________________ पडिसेवणा 362 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा मूलगुणे पंचविहा, पिंडविसोहाऽऽइया इयरा / / 41 / / प्रतिसेवना समासेन संक्षेपेण द्विविधा / तद्यथा- मूलगुणविषया, उत्तरगुणविषया। तत्र मूलगुणविषया पञ्चविधाप्राणातिपात-मृषावादादत्ताऽऽदानमैथुनपरिग्रहरूपा। इतरा उत्तरगुणविषया पिण्ड विशुद्ध्यादिविषया अनेकविधा / अत्राऽऽदिशब्दात्समित्यादिपरिग्रहः / किमुक्तं | भवति? मूलगुणेषु प्राणातिपातविरत्यादिषु, उत्तरगुणेषु पिण्डविशुद्ध्यादिषु यथाक्रम प्रतिसेवना प्राणातिपाताऽऽदिलक्षणा पवावधा। आधाकोपभोगाऽऽदिलक्षणा अनेकविधेति / तत्र मूलगुणप्रतिसेवना संरम्भाऽऽदिभेदतश्चित्रा, उत्तरगुणप्रतिसेवना त्वतिक्रमाऽऽदिभेदतः।। तथा चाऽऽहसा पुण अइक्कमें वइ-कमे य अइयार तह अणायरे / सारं में समारम्भे, आरंभे रागदोसाऽऽदी।।४।। सा उत्तरगुणप्रतिसेवना पुनरतिक्रमे, व्युत्क्रमे, अतीचारे, तथा अनाचारे भवति। एतदुक्तं भवति-सर्वाऽप्युत्तरगुणप्रतिसेवना अतिक्रमाऽऽदिभेदतश्वतुष्पकारा। मूलगुणप्रतिसेवना संरम्भे, समारम्भे, आरम्भे च, संरम्भाऽऽदिभेदतस्त्रिप्रकारेति भावार्थः। ते च संरम्भाऽऽदयो रागद्वेषाऽऽदितः। रागतो, द्वेषतः, आदिशब्दादज्ञानतश्च / तत्र रागतो यथा चिलातीपुत्रस्य सुसुमाबधः / द्वेषतो यथा सत्यके₹षायनव्यापादनम् / अज्ञानतो ब्राहाणाऽऽदीनां छागाऽऽदिवधः / ननु "यथोद्देशस्तथा निर्देश इति" प्रथमतो मूलगुणप्रतिसेवना व्याख्यातुमुचिता, पश्चादुत्तरगुणप्रतिसेवना। अत्र तु विपर्यय इति कथम् ? उच्यते-इह प्रायः प्रथम तः किलाऽल्पसंक्लिष्टाध्यवसायः स तूत्तरगुणप्रतिसेवनां कुरुते / पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामितिख्यापनार्थ विपर्ययेणोपन्यास इत्यदोषः / व्य० 1 उ० 1 प्रक० / मूलगुणे पञ्च प्रतिसेवनाः, अनाचारे चतुर्मासलघु / मूलगुणे पञ्चविधा प्रतिसेवनेति यदुक्तं, तत्र पञ्चविधत्वं दर्शयतिपाणिवह मुसावाए, अदतें मेहुण परिग्गहे चेव। मूलगुणे पंचविहा, परूवणा तस्सिमा होइ / / 45 / / व्य०१ उ०१ प्रक० / ('मूलगुणपडिसेवणा' शब्दे व्याख्या) साम्प्रतमस्यामेव 'सा पुण अतिक्कमेत्यादिकायां गाथायां यद् मूलोत्तरगुणप्रतिसेवनयोर्विपर्ययणोपन्यसनमकारि, तत्र कारणमाक्षेपपुररसरमुपन्यस्यन्नाहचोएइ किमुत्तरगुणा, पुवं बहु अ थोव लहुयं च। अतिसंकिलिटुभावो, मूलगुणे सेविते पच्छा / / 51 / / चोदयति प्रश्नयति शिष्यो, यथा-किमुत्तरगुणा उत्तरगुणप्रतिसेवना पूर्वमुक्ता?, "यथोद्देशं निर्देशः" इति न्यायाद्धि पूर्व मूलगुण प्रतिसेवना वक्तुमुचितेति भावः / अत्रोत्तरमाह-बहव उत्तरगुणाः स्तोका मूलगुणाः, तथा लघु शीघ्रम्, उत्तरगुणानां सेवकः प्रतिसेवकः, ततोऽविसक्लिष्टभावः सन् पश्चात् मूलगुणान्सेवते प्रतिसेवते इति ख्यापनार्थ विपर्य येणोपन्यासः इह प्रायाश्चत्तं मुखवृत्त्या विशोधिः, तथा चाऽ अपराध विघाय विशुद्धमनसो गुरुसमक्षं वदन्ति भगवन्नमुकस्या पराधस्य प्रयच्छत प्रायश्चित्तमिति, कदाचित्सेवनाऽप्युप वारात्प्राय रिचत्तम तथाऽपराधे कृते वक्तारो भवन्ति-समापितमस्याकमद्य प्रायश्चित्तमिति / तत्र यथोपचारतः प्रतिसेवनाप्रायश्चित्तमुच्यते, तथोपपादयन्नाहपडिसेवियम्मि दिज्जइ, पच्छित्तं इहरहा उ पडिसेहो। तेण पडिसेवण चिय, पच्छित्तं तं चिमं दसहा / / 5 / / प्रतिसे विते प्रतिषिद्धसे विते यस्मात् प्रायश्चित्त दीयते, इतरथा प्रतिषिद्धासेवनमन्तरेण प्रतिषेधः प्रायश्चित्तम्य / ततः प्रतिसेवना प्रायश्चित्तस्य निमित्तमिति कारणे कार्योपचारात् प्रतिसेवनै व प्रायश्चित्तम् / व्य०१ उ०१ प्रक०। तत्र प्रतिसेवनाव्याख्यानार्थमाहमूलुत्तर पडिसेवा, मूले पंचविह उत्तरे दसहा। एकेका वि य दुविहा, दप्पे कप्पे य नायव्वा / / 38|| प्रतिसेवा नाम प्रतिसेवना, सा च द्विधा (मूलोत्तर त्ति) 'पदैकदेशे पदसमुदायोपचारात् "मूलगुणातिचारप्रतिसेवना, उत्तरगुणातिचारप्रतिसेवना च / तत्र (मूल पंचविह त्ति) मूले मूलगुणातिचार. प्रतिसेवना पञ्चविधा पञ्चप्रकारा, मूलगुणातिचाराणा प्राणातिपाताऽऽदीनां पञ्चविधत्वात् / उत्तरे उत्तरगुणातिचारप्रतिसेवना दशधा दशप्रकारा, उत्तरगुणानां दशविधतया तदतिचाराणामपि दशविधत्वात् / ते च दशविधा उत्तरगुणा दशविधं प्रत्याख्यानम् / तद्यथा-अनागतमतिक्रान्त कोटी सहितनियन्त्रितम् / साकारमनाकारं, परिमाणकृतं निरवशेष सांकेतिकमद्धाप्रत्याख्यानं च / अथवा-इमे दशविधा उत्तरगुणाः / तद्यथा-पिण्डविशोधिरेक उत्तरगुणः, पञ्च समितयः / पञ्च उत्तरगुणाः / एवं तयोर्बाह्य षष्ठ भेदं सप्तम उत्तरगुणाः, अभ्यन्तरषट्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः, अभिग्रहा द्रव्यक्षेत्रकालभावभेदभिन्ना दशमः / एतेषुदशविधेषूत्तरगुणेषुयाऽतिचारप्रतिसेवना क्रियते सा दपिका, या पुनः कारणे सा कल्पिका। अत्र शिष्टाः पृच्छन्तिकिह भिक्खू जयमाणे, आवजइ मासियं तु परिहारं / कंटगपहे च छलणा, भिक्खू वि तहा विहरमाणो।३६। केन प्रकारेण भिक्षुर्यतमानः सूत्रोक्तनीत्या प्रयत्नपरी मासिकं परिहार प्रायश्चित्तस्थानमापद्यते। नैवाऽऽयत्तिसंभवो, यतनया सर्वत्र प्रवृत्तेरिति भावः। आचार्य आह-(कंटगेत्यादि) कण्टकाऽऽकीर्णः पन्थाः कण्टकपथस्तस्मिन्निवयतनयाऽपि वर्तमानस्य छलना भवति, ततो भिक्षुरपि तथा विहरन् यतमानो मासिकमापद्यते प्रायश्चित्तस्थानमिति। अत्रैव दृष्टान्तान्तरमाहतिक्खम्मि उदगवेगे, विसमम्मि विज्जलम्मि वच्चंतो। कुणमाणो वि पयत्तं, अवसो जह पावए पडणं / / 4 / / तीक्ष्णेऽतिप्रबले शीघ्र च उदकवेगे उदकरये यदि वा विषमे अतिदुर्गमे विजले सकर्दमस्थाने व्रजन् पुरुषः कुर्वन्नपि प्रयत्नमवशो यथा प्राप्नोति पतनम्। इह समणसुविहियाणं, सव्वपयत्तेण वी जयंताणं / कम्मोदयपव्वइया, विराहणा कस्स इ हवेज्जा / / 41 / / इह श्रमणा लिङ्गमात्रधारिणोऽपि व्यवन्हियन्ते, शाक्याऽऽदयोऽपि च / ततस्तद्व्यवच्छेदार्थ सुविहितग्रहण, शोभनं विहितमनुष्ठान येषांते सुविहिताः, तेच श्रमणशब्देन सह विशेषणसमासः।तथा-प्रागुक्तदृष्टान्तप्रकारेण श्रमणसुवि