________________ पडिलेहणा 343 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा परिन्न ति] मत्वर्थीयप्रत्ययलोपाद् परिज्ञा तपः कृतभक्रप्रप्रत्याख्यानस्य (गिलाणसरिसखवय त्ति ग्लानस्य ग्लानसदृशश्च यः क्षपको विकृष्टतपस्वी, तस्य एतेषा चतुर्णामुपधिं यदि प्रत्युपेक्षते तदा चत्वारो गुरवः / चशब्दात्माघूर्णकस्थविरशेषाणामग्लानोपमस्य च क्षपकस्योपधिमप्रत्युपेक्षाणानां चतुर्लघवः [उरु इत्यादि पश्वार्द्धम्] यदा सर्वाण्यपि वस्त्राणि प्रत्युपेक्षितानि भवन्ति तदा यान्यतिरिक्तानि भाजनानि तानि प्रत्युपेक्षन्ते, प्रतिग्रहमात्रकं च यदितदानीमेव प्रत्युपेक्षते तदा मासलधु, असामाचारीनिष्पिन्नमिति भावः / अतः सूत्रपौरुषीं कृत्वा चतुर्भागावशेषायां पौरुष्यां प्रत्युपेक्ष्य द्वे अपि ऋतुबद्धे काले धारणीयेन निक्षेप्तव्यः। / अथ ऋतुबद्धे प्रतिग्रह मात्रकं वा न धारयति उपकरण वा दवरकेन न बधाति तदा पसलधु। अग्निस्तेनदण्डिकक्षोभाऽऽदयश्च ओघनियुक्तिप्रतिपादिता दोषाः / बर्षासु पुनरुपधिं न बनाति प्रतिग्रहमात्रक च प्रत्युपक्ष्य निक्षिपति, अथोपधि बध्नाति भाजने वा धारयति तदा मासलघु / विशेषतश्चूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं लिखितं यथागुरु पच्चक्खाया लहु, गिलाण सरिसखमए य चउगुरुणा। पाहुणगा सह बाले, वुड्डे खमए य चउलहुगा / / 27 / / चउभागवसेसाए, पडिग्गहं पच्चुवेक्ख न धरेइ। उडुबद्ध मासलहुं, वासासु धरिति मासलहुं / / 828 इदं च गाथाद्वयं भावितार्थमेव। अथ प्रतिलेखिनिका सप्रतिपक्षेति पदं भावयतिअसिवे ओमोयरिए, सागारभए य रायगेलन्ने। जो जम्मि जया, जुज्जइ, पडिदक्खे तं जहा जोए।।८२६| प्रतिपक्षो नाम द्वितीयपदम्, अशिवे अशिवगृहीतः सन्न शक्नोति प्रत्युपक्षितुमयमौदर्ये तु प्रत्यूष एव भिक्षा हिण्डितुं प्रारब्धवन्तः, अतो नास्तिप्रत्युपेक्षणायाः कालः, सागारिको वा प्रेक्षमाणों मातं सारमुपधिमद्राक्षीदिति कृत्वा, भये वा बोधिकस्तेनाऽऽदिसंबन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षन्ते, राजा वा प्रत्यनीकस्तदाहर्निशमध्वनि वहन्तो न प्रत्युपेक्षेरन ग्लानत्वे वा वर्तमान एकाकी तिष्ठन्न प्रत्युपेक्षते / एतैः कारणेर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले प्रत्युपेक्षते, त्वरमाणैर्वा आरनडाऽऽदिभिर्वा दोषैर्दुष्टां प्रत्युपेक्षणां न कुर्वते, असमर्थो वा गुर्वादीनामप्युपछि न प्रत्युपंक्षेत, एवं यो यत्र शिवाऽऽदौ यदा यस्मिन्नवसरे प्रतिपक्षे प्रत्युपेक्षणाकाले प्रत्युपेक्षणाऽऽदिको युज्यते तं तथा तत्र योजयेदिति अथ षट्सु कायेषु प्रत्युपेक्षमाणस्य प्रायश्चित्तं भवतीत्यर्थ, तत्र प्रत्युवेक्षणा न कर्तव्येति यदुक्त, तदेवदर्शयतितसवीयरक्खणट्ठा, काएसु वि होज कारणे पेहा। नदिहरण-पुत्तनायं, तणू य थूरे य पुत्तम्मि।।८३०।। त्रसाश्च द्वीन्द्रियाऽऽदयः बीजानि च शाल्याऽऽदीनि, तेषामस्थिरसंहननानां रक्षार्थ कायेष्वपि पृथिव्यादिषु दृढसहननेषु कारणतः प्रत्युपेक्षणा भवति। नच प्रायश्चितम्। आह-तेषु तिष्ठतः प्रत्युपेक्षणां कुर्वन् संघट्टनाऽऽदिबाधनात् कथं न दोषभाग भवतीति? उच्यते-नदीहरणोपलक्षित पुत्रज्ञातमत्र भवति / कथमित्याह- (तणू य थूरे य पुत्तम्मि त्ति) यथा कस्यचित्पुरुषस्य द्रौ पुत्रौ तयोरेकस्तनुकः कृशशरीरः, द्वितीयस्तु स्थूलोऽतीव पीवरगात्रः, स चान्यदा ताभ्यां सहितः कश्चित् ग्राम गछन्नपान्तराले एकामपारगम्भीरांनदीमवतीर्णवान् सचनदी प्लवनतया सुखनैव स्वयं ता तरीतुं शक्तः, परं पुत्रावद्यापि तरणकलायामकोविदाविति कृत्वा तनुके स्थूले चपुत्रे उभयेऽपितारयितुं प्राप्ते सतिस किं करोतीत्याहजइसे हविज ताओ, तारिज्जतओ दुवग्गे वि। थूरो पुण तणुअतरं, अवलंबंतो वि बोलेइ॥३१।। यदि (से) तस्य पितुः शक्तिः सामर्थ्य भवेत् ततो (दुवग्गे वि त्ति) देशीवचनत्वात् द्वावपि पुत्रावुत्तारयेत् नैकमप्युपेक्षेत। अथ नास्ति तस्य तथाविधं सामर्थ्य, ततो यस्तयोः कृशशरीस्तं तारयति, लघुभूतशरीरतया तस्य सुखेनैव तारणीयत्वात्। यस्तु स्थूरशरीरो जडः सतनुकतरं स्तोकमात्रमप्यवलम्बमानो निजशरीरभारिकतयैवाऽऽत्मानं तं च नद्या बोलयति अतस्तमुपेक्षते। एष दृष्टान्तः। अयमर्थोपनयः-पितृस्थानीयः साधुः पुत्रद्वयस्थानीयाः स्थिरशरीरसंहननिन पृथिवीकायाऽऽदयः। ततः साधुना प्रथमतो निर्विशेषं षड्कायाः स्थिरसंहनिनश्च रक्षणीयाः। अथान्यतरेषां विराधनामन्तरेणाध्वगमनाऽऽदिषु प्रत्युपेक्षणाऽऽदीना प्रवृत्तिरेव न घटामञ्चति, ततः स्थिरसंहननिनां पृथिव्यादीनां विराधनामभ्युपेत्यास्थिरसंहनिनस्त्रसाऽऽदयो रक्षणीया इति। अस्यैवार्थस्य समर्थनाय द्वितीयं दृष्टान्तमाहअंगारखडपडियं, दळूण सुयं सुयं विइयमन्नं / पवलित्ते नीणितो, किं पुत्ते ण य कुणइ पायं / 832 / यथा नामकश्चित्पुरुषस्तस्य पुत्रद्वयम्, अन्यदाचरात्रौतद्गृहे प्रदीपनक लग्नं, तद्भयादेकः पुत्रः पलायमानः सहसैवाङ्गारभृतायां गर्तायां निपतितः, स च गृहपतिर्द्वितीयं पुत्रमादाय गृहान्निर्गतो यावन्नश्यति पुरतः स्वपुत्रमगारगर्तायां पतितं पश्यति, तं सुतं तथाभूतं दृष्ट्वा द्वितीयमन्यं सुत (पवलिते नीणितो त्ति) पञ्चम्यर्थे सप्तमी प्रदीप्ताद् गृहान्निष्काशयन् निजपारिणामिकमत्या विचार्य परिच्छेदकुशलः सन् किमङ्गारगर्तायां निपतितपूर्वे पुत्रे पादं न करोति, अपितु करोत्येव,कृत्वा च तदुपरि पाद सुखेनैव तां लड्डयतीति भावः। अथ तदुपरि पादं न दद्यात् स्वपुत्रं कथं पादेनाऽऽक्रमामीतिकृत्वा, ततः को दोष स्यादित्याहतं वा अणकमंता, चयइ सुयं तं च अप्पगं चेव। निस्थिन्नो हुँतं पि हु, पुत्तं तारिज जो पडितो // 833 / / वाशब्दः पातनायां, सा च कृतैव, ततो गर्तानिपतितं तं पुत्रं पादेनानाक्रामन् स पिता त्यजति पुत्रं तं च, स्वहस्तगृहीतमात्मानं च, उभयोरप्यङ्गारगर्तापातेन विनाशसद्भावात्। अपिच सस्वयं निस्तीर्णः सन् कदाचितमपि पुत्र तारेयत् यः पूर्वं गर्तायां पतित इति। एष द्वितीयो दृष्टान्तः।