________________ पडिलेहणा 345 - अमिधानराजेन्द्रः - भाग 5 पडिलेहणा लगति, न च तिर्यक, न भूमौ, तथा कर्तव्यम् (छप्पुरिमा) तत्र वस्त्रस्य चक्षुषा निरूप्याक्भिागं त्रयः पुरिमाः कर्तव्याः, तथा परावर्त्य अपरभागं निरूप्य पुनरिप त्रयः पुरिमाः कर्तव्याः / एतमेतेषु पुरिमाः षड्वाराः, प्रस्फोटनानीत्यर्थः, नव च खोडकाः कर्तव्याः। पाणेरुपरि (पाणी पाणे पमजणय त्ति) प्राणिनां कुन्थ्वादीनां पाणौ हस्ते प्रमार्जनं नवैव वाराः कर्तव्याः। इयं द्वारगाथा। इदानीं भाष्यकारः पूर्वार्द्ध व्याख्यानयन्नाहवत्थे अप्पाणम्मिय, चउह अणच्चावियं अचलियं च। अणुबंध निरंतरया, तिरि उड्ढह घट्टणा मुसली / / 4266 वस्त्रे आत्मनि इत्यनेन पदद्वयेन भङ्गचतुष्टयं सूचितं भवति। ततश्चानेन प्रकारेण अनावितं चतुर्द्धा भवति। कथम्?-"वत्थं अणचावियं अप्पा च अणचावियं एगो भगो। तथा वत्थं अणच्चावियं, अप्पाणं णच्चावियं। तथा वत्थं णच्चावियं अप्पाणं ण णच्चावियं / तथा वत्थं पिनच्चाविय अप्पाण विणचावियं / एस चउत्थो। एत्थ पढमो भंगो सुद्धो।" एवम्(अचलितं ति अचलितेऽपि चउरो भङ्गा यथा-वत्थं अचलित अप्पाणं अचलिया तथा-वत्थं चलियं अप्पाणं अचलिया तथा-वत्थं अचलियं अप्पाणं चलिय / तथा वत्थं पि चलियं अप्पाणं पि चलिय / एत्थ पढमो भंगो सुद्धो। (अणुबंधनिरंतरय ति) अनुबन्धनिरन्तरता उच्यते, ततश्च न अनुबन्धेन नैरन्तर्येण प्रत्युपेक्षणा कर्तव्या। इदानीम् "अमोसलिं ति'' व्याख्यानयनाह- [तिरि उड्ढह घट्टणा मुसलि त्ति |त्रिविधा मुशली तिर्यघट्टना,ऊर्द्ध घटना, अधोघटना चेति। तत्र प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुट्यादि घट्टति स्पृशति, ऊर्द्ध कुट्टिकाऽऽदिपटलानि घट्टयति, अधोभुवं घट्टयति / एवं मुशली, किं तु अमुशली न किञ्चित् प्रत्युपेक्षणां कुर्वन् वस्त्रेण धट्टयति। इदं तावत् पूर्वोक्तमनर्तिताऽऽदि कर्त्तव्यम्, इदं तु वक्ष्यमाणं न कर्तव्यं, किं तदित्याह आरभडा सम्मद्दा, वज्जेयव्वा य मोसली तइया। पप्फोडणा चउत्थी, विक्खित्ता वेइय छ दोसा।।४२७।। (आरभड त्ति) आरभटा प्रत्युपेक्षणा न कर्त्तव्या, (संमद्दत्ति) संमर्दा, वर्जनीया च मौशली तृतीया, प्रस्फोटना च चतुर्थी , विक्षिप्ता पञ्चमी, वैदिका षष्टी इति द्वारगाथेयम्। इदानी भाष्यकारः प्रतिपदं व्याख्यानयति / तत्राऽऽद्यावयवव्याचिख्यासुराह.. वितहकरणे व तुरियं, अण्णं अण्णं च गेण्हणाऽऽरभडा। अंतो व होज कोणा, णिसियण तत्थेव संमद्दा // 42 // वितथं विपरीतं यत्करणं तदारभटाशब्देनोच्यते / सा चाऽऽरभटा प्रत्युपेक्षणा न कर्तव्या इत्यर्थः, वा विकल्पे, इयं चाऽऽरभटोच्यते, यदुत त्वरितमाकुलं यदन्यान्यवस्त्रग्रहणं तदारभटाशब्देनोच्यत सा च प्रत्युपेक्षणा न कर्तव्या। त्वरितमन्यान्यवस्त्रग्रहणं न कर्तव्यमित्यर्थः / आरभटेति भणितम्। इदानीं संमर्दा व्याख्यते। तत्राऽऽह-(अतो व होज कोणा, निसियण तत्थेव संमद्दा) अन्तर्मध्यप्रदेशे वस्त्रस्य संवलिताः | कोणा यत्र भवन्ति सा संमर्दोच्यते, सा प्रत्युपेक्षणा, तादृशी क्रिया न कर्तव्या। (णिसीयण तत्थेवत्ति) तत्रैव अवधिकायामुपविश्य प्रत्युपेक्षणं करोति, सा वा समर्दोच्यते, सा च न कर्तव्या इति। "संमत्ति भणियं / " इदानीं मौशलीवर्जनप्रतिपादनायाऽऽहमोसलि पुवुद्दिट्ठा, पप्फोडण रेणुगुंडिए चेव। विक्खेवं तु विखेवे, वेइय पणगं च छद्दोसा // 426|| मौशली पूर्वमेवोद्दिष्टा, पूर्वमेव भणिता इत्यर्थः। 'मोसलि त्ति' गता। इदानीं "पप्फोडि त्ति' व्याख्यायते-तत्राऽऽह-(पप्फाडण रेणुगु-डिए चेव) प्रकर्षण धूननं प्रस्फोटन, तद्रेणुगुण्डितस्यैव वस्त्रस्य करोति, यथाऽन्यः कश्चित् गृहस्थो रेणुना गुण्डितं सद् वस्त्रं प्रस्फोटयति, एवमसावपि, इयं च न कर्तव्या / "पप्फोडण त्ति '' गतम्। इदानीं "विक्खित ति" भण्यते / तत्राऽऽह- (विक्खेवं तु विखेवे) विक्षेपं तु तं विद्धि यत्र वस्त्रस्यान्यत्र क्षेपणम् / एतदुक्तं भवतिप्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकाऽऽदौ क्षिपति / अथवा-विक्षेपः वस्त्राचलानामूर्द्ध यत् क्षेपण स उच्यते / स च प्रत्युपेक्षणायां न कर्त्तव्यः। 'विविखत्त ति" गतम्। इदानीं 'वेइय त्ति" व्याख्यायते-तत्राऽऽह-(वेइयपणगं च त्ति) वेदिका पचप्रकारा। "तं जहा-उड्डे वेइया, अधो वेइया, तिरिय वेइया, दुहतो वेइया, एगओ वेइया / तत्थ उड्डवेइया-उवरि जाणुगाणं हत्थे काऊण पउिलेहेइ। अधोवेइया अधोजाणुगाणं हत्थे काऊण पडिलेहेइ। तिरियवेड्या-संडसगाणं मज्झ मज्झेणं हत्थेणेत्तणं पडिलेहेति, दुहओ वेइया-बाहूर्ण अंतरे दो वि जाणुगा काऊण पडिलेहेइ. एगओ वेइया जाणुगं वाहाणं अंतरे काऊण पडिलेहे।" इदं वेदिकापञ्चकं प्रत्युपेक्षणा कुर्वता न कर्तव्यमा(छद्दोस त्ति) एते आरभटाऽऽदयः प्रत्युपेक्षणां कुर्वता न कर्तव्या इति। तथा एते च दोषाः प्रत्युपेक्षणायां न कर्तव्याः। पसिढिल पलंवलोला, एगा मोसा अणेगरूव धुणे। कुणइ पमाणे पमायं, संकिएँ गणणोवगं कुजा / / 430|| (पसिढिलं ) दृढं न गृहीतम् [पलंब त्ति] प्रलम्बमानाञ्चलंएका-न्ते गृहीतं, ततश्च प्रलम्बते। लोला इति] भूमौ लोलते हस्ते वा पुनर्लो लयति प्रत्युपेक्षयन। 'लोल त्तिगयं।" [एगा मोस ति] मत्सरं गहेऊण हत्थेहि वत्थं घसंतो तिभागावसेसं जाव णेति, दोहिं वि पासेहिं जाव गिण्हण इत्यर्थः / अहवा-तिहिं अंगुलीहिं घेत्तयंतो एकाए चेव गेण्हइ। अहवाणेगा मोसा" इति केचित्पठन्ति। तत्र न एके आमर्षा अनेके स्पर्शा इत्यर्थः / [अणेगरूव धुण त्ति "अणेगपगारं कंपेति / अथवा-अणेगाणि एगओ काऊण धुणइ।'' तथा- [कुणइ पमाणे पमायं तिपुरिमेषु खोटकेषु यत्प्रमाणमुक्तं भवति तान् पुरिमादीनां न्यूनानधिकान् वा करोति / (संकिए गणणोवगं कुज्ज त्ति शङ्किता चाऽसौ गणना च शङ्कितगणना तामुपगच्छतिया प्रत्युपेक्षणा सा शङ्कितगणनोपगताताम् एवं गुणविशिष्ट न कुर्यात्। एतदुक्तं भवति-पुरिमाऽऽदयः शङ्कितान् जानाति कियन्तो गता इति, ततो गणनां करोति। तथा अनाभोगाच्छङ्किते सति गणनोपगां गणनामुपगच्छतीति गणनोपगता गणनोपगां गणनामुक्तप्रत्युपेक्षणां करोति पुरिमाऽऽदीन गणयन्नित्यर्थः / द्वारगाथयम्।