) अत्र दकारस्य लोपःप्राकृतत्वात्। प्रमादवशेन सशल्येनातीचारशल्ययुक्तेन मुहुर्तमप्यासितुं न क्षमम्। खलु निश्चित कृत्वाऽऽवार्यपादमूले गत्वा आलोचनाविधानेन प्रायश्चित्तप्रतिपत्त्या शल्यमतीचाररूपं समुद्धरेत् विशोधयेत्। यस्मात्नहु सुज्झई ससल्लो, जह भणियं सासणे जिणवराणं / उद्धरियसव्वसल्लो, सुज्झइ जीवो धुयकिलेसो॥४७।। यथा भणितं जिनवराणां भगवतामर्हता शासने तथा ज्ञायते, जिनवचनतो ज्ञायते इत्यर्थः / (नहु) नैव, सशल्योऽतीचारशल्यपरिकल्पितस्तपश्चरणाऽऽदिकं प्रभूतमपि कुर्वन् शुद्ध्यति। "अविसुद्धस्स न वड्डइ, गुणसेढी तत्तिया ठाइ।" इति वचनात्। किं तद ? उद्धृतसर्वशल्यः सन् तपश्चरणाऽऽदि भावतो धुतक्लेशोऽपगमितसमस्तकर्मजालो जीवः शुद्ध्यति मुक्ताऽऽत्मा भवतीति। व्य०१ उ०२ प्रक०। प्रतिसेवकस्य प्रायश्चित्तम् -सीसो पुच्छति-एय, पुण पच्छित्तं कि पुण पडिसेविणो, अपरिसेविणो जइ पडिसेविणो तो जुत्तं, अह अपडिसेविणो तो सव्वे साहू सपायच्छित्ता, सपायच्छित्तिणो य चरणअसुद्धत्तं, चरणासुद्धीओ य अमोक्खो, दिक्खादि णिरत्थया। गुरू भणइतं अइपसंगदोसा, णिसेवतो होति ण तु असे विस्स। पडिसेवए य सिद्धे, कत्तादिव सिज्झए तितयं / / 72 / / तदिति पूर्वप्रकृतापेक्ष अति अत्यर्थः / प्रसङ्गो नामअवशस्यानिष्टप्राप्तिः / जस्स अपडिसेवंतस्स पच्छित्तं तस्सेसो अतिप्पसंगदोसो भवति। वयं पुण णिसेवतो इच्छामोणो अणिसेवउं।अहवा-तंपचिछत्तं, अति अच्चत्थे, पसंगो पाणादिवायाऽऽदिसु, दूसिजति जेण स दोसा, अतिपसंग एव दोसो अतिपसंगदोसो, तेण अतिपसंगदोसेण दुट्टो णिसेवति त्ति, आचरतीत्यर्थः। होति भवति, प्रायश्चित्तमिति वाक्यशेषः / ण पडिसेहे, तु अवधारणे, असेविस्स अणाचरतः, तुसद्दोऽवधारणे अपडिसेवणो न भवत्येव, पडिसेविणो विणिच्छियं भवति जो य सो पडिसेवति सोय पडिसेवगो, तम्मि सिद्धे पडिसेवणा, पडिसेवितव्वं च सिद्धं भवति / स्यान्मतिः कह पुणपडिसेवगसिद्धीओपडिसेवणापडिसेवियव्या, णसिद्धी, एत्थ दिढतो भण्णति-कत्तादि व सिज्झते त्ति तितयं जो करेति सो कता,कता आदी जेसिं ताणिमाणि कत्तादीणि / ताणिय करण-कज्जाणि जहा कर्तरि सिद्धे कत्ता करण कजाणि सिद्धाणि भवंति। कहं ? उच्यतेसकत्ता तक्करणेहिं पयत्त कुर्वाणोतदत्थंकजममिणिप्पायति, इव ओवामे, एवं जहा पडिसेवणाए पडिसेवियव्वेण य पडिसेवगो भवति, तस्सि'पमादतो' इव्यस्य स्थाने प्राकृत्वात् 'पमातो।'