________________ पडिसेवणा 361 - अभिधानराजेन्द्रः - भाग 5 पडिसेवणा पडिसेवणा स्त्री० (प्रतिसेवना) प्रतिसेव्यते इति प्रतिसेवना। आधाकर्मोपजननहेतुविशेषे, पिं०। तत्र प्रथमतः प्रतिसेवनास्वरूपं वक्तव्यं, तत्राऽपि य आधाकर्म स्वयमानीय भुङ्क्ते स आधाकर्मप्रतिसेवी प्रतीत एव / केवलमिह ये परेणोपनीतमाधाकर्म भुञ्जानस्यन कश्चिद्घोष इति मन्यन्ते तन्मतविकुट्टनार्थ परेणोपनीतस्याऽऽधाकर्मणो भोजने प्रतिसेवनादोषमाह अन्नेणाऽऽहाकम्म, उवणीयं असइ चोइओ भणइ। पहत्थेणंऽगारे, कबुतो जह न डज्झइ हु॥११४। एवं खु अहं सुद्धो, दोसो देंतस्स कूडउवमाए। समयत्थमजाणंतो, मूढो पडिसेवणं कुणइ॥११५।। अन्येन साधुना भक्ताऽऽदिकभाधाकर्म उपनीतं गृहस्थगृहादानीम समर्पित, तद योऽनाति स प्रतिसेवनां करोतीति संबन्धः / स चाधाकर्म भुजानः केनाप्यपरेण साधुना धिग्गहो महे यच भवान् विद्वानपि संयतोऽप्यावाकर्म भुञ्जीतेति चोदितो विक्षिप्तः सन् प्रत्युत्तरं भणतियथा न मे कश्चिद्दोषः, स्वयं ग्रहणस्याभावात्। यो हि नाम स्वयमाधाकर्म गृहीत्वा भुङ्क्त तस्य दोषो, यस्तु परेणोपनीतं भुक्ते तस्य न कश्चित्। तथा चाऽत्र दृष्टान्तो यथा- परहस्तेनाङ्गारान् कर्षयन्न दह्यते, एवमहमप्याऽऽधाकर्मभोजी, (खु) निश्चितं शुद्ध एव, दोषः पुनर्ददतो, यथा परस्य स्वहस्तेनाङ्गा-रानाकर्षतः, एवं कूट्या उपमया, अलीकेन दृष्टान्तेन, समयार्थ भगवत्प्रवचनोपनिषदम्। "जस्सट्ठा आरंभो, पाणिवहो होइ तस्स नियमेण / पाणिवहे वयभंगो, वयभंगे दुग्गई चेव / / 1 / / '' इत्यादि रूपमजानान:ऽत एव मूढः प्रतिसेवनं कुरुते / तदेवमुक्तं प्रतिसेवनस्य स्वरूपम्। पिं० / प्रतीपं सेवना प्रतिसेवना। संयमानुष्ठानात् प्रतीपसंयमानुष्ठाने, ओध० / प्रतिषिद्धस्य सेवना प्रतिसेवना / अकल्पसमाचरणे, व्य०१ उ / चारित्रभंशनायान, बृ०१ उ०३ प्रक०। प्रतिसेवनाभेदाःपडिसेवओं य पडिसे-वणा य पडिसेवियव्वयं चेव। एएसिं तु पयाणं, पत्तेयपरूवणं वुच्छं // 37 // प्रतिषिद्धं सवते इति प्रतिषेवकः, प्रतिसेवनक्रियाकारी। चः समुचये। प्रतिसेवना अकल्प्यसमाचरणम् / प्रतिसेवितव्यमकल्पनीयम् / एतेषां त्रयाणामपि पदानां प्रत्येकं प्ररूपणा वक्ष्ये। प्रतिज्ञातमेव निर्वाहयतिपडिसेवओं सेवंतो, पडिसेवण मूल उत्तरगुणे य / पडिसेवियव्व दव्वं, रूवि व्व सिया अरूवि व्य||३५|| प्रतिसेवको नामाकल्प्यं सेवमानः,प्रतिसेवना अकल्प्यसमाचरणम्। सा च द्विधा-(मूल उत्तरगुणे य इति ) गुणशब्दः प्रत्येकमपि संबध्यते। मूलगुणविषया, उत्तरगुणविषया च / यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति, उत्तरगुणप्रतिघाति वा तत्प्रतिसेवितव्यम्। तच द्रव्यं, पर्यायो वा / तत्र पर्याया द्रव्य एवान्तर्भूता विवक्षिताः, भेदाभावादिति द्रव्य द्रष्टव्यम / तथा चाऽऽहद्रव्य तच्च स्यात् कदाचिद्रूपि आधाकर्माऽऽधोदनाऽऽदि, वा विकल्पे, अरूपि वा आकाशाऽऽदितदपि हि मृषावादाऽऽदिविषयतया भवति कदाचित्प्रतिसेवनीयम्, इह प्रतिसेवनामन्तरेण न प्रतिसेवकस्य सिद्धिः, नापि प्रतिसेवनीयस्य। ततः प्रतिसेवनाया विशेषतः प्ररूपणामाह पडिसेवणा उ भावो, सो पुण कुसलो य होज्जऽकुसलो वा। कुसलेण होइ कप्पो, अकुसलपरिणामओ दप्पो // 36 / / प्रतिसेवना द्विविधा-द्रव्यरूपा, भावरूपा च / प्रतिसेवनक्रियायाः कर्तृकर्मगतत्वात् तत्र या तस्य वस्तुनः प्रतिसेव्यमानता सा द्रव्यरूपा प्रतिसेवना। यस्तु जीवस्य तथा प्रतिसेवकत्वपरिणामः सा भावरूपा प्रतिसेवना, सैव चेह ग्राह्या, परिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तेः / तथा चाऽऽह-(पडिसेवणा उ भावो) प्रतिसेवना नाम, तुरेवकारार्थोभिन्नक्रमच, भाव एव जीवस्याध्यवसाय एव नान्या। स च भावो द्विधाकुशलोऽकुशलश्च / तत्र कुशलो ज्ञानाऽ-ऽऽदिरूपोऽकुशलोऽविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवना, सा कल्पः, पदैकदेशे पदसमुदायोपचारास्कल्पप्रतिसेवना, कल्पिका इति भाव / या पुनरकुशलपरिणामतः प्रतिसेवना, सा दर्पः-दर्पप्रतिसेवना,दर्पिका इत्यर्थः। आह-किमेषां त्रयाणामपि परस्परमेकत्वम्, अन्यत्वं वा ? उच्यते उभयमपि। कथमित्यत आहनाणी न विणा णाणं, नेयं पुण तेसऽणनमन्नं च। इय दोण्हमनाणत्तं, भइयं पुण सेवियव्वेण ||40|| यथा ज्ञानं विना अन्तरेण ज्ञानी न भवति, ज्ञानपरिणामपरिणत-तयैव ज्ञानित्वव्यपदेशभावादिति। तयोर्ज्ञानज्ञानिनोरेकत्वम्। (इय दोण्हमनाणत्तं ति) इति एवं ज्ञानिज्ञानगतेन प्रकारेण द्वयोः प्रतिसेवकप्रतिसेवनयोरनानात्वमेकत्वं, प्रतिसेवनामन्तरेण प्रतिसेवकस्याऽप्यभावात् प्रतिसेवनापरिणामपरिणतावेव प्रतिसेवकत्वव्यपदेशप्रवृत्तेः। (णेयं पुण तेसऽणण्णमन्नं च इति ) पुनःशब्दो विशेषद्योतने। स चामुं विशेष द्योतयतिन ज्ञानज्ञानिनोः परस्परमविज्ञयेनापि सहाय एकत्व, किं तु ज्ञेय, तयोनि-ज्ञानिनोरनन्यत। तथाहि-यदा ज्ञानी आत्माऽऽलम्बनज्ञानपरिणामपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं, यदा चाऽऽत्मव्यतिरिक्तघटाद्यालम्बनज्ञानपरिणामपरिणतस्तदा ज्ञत्वमात्मनो घटाऽऽदीनामन्यत्वात, ज्ञानमपि यदाऽभिनिबोधिकाऽऽदिस्वरूपाऽऽलम्बनं तदा ज्ञानज्ञेययोरेकत्वम्, यदा तु स्वव्यतिरिक्तघटाऽऽद्यालम्बनं तदाऽन्यत्वं घटाऽऽदीना ज्ञानात मूतोमूर्त्ततया पृथग् देशाऽऽदितया च भिन्नत्वात् / (भइयं पुण सेवियव्वेण इति ) अत्रापि इतीत्युवर्तते, इति उक्तेन प्रकारेण प्रतिरसेवकप्रतिसेवनयोरना-नात्वं भक्तं विकल्पितं पुनर्नानात्वं सेवितव्येन प्रतिसवितव्येन, कदाचिदनानात्वं, कदाचिन्नानात्वमित्यर्थः। तथाहियदा प्रतिसेवको हन्तकाऽऽदि प्रतिसेवते तदा प्रतिसेवकप्रतिसेवितव्ययोरेकत्वमित्यर्थः, यदा पुनः प्रथमतया कीटकाऽऽदिसत्त्वव्यापादनाऽऽदि प्रतिसेवते तदा नानात्वं कीटकाऽऽदिसत्त्वाना साधोः पृथगभूतत्वात्प्रतिसेवनात् यदा प्रतिसेव्यमानता तदा सा प्रतिसेवितव्यादनन्यैवेति प्रतिसेवनाप्रतिसे वितव्ययोरेकत्वनानात्वचिन्ता नोपपद्यते / अथ प्रतिसेवनाप्रतिसेवक स्याध्यवसायः, स तर्हि यदात्मव्यापादनविषयस्तदा प्रतिसेवकत्वं, यदा तु बाह्यस्यादिप्रतिसेवनाविषयः तदा नानात्वम्, स्त्र्यादेः प्रतिसेवकादन्यत्वात्। संप्रति यत्प्राक मूलोत्तरगुणविषयतया प्रतिसेवनाया द्वैविध्यमुक्तं तद्विभावयिषुराहमूलगुण उत्तरगुणे, दुविहा पडिसेवणा समासेणं /