________________ पडिलेहणा 344 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा उपनययोजना तु प्रागृतोपनययोजनानुसारेण कर्तव्येति / गत प्रत्युपेक्षणाद्वारम् / बृ०१ उ०। इदानीं प्रत्युपेक्षणीयमुच्यते, तत्प्रतिपादनायाऽऽहठाणे उवगरणे वा, थंडिलें अवर्थभ मग्ग-पडिलेहा। किं आदी पडिलेहा, पुव्वण्हे चेव अवरण्हे / / 413 / / स्थानं कायोत्सर्गाऽऽदि त्रिविधं वक्ष्यति / तथा-उपकरणं पात्रकाऽऽदि, स्थण्डिलं यत्र कायिक्यादि क्रियते, अवष्टम्भः-अवष्टम्भनं, तत्प्रत्युपेक्षणा, मार्गः वर्त्म, यदेतत्परकमुपन्यस्तं, एतद्विषया प्रत्युपेक्षणा भवति (किं आदी पडिलेहा पुव्वण्हे) किमादिका प्रत्युपेक्षणा पूर्वाह मुखवस्त्रिकाऽऽदिकेति, अपराह्ने किमादिका, तत्रापि मुखवस्त्रिकाऽऽदिकति द्वारगाथेयम्। इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति। तत्र सामान्येन सर्वाणि च द्वाराणि व्याख्यानयन्नाहठाणनिसीयतुयट्टण-उवगरणाईण गहणनिक्खेवे। पुट्विं पडिलेहे च-क्खुणा उपच्छा पमञ्जेज्जा / / 414 / / स्थान कायोत्सर्गः, तं कुर्वन् चक्षुषा प्रथम प्रत्युपेक्षते, पश्चात् प्रमार्जयति / तथा-निषीदनमुपविशनं, त्वग्वर्तनं स्वपनम्, तथाउपकरणाऽऽदीनां ग्रहणनिक्षेपे च / आदिग्रहणात् स्थण्डिलमवष्टम्भश्व गृह्यते / एतानि सर्वाण्येव पूर्व चक्षुषा प्रत्युपेक्ष्य, पश्चाद्रजोहरणेन प्रमृज्यन्ते / ओघ, / (स्थानद्वारम् 'काउस्सग' शब्दे तृतीयभागे 417 पृष्ठे विवृतम्) इदानीमुपकरणद्वारप्रतिपादनायाऽऽहउवगरणादीयाणं, गहणे निक्खेवणे य संकमणे / ठाण निरिक्ख पमजण,काउं पडिलेहए उवहिं।।४२०।। उपकरणाऽऽदीना ग्रहणे आदाने यत् स्थानं तद् निरीक्ष्य निरूप्य प्रमृज्य च, उपधिः प्रत्युपेक्षणीय इत्यव संबन्धः / तथा-उपकरणाऽऽदीनां निक्षेपणे च यत् स्थानं तद् निरीक्ष्य प्रमृज्य च उपधिः प्रत्युपेक्षणीयः। तथा-उपकरणाऽऽदीनामेव यत् संक्रमण स्थानान्तरसंक्रमणं तरिमन यत् स्थानान्तर निरीक्ष्य प्रमार्जनं कृत्वा उपधि, प्रत्युपेक्षेत योऽयमादिशब्दः स उपधिप्रकारप्रतिपादकः उपकरणाऽऽदेः गृहणनिक्षेपणसंक्रमणेषु यत् स्थानं तत्स्थान-निरीक्षण प्रमार्जनमुक्तम् / इदानीमुपकरणप्रत्युपेक्षणाप्रतिपादनायाऽऽहउवगरण वत्थ पायं, वत्थे पडिलेहणं तु वोच्छामि। पुव्वण्हे अवरण्हे, मुहणंतगमाइपडिलेहा / / 421 // उपकरणप्रत्युपेक्षणा द्विविधा-(वत्थे पाए त्ति) वस्त्रविषया, पात्रविषया च प्रत्युपेक्षणा उच्यते, यतः प्रव्रजितस्य प्रथमं वस्त्रोपकरणमेव दीयते, नपात्रोपकरणम्, साच वस्त्रप्रत्युपेक्षणा। सा च कस्मिन्काले भवतीत्यत आह- (पुव्वण्हे अवरण्हे) पूर्वाह्ने वस्त्रप्रत्युपेक्षणा भवत्यपराहे च / किमादिका पुनः प्रत्युपेक्षणा भवतीत्यत आह- (मुहणतगमादिपडिलेह त्ति) मुखवस्त्रिका आदौ यस्याः प्रत्युपेक्षणायाः सा मुखवस्त्रिकाऽऽदिका प्रत्युपे-क्षणा, कदा पूर्वाह्न, अपराहे चेति। तत्र मुखवस्त्रिकाऽऽदिकवस्त्रप्रत्युपेक्षणायामयं विधिः उर्ल्ड थिरं अतुरियं, सव्यं वा वत्थ पुव्व पडिलेहे। तो वितियं पप्फोडे, तइयं च पुणो पमजेञ्जा // 422 / / तत्र वस्त्रोद्ध कायोर्द्ध च आर्यामतेन भविष्यति, चोदकमतेन च वक्ष्यमाणम्, तत्र वस्त्रोद्ध कायोर्द्ध च यद्वा भवंति तथा प्रत्युपेक्षेत थिर ति] स्थिर सुगृहीतं कृत्वा प्रतयुपेक्षेत / [अतुरियं ति] अत्वरित स्तिमितं प्रत्युपेक्षेत निरीक्षेत [सव्वं ति] सर्वं कृत्स्नं वस्त्रं तावत् पूर्व प्रथमं प्रत्युपेक्षेत चक्षुषा निरीक्षते, एवं तावदर्वाग्भागः परभागोऽपि परावृत्य एवमेव चक्षुषा निरीक्षते [तो वितिय पप्फोडि त्ति ततः द्वितीयायां वारायां प्रस्फोटयेत् वस्त्रं, प्रस्फोटिमा कर्तव्या इत्यर्थः [तइयं च पुणा पमज्जेज त्ति तृतीयायां वारायां हस्तगतान् प्राणान् प्रमार्जयेदिति। इदानीमेनामेव गाथा भाष्यकारो व्याख्यानयन्नाहवत्थे काए तम्मि य, परवयणं ठिओ गहाय दसियते। तं न भवइ उकुडुओ, तिरियं पेहे जह विलित्ते // 423 / / तत्रोचं द्विविधा-वस्त्रोध कायोवं, चेत्येते, तस्मिन्नुक्ते परवयणं ति] परचोदकस्तस्य वचनम्। किं तदित्याह [ठिओ गहाय दसियंत ति] स्थितस्य ऊर्द्धस्य गृहीत्वा दशान्तं वस्त्रं प्रस्फोटयति वस्त्रोद्ध कायोर्द्ध चेति भवति / एवमुक्ते सति आचार्य आह- [तं ण भवति ति] तदेतन्न भवति यचोदकेनाभिहितम् / कुतः? यस्मात् [उकुडुओ तिरियं पेहे) उत्कुटुकः स्थितः तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षते, एतदेव वचनं वस्त्रोद्ध कायोर्द्ध वा नान्यत् / यथा चन्दनाऽऽदिना विलिप्ताङ्ग: परस्परमङ्गानि न लगयति, एवं सोऽपि प्रत्युपेक्षते ततश्चैवम् उत्कुटुकस्य कायोर्द्ध भवतीति, तिर्यकप्रसारितस्स वस्त्रस्य वस्त्रोद्धं भवतीति "उड्ड ति" (422) भणितम्। इदानी स्थिराऽऽदीनि पदानि भाष्यकार एव व्याख्यानयन्नाहघेत्तुं थिरं अतुरियं, तिभागवुड्डीऍ चक्खुणा पेहे। तो वितियं पप्फोडे,तइयं च पुणो पमञ्जेज्जा॥४२४।। गृहीत्वा च स्थिरं निविडं दृढ वरचं ततः प्रत्युपेक्षेत, अत्वरित स्तिमितमूर्द्ध वस्त्रं ततः प्रत्युपेक्षेत इति भावः / (तिभागवुड्डीए त्ति) भागत्रयवृद्ध्येत्यर्थः चक्षुषा प्रत्युपेक्षेत।ततः द्वितीयवारायां प्रस्फोटयेत्, तृतीयवारायां प्रमार्जयेत् पूर्ववत्। इदानी प्रत्युपेक्षणां कुर्वता इदं कर्तव्यम्अणच्चावियं अचलियं, अणाणुबंधि अमोसलिं चेवा छप्पुरिमा णव खोडा, पाणी पाणे पमजणया॥४२५।। तत्र प्रत्युपेक्षणां कुर्वता वस्त्रमात्मा वा न नर्तयितव्यः, तथाऽचलितं वस्त्रं शरीरं च कर्तव्यम्। (अणाणुबंधिति) अनुबन्धः, सोऽस्मिन्नस्तीति अनुबन्धि, न अनुबन्धि अननुबन्धि तत्प्रत्युपेक्षणा न अनवरत प्रस्फोटनाऽऽदि कर्तव्यं, किं तर्हि सान्तरं सविचछेद इत्यर्थः / (अमोसलिं ति) न मोशली क्रिया यस्मिन् प्रत्युपेक्षणे तदमोशलि प्रत्युपेक्षण, यथा मुशल कुट्टिते ऊर्द्ध लगति, अधस्तिर्यक, एवं न प्रत्युक्षणा कर्तव्या। किंतु यथा प्रत्युपेक्षमाणस्य ऊर्द्ध पीठिषु न